श्रीवराहमंत्राराधनविध्यादिवर्णनम्
अथ श्रीवराहमंत्राराधनविधिः ॥
श्रीसूत उवाच ॥
शृणुध्वं मुनयः सर्वे कथां पुण्यां पुरातनीम् ॥
वैवस्वतेंऽतरे पूर्वं कृते पुण्यतमे युगे
॥१॥नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम् ॥
वराहरूपिणं देवं धरणी सखिभिर्वृता
॥२॥प्रणम्य परिपप्रच्छ रक्तपद्मायतेक्षणम्
॥३॥धरण्युवाच
आराध्यः केन मंत्रेण भवान्प्रीतो भविष्यति ॥
तं मे वद त्वं देवेश यः प्रियो भवतः सदा
॥४॥जपतां सर्वसंपत्तिकारकं पुत्रपौत्रदम् ॥
सार्वभौमत्वदं चैव कामिनां कामदं सदा
॥५॥अन्ते यस्त्वत्पदप्राप्तिं ददाति नियमात्मनाम् ॥
एवंभूतं वद प्रीत्या मयि वाराह मानद
॥६॥श्रीसूत उवाच
इति पृष्टस्तया भूम्या प्राह प्रीतिस्मिताननः
॥७॥श्रीवराह उवाच
शृणु देवि परं गुह्यं सद्यः संपत्तिकारकम् ॥
भूमिदं पुत्रदं गोप्यमप्रकाश्यं कदाचन
॥८॥किं च शुश्रूषवे वाच्यं भक्ताय नियतात्मने
॥९॥ॐ नमः श्रीवराहाय धरण्युद्धरणाय च ॥
वह्निजायासमायुक्तः सदा जप्यो मुमुक्षुभिः
॥१०॥अयं मंत्रो धरादेवि सर्वसिद्धिप्रदायकः ॥
ऋषिः संकर्षणः प्रोक्तो देवता त्वहमेव हि
॥११॥छन्दः पंक्तिः समाख्याता श्रीबीजं समुदाहृतम् ॥
चतुर्लक्षं जपेन्मंत्रं सद्गुरोर्लब्धतन्मनुः
॥१२॥जुहुयात्पायसान्नं वै क्षौद्रसर्पिःसमन्वितम् ॥
अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम्
॥१३॥शुद्धिस्फटिकशैलाभं रक्तपद्मदलेक्षणम् ॥
वराहवदनं सौम्यं चतुर्बाहुं किरीटिनम्
॥१४॥श्रीवत्सवक्षसं चक्रशंखाभयकरांबुजम् ॥
वामोरुस्थितया युक्तं त्वया मां सागरांबरे
॥१५॥रक्तपीतांबरधरं रक्ताभरणभूषितम् ॥
श्री कूर्मपृष्ठमध्यस्थशेषमूर्त्यब्जसंस्थितम्
॥१६॥एवं ध्यात्वा जपेन्मंत्रं सदा चाष्टोत्तरं शतम् ॥
सर्वान्कामानवाप्नोति मोक्षं चान्ते व्रजेद्ध्रुवम्
॥१७॥प्रोक्तं मया ते धरणि यत्पृष्टोऽहं त्वयाऽमले ॥
अतः किं ते व्यवसितं ब्रूहि तद्विमलानने
॥१८॥अथ श्रीवराहमंत्रेण धर्मादीनां स्वाभीष्टसिद्धिवर्णनम् ॥
श्रीसूत उवाच ॥
एतच्छ्रुत्वा ततो भूमिः पप्रच्छ पुनरेव तम् ॥
केनैवानुष्ठितं देव पुरा प्राप्तं फलं च किम्
॥१९॥इति पृष्टः पुनर्देवः श्रीवराहोऽब्रवीदिदम् ॥
पुरा कृतयुगे देवि धर्मो नाम मनुर्महान्
॥२०॥ब्रह्मणोऽमुं मनुं लब्ध्वा जप्त्वास्मिन्धरणीधरे ॥
मां च दृष्ट्वा वरं लब्ध्वा प्राप्तोऽभून्मामकं पदम्
॥२१॥इंद्रो दुर्वाससः शापात्पुरा भ्रष्टस्त्रिविष्टपात् ॥
अनेनेष्ट्वाऽत्र मां देवि पुनः प्राप्तस्त्रिविष्टपम्
॥२२॥अन्येऽपि मुनयो भूमे जप्त्वा प्राप्ताः परां गतिम् ॥
अनंतः पन्नगाधीशो ह्यमुं लब्ध्वाथ कश्यपात्
॥२३॥श्वेतद्वीपे जपित्वैव बभूव धरणीधरः ॥
तस्माज्जप्यः सदा चेह मनुष्यैश्च धरार्थिभिः
॥२४॥श्रीसूत उवाच
एतच्छ्रुत्वाथ सुप्रीता पुनः प्राह धराधरम्
॥२५॥धरण्युवाच
वेंकटाख्ये महाशैले श्रीनिवासो जगत्पतिः ॥
कदा ह्यायाति देवेशः श्रीभूमिसहितोऽमलः
॥२६॥कथं कल्पान्तरस्थायी भविष्यति जनार्दनः ॥
एतद्ब्रूहि वराहात्मन्महत्कौतहलं मम
॥२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे श्रीवराहमंत्राराधनविध्यादिवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥