मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ३९

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 39

पुत्रहीनाञ्जना पूर्वं दुःखिता तपसि स्थिता

अथ पुत्रार्थमञ्जनाकृततपःप्रकारः ॥

श्रीसूत उवाच ॥

पुत्रहीनाञ्जना पूर्वं दुःखिता तपसि स्थिता ॥

तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः

॥१॥

अञ्जनाख्यामुवाचेदमत्युग्रे तपसि स्थिताम्

॥२॥

मतंग उवाच

समुत्तिष्ठाञ्जने देवि किमर्थं तपसि स्थिता ॥

वद देवि महाभागे कार्यं तव वरानने

॥३॥

अंजनोवाच

मतंग मुनिशार्दूल वचनं मे शृणुष्व ह ॥

पिता मे केसरी नाम राक्षसः शिवतत्परः

॥४॥

शैवं घोरं तपश्चक्रे पुत्रार्थं तु सुदुष्करम् ॥

पार्वतीसहितः शंभुर्वृषभोपरि संस्थितः

॥५॥

प्रादुरासीत्तदा देवो ददौ तस्मै वरं शुभम्

॥६॥

शम्भुरुवाच

शृणु राजन्प्रवक्ष्यामि विधिना निर्मितं तव ॥

अस्मिजन्मन्यपुत्रत्वं तथाप्यन्यद्ददामि ते

॥७॥

विश्रुता सर्वलोकेषु पुत्री तव भविष्यति ॥

तस्याः पुत्रो महाबुद्धिस्तव प्रीतिं करिष्यति

॥८॥

इति तस्मै वरं दत्त्वा तत्रैवान्तर्दधे हरः ॥

मां लब्ध्वा मत्पिता विप्रः कृतकृत्यो बभूवू ह

॥९॥

ततः कालान्तरे विप्रः केसर्याख्यो महाकपिः ॥

ययाचेमां ददस्वेति पितरं मे ततः पिता

॥१०॥

तस्मै मां दत्तवांश्चैव पारिबर्हं ददौ च सः ॥

गवां लक्षसहस्राणि गजलक्षं महामनाः

॥११॥

वाजिनामर्बुदं चैव रथानामर्बुदं तथा ॥

वस्त्ररत्नान्यनेकानि दासदासीसहस्रकम्

॥१२॥

अन्तःपुरचरीर्नारीर्नृत्यगीतविशारदाः ॥

ददौ वासः सहस्रं च मया साकं महामते

॥१३॥

पत्या मे रममाणाया भूयान्कालो गतो मुने ॥

अपुत्रा दुःखिता विप्र व्रतानि विविधानि च

॥१४॥

कृतानि च मया तत्र किष्किन्धायां महापुरि ॥

माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा

॥१५॥

स्नानदानव्रतादीनि चातुर्मास्यव्रतं तथा ॥

नमस्कारस्तथा विप्र प्रदक्षिणमनुत्तमम्

॥१६॥

शालग्रामान्नदानानि दीपदानं तथैव च ॥

गोदानं तिलदानं च वस्त्रदानं महामुने

॥१७॥

भूदानं वारिदानं च दत्त्वा पुष्पादिकं मुने ॥

यानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥

मया कृतानि सर्वाणि सत्पुत्रफलकांक्षया

॥१८॥

श्रवणादिषु यत्प्रोक्तं व्रतं विप्रैमहात्मभिः ॥

मया कृतं च विप्रेद्रं तुष्ट्यर्थं मधुविद्विषः

॥१९॥

यानि यानि च मुख्यानि फलानि विविधानि च ॥

मया दत्तानि सर्वाणि सत्पुत्रफलकांक्षया

॥२०॥

मया कृतान्यसंख्यानि व्रतानि विविधानि च ॥

पुत्रं तथाप्यलब्ध्वाहं दुःखिता तपसि स्थिता

॥२१॥

भविष्यति कथं विप्र पुत्रस्त्रैलोक्यविश्रुतः ॥

याचेऽहं तु मुनिश्रेष्ठ प्रणता च तवाग्रतः

॥२२॥

वद त्वं मुनिशार्दूल दीनाहं तपसि स्थिता

॥२३॥

श्रीसूत उवाच

एवं वदन्तीं तां प्राह मतङ्गो मुनिसत्तमः ॥

शृणु मद्वचनं देवि पुत्रपौत्रप्रदायकम्

॥२४॥

इतो दक्षिणदिग्भागे दशयोजनदूरतः ॥

घनाचल इति ख्यातो नृसिंहस्य निवासभूः

॥२५॥

तस्योपरि महाभागे ब्रह्मतीर्थं मनोहरम् ॥

तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः

॥२६॥

सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥

तस्या एवोत्तरे भागे वृषभाचलनामतः

॥२७॥

तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा ॥

गत्वा दृष्ट्वा शुभं तोयं मनःशुद्धिं गमिष्यसि

॥२८॥

तत्र स्नात्वा विधानेन वराहं तं प्रणम्य च ॥

वेङ्कटेशं नमस्कृत्य ततो गच्छ वरानने

॥२९॥

उत्तरे स्वामितीर्थस्य सिंहशादूलसंयुते ॥

चूतपुन्नागपनसैर्बकुलामलकः शुभैः

॥३०॥

चन्दनागुरुनिम्बैश्च तालहिन्तालकिंशुकैः ॥

कपित्थाश्वत्थबिल्वैश्च इङ्गुदैश्च वरानने

॥३१॥

एतादृशैर्महापुण्यैर्वृक्षैश्च विविधैः शुभैः ॥

वियद्गंगेति विख्यातं तीर्थमेकं विराजते

॥३२॥

तस्मिंस्तीर्थेऽञ्जने देवि संकल्पविधिपूर्वकम् ॥

स्नात्वा पीत्वा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता

॥३३॥

वायुमुद्दिश्य हे देवि तपः कुरु वरानने ॥

देवैश्च राक्षसैर्विप्रैर्मनुजैर्मुनिसत्तमैः

॥३४॥

भृङ्गैः पक्षिभिरस्त्रैश्च शस्त्रैश्च विविधैः शुभैः ॥

अवध्यो भविता पुत्रस्तपसा ते न संशयः

॥३५॥

श्रीसूत उवाच

इति प्रोक्ताञ्जना देवी तं प्रणम्य पुनःपुनः ॥

भर्त्रा साकं ययावाशु वेंकटाचलसंज्ञकम्

॥३६॥

कापिलं तीर्थमासाद्य स्नात्वा निर्मलमानसा ॥

वेंकटाद्रिं समारुह्य स्वामिपुष्करिणीं ययौ

॥३७॥

स्नात्वा वराहमानम्य वेंकटेशकृतानतिः ॥

मतंगस्य ऋषेर्वाक्यं स्मरन्ती च मुहुर्मुहुः

॥३८॥

वियद्गङ्गां ययावाशु चाञ्जना मंजुभाषिणी ॥

स्नात्वा पीत्वा शुभं तोयं तीरं तस्य तदुन्मुखी

॥३९॥

प्राणवायुं समुद्दिश्य तपश्चक्रे यतव्रता ॥

फलाहारा जलाहारा निराहारा ततः परम्

॥४०॥

सहस्राब्दं तपश्चक्रे न्यस्तनासाग्रदृष्टिका ॥

वयस्या विपुला नाम शुश्रूषामकरोच्छुभा

॥४१॥

वर्षाणां च सहस्रान्ते वायुर्देवो महामतिः ॥

प्रादुरासीत्तदा तां वै भाषमाणो महामतिः

॥४२॥

मेषसंक्रमणं भानौ संप्राप्ते मुनिसत्तमाः ॥

पूर्णिमाख्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते

॥४३॥

तवेप्सितमहं दास्ये वरं वरय सुव्रते ॥

इति तद्वचनं श्रुत्वा ततः प्राहाञ्जना सती

॥४४॥

पुत्रं देहि महाभाग वायो देव महामते ॥

तस्यास्तद्वचनं श्रुत्वा मातरिश्वाब्रवीत्ततः

॥४५॥

पुत्रस्तेऽहं भविष्यामि ख्यातिं दास्ये शुभानने ॥

इति तस्यै वरं दत्त्वा तत्रैवास्ते महाबलः

॥४६॥

तदा ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः ॥

वसिष्ठाद्या महात्मानः सनकाद्याश्च योगिनः

॥४७॥

व्यासादयश्च विप्रेंद्रा लक्ष्म्या साकं जगत्पतिः ॥

मुनिपत्न्यो देवपत्न्य ऋषिपत्न्यस्तथैव च

॥४८॥

स्वं स्वं वाहनमारुह्य दारभृत्यसुतादिभिः ॥

आगतास्ते महात्मानो द्रष्टुं तां तपसि स्थिताम्

॥४९॥

आश्चर्यमाश्चर्यमिति ब्रुवाणा ब्रह्मादयो देवगणाश्च सर्वे ॥

आलोकयन्तो दिवि दूरतस्ते स्थितास्तदा ब्रह्ममहेशमुख्याः

॥५०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये अंजनातपःकरणप्रकारादिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥