अथातः संप्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम्
श्रीसूत उवाच
अथ काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाशः ॥
अथातः संप्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम् ॥
लक्षीकृत्य कथामेकां पवित्रां द्विजसत्तमाः
॥१॥काश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थवरे शुभे ॥
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात्
॥२॥ऋषय ऊचुः
मुने काश्यपनामासावकरोत्किं हि पातकम् ॥
स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात्
॥३॥एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ॥
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते
॥४॥श्रीसूत उवाच
श्रीस्वामिपुष्करिण्याश्च माहात्म्यप्रतिपादकम् ॥
इतिहासं प्रवक्ष्यामि पठतां पापनाशनम्
॥५॥अथ परीक्षिद्वृत्तान्तः ॥
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ॥
अध्यास्त हास्तिनपुरं पालयन्धर्मतो महीम्
॥६॥स राजा जातु विपिने चचार मृगयारतः ॥
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः
॥७॥नष्टमेकं स विपिने मार्गयन्मृगमादरात् ॥
ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः
॥८॥मया बाणेन विपिने मृगो विद्धोऽधुना मुने ॥
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः
॥९॥समाधिनिष्ठो मौनित्वान्न किंचिदपि सोऽब्रवीत् ॥
ततो धनुरटन्या स स्कन्धे तस्य महामुनेः
॥१०॥निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ ॥
मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै
॥११॥सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमः ॥
सखायं शृंगिणं प्राह कृशाख्यः स सखा ततः
॥१२॥पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ॥
मा भूद्दर्पस्तव सखे मा क्रुध्यस्त्वमिदं वृथा
॥१३॥सोऽभवत्कुपितः शृंगी दित्सुः शापं नृपाय वै ॥
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः
॥१४॥स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ॥
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम्
॥१५॥शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ॥
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुंगवः
॥१६॥रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ॥
अराजके वयं लोके स्थास्यामः कथमञ्जसा
॥१७॥क्रोधेन पातकं भूयाद्दयया प्राप्यते सुखम् ॥
यः समुत्पादितं कोपं क्षमयैव निरस्यति
॥१८॥इह लोके परत्रासावत्यंतं सुखमश्नुते ॥
क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम्
॥१९॥ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ॥
भो गौरमुख गत्वा त्वं वद भूपं परीक्षितम्
॥२०॥इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ॥
पुनरायाहि शीघ्रं त्वं मत्समीपं महामते
॥२१॥एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ॥
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम्
॥२२॥दृष्ट्वा सर्पं पितुः स्कंधे त्वया विनिहितं मृतम् ॥
शमीकस्य सुतः शृङ्गी शशाप त्वां रुषान्वितः
॥२३॥एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ॥
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः
॥२४॥एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ॥
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम्
॥२५॥इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ॥
गते गौरमुखे पश्चाद्राजा शोकपरायणः
॥२६॥अभ्रंलिहमथोत्तुङ्गमेकस्तंभं सुविस्तृतम् ॥
मध्ये गङ्गं व्यतनुत मण्डपं नृपपुङ्गवः
॥२७॥महागारुडमन्त्रज्ञैरोषधिज्ञैश्चिकित्सकैः ॥
तक्षकस्य विषं हन्तुं यत्नं कुर्वन्समाहितः
॥२८॥अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ॥
आस्ते तस्मिन्नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान्
॥२९॥तस्मिन्नवसरे विप्रः काश्यपो मान्त्रिकोत्तमः ॥
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात्
॥३०॥सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ॥
अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ
॥३१॥मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत ॥
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने
॥३२॥इति पृष्टस्तदाऽवादीत्काश्यपस्तक्षकं द्विजः ॥
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना
॥३३॥धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ॥
इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत्
॥३४॥तक्षकोऽहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ॥
न शक्योब्दशतेनाऽपि महामन्त्रायुतैरपि
॥३५॥चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ॥
अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम्
॥३६॥ततो भवान्समर्थो हीत्येवं मे भाति हे द्विज ॥
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा
॥३७॥अभवद्भस्मसात्सोऽपि वृक्षोत्यन्तसमुच्छ्रितः ॥
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान्
॥३८॥तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ॥
तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ
॥३९॥काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ॥
मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना
॥४०॥इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ॥
आजीवयन्मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः
॥४१॥स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत् ॥
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम्
॥४२॥यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ॥
यत्ते राजा धनं दद्यात्ततोऽपि द्विगुणं धनम्
॥४३॥ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ॥
इत्युक्त्वानर्घरत्नानि तस्मै दत्त्वा स तक्षकः
॥४४॥न्यवर्तयत्काश्यपं तं ब्राह्मणं मन्त्रकोविदम् ॥
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः
॥४५॥स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ॥
सोऽब्रवीत्तक्षकः सर्पान्सर्वानाहूय तत्क्षणे
॥४६॥यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ॥
उपहारफलान्याशु प्रयच्छत परीक्षिते
॥४७॥तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ॥
तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले
॥४८॥कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥
अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः
॥४९॥परीक्षिन्मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि
॥५०॥कौतूहलेन जग्राह स्थूलमेकं करे फलम् ॥
तस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत
॥५१॥मिथ्या ऋषिवचो माभूदिति तत्रत्यमानवाः ॥
अन्योऽन्यमवदन्सर्वे ब्राह्मणाश्च नृपास्तदा
॥५२॥एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ॥
साधु रक्तः कृमिः सर्वै राज्ञा चापि परीक्षिता
॥५३॥अयं किं मां दशेदद्य क्रिमिरित्युक्तवान्नृपः ॥
निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः
॥५४॥तक्षकोऽस्मिन्स्थितः कण्ठे कृमिरूपी फले तदा ॥
निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत्
॥५५॥तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ॥
अनन्तरं नृपो विप्रास्तक्षकस्य विषाग्निना
॥५६॥दग्धोभूद्भस्मसादाशु सप्रासादो बलीयसा ॥
कृत्वौर्ध्वदेहिकं तस्य नृपस्य सपुरोहिताः
॥५७॥मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ॥
राजानमभ्यषिञ्चन्वै जगद्रक्षणवाच्छया
॥५८॥तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ॥
यो ब्राह्मणो मुनिश्रेष्ठः स सर्वैर्निंदितो जनैः
॥५९॥बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ॥
अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि वा
॥६०॥यान्यान्देशानसौ यातस्तत्र तत्र महाजनैः ॥
तत्तद्देशान्निरस्तः सञ्छाकल्यं शरणं ययौ
॥६१॥प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ॥
इदं विज्ञापयामास शाकल्याय महात्मने
॥६२॥काश्यप उवाच
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ॥
मुनयो ब्राह्मणाश्चान्ये मां निन्दंति सुहृज्जनाः
॥६३॥नास्याहं कारणं जाने किं मां निन्दंति मानवाः ॥
ब्रह्महत्या सुरापानगुरुस्त्रीगमनं तथा
॥६४॥स्तेयं संसर्गदोषो वा मया नाचरितं क्वचित् ॥
अन्यान्यपि च पापानि न कृतानि मया मुने
॥६५॥तथाऽपि निन्दंति जना वृथा मां बान्धवादयः ॥
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद
॥६६॥उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ॥
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः
॥६७॥अथ शाकल्योक्तधर्माः ॥
शाकल्य उवाच ॥
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ॥
आयासीदर्धमार्गे तु तक्षकेण निवारितः
॥६८॥चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ॥
यो न रक्षति लोकेस्मिंस्तमाहुर्ब्रह्मघातकम्
॥६९॥क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ॥
यो न रक्षति विप्रेंद्र विषरोगातुरं नरम्
॥७०॥ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ॥
संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः
॥७१॥कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ॥
कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चित्तं तु विद्यते
॥७२॥विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ॥
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि
॥७३॥न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ॥
न तेन सह भाषेत न पश्येत्तं नरं क्वचित्
॥७४॥तत्संभाषणमात्रेण महापातकभाग्भवेत् ॥
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः
॥७५॥विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ॥
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम्
॥७६॥अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत् ॥
निवृत्तस्तेन विप्रेन्द्रैर्बान्धवैरपि दूष्यसे
॥७७॥स परीक्षिन्महाराजो यद्यपि क्षणजीवितः ॥
तथापि यावन्मरणं बुधैः कार्यं चिकित्सितम्
॥७८॥यावत्कण्ठगताः प्राणा मुमूषोर्मानवस्य हि ॥
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः
॥७९॥इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः ॥
ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः
॥८०॥अर्धमार्गे निवृत्तश्च तेन त्वं गर्हितो ह्यसि ॥
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत
॥८१॥काश्यप उवाच
ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ॥
येन मां प्रतिगृह्णीयुर्बान्धवाः ससुहृज्जनाः
॥८२॥कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ॥
काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः
॥८३॥क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा
॥८४॥शाकल्य उवाच
अस्य पापस्य शान्त्यर्थमुपायं प्रवदामि ते ॥
तत्कर्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज
॥८५॥सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ॥
वेंकटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः
॥८६॥तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ॥
ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशके
॥८७॥स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ॥
उत्तरे श्रीनिवासस्य वर्तते मंगलप्रदा
॥८८॥तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीं शुभाम् ॥
स्नात्वा संकल्पपूर्वं तु वराहस्वामिनं हरिम्
॥८९॥सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ॥
गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम्
॥९०॥श्रीनिवासं परं देवं भक्तानामभयप्रदम् ॥
शङ्खचक्रधरं देवं वनमालाविभूषितम्
॥९१॥दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज ॥
शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुंगवः
॥९२॥गत्वा वेंकटशैलेन्द्रं सुरासुरनमस्कृतम् ॥
पुष्करिण्यां शुभायां तु स्नातो नियमपूर्वकम्
॥९३॥स्वस्थोऽभूत्काश्यपो विप्रो भिषग्विद्याब्धिपारगः ॥
सर्वे बंधुजना विप्राः काश्यपं ब्राह्मणोत्तमम्
॥९४॥पूजयित्वा विधानेन पूज्योऽसि न च संशयः ॥
एवं वः कथितं विप्रा वेंकटाचलवैभवम्
॥९५॥यः शृणोति नरो भक्त्या विष्णुलोके महीयते
॥९६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलस्थस्वामिपुष्करिणीमाहात्म्ये काश्यपदोषनिवृत्तिर्नामैकादशोऽध्यायः ॥ ११ ॥