मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 8

ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम्

अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥

श्रीवराह उवाच ॥

ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम् ॥

किं कार्यं वद कल्याणि विवाहार्थं सुलोचने

॥१॥

आज्ञापयस्व स्वसखी रमे कार्यं कुरु प्रियम् ॥

श्रीस्तु कृष्णवचः श्रुत्वा सखीराहूय चोदयत्

॥२॥

श्रियाज्ञप्ता ततः प्रीतिः सुगंधं तैलमाददौ ॥

श्रुतिः क्षौमं समादाय तस्थौ देवस्य सन्निधौ

॥३॥

भूषणानि समादाय स्मृतिरप्याययौ मुदा ॥

धृतिरादर्शमाधत्त शान्तिर्मृगमदं दधौ

॥४॥

यक्षकर्दममादाय ह्रीः स्थिता पुरतो हरेः ॥

कीर्तिः कनकपट्टं च सरत्नं मुकुटं दधौ

॥५॥

छत्रं दधौ तदेंद्राणी चामरं तु सरस्वती ॥

द्वितीयं चामरं गौरी व्यजने विजयाजये

॥६॥

आगतास्ताः समालोक्य श्रीरुत्थायाथ सत्वरा ॥

सुगंधं तैलमादाय देवमभ्यज्य शीर्षतः

॥७॥

उद्वर्तितं गंधचूर्णैर्देवांगं परिमृज्य च ॥

आनीतान्करिभिस्तोयकलशान्कांचनाञ्छतम्

॥८॥

वियद्गंगादितीर्थेभ्यः कर्पूरादिसुवासितान् ॥

एकमेकं समादाय त्वभ्यषिंचद्रमा हरिम्

॥९॥

संधूप्य केशान्धूपेन तानाश्यामान्बबंध च ॥

सुगंधेनानुलिप्यांगं स्वर्णवर्णेन तद्विभोः

॥१०॥

पीतकौशेयकं बद्ध्वा कट्यां कांचीसमन्वितम् ॥

मुकुटादिविभूषाभिर्भूषयामास चेन्दिरा

॥११॥

अंगुलीयकरत्नानि सर्वास्वेवांगुलीषु च ॥

आदर्शं दर्शयामास धृतिर्देवस्य सन्निधौ

॥१२॥

दृष्ट्वादर्शं देवदेवो ह्यूर्ध्वपुंड्रं स्वयं दधौ ॥

आरुह्य गरुडं पश्चात्स्वयं लक्ष्मीसमन्वितः

॥१३॥

अथ ब्रह्मादिभिस्साकं श्रीनिवासस्य वियद्राजपुरगमनम् ॥

ब्रह्मेशवज्रिवरुणयमयक्षेशसेवितः ॥

वसिष्ठाद्यैर्मुनींद्रैश्च सनकाद्यैश्च योगिभिः

॥१४॥

भक्तैर्भागवतैर्युक्तो नारायणपुरीं ययौ ॥

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः

॥१५॥

देवदुंदुभयो नेदुस्तदा देवस्य सन्निधौ ॥

जपन्तः स्वस्तिसूक्तानि मुनयस्तं समन्वयुः

॥१६॥

देवो देवगणैर्युक्तो विष्वक्सेनादिपार्षदैः ॥

सखीभिस्स्यंदनस्थाभिर्बकुलाद्याभिरन्वितः ॥

आकाशराजस्य पुरमाससाद स्वलंकृतम्

॥१७॥

अथ पद्मावतीपरिणयघट्टः ॥

देवमागतमालोक्य कन्यामैरावतस्थिताम् ॥

पुरीं प्रदक्षणीकृत्य गोपुरद्वारमागताम्

॥१८॥

आलोक्याकाशराजोऽपि समानीय वधूवरौ ॥

बन्धुभिः सहितस्तस्थौ देवमालोक्य केशवम्

॥१९॥

विष्णुर्मालां स्वकंठस्थां हस्तेनादाय सस्मितः ॥

कमलायाः स्कन्धदेशे मुमोच सुमनश्चिताम्

॥२०॥

आदाय मल्लिकामाला साऽस्य कंठे समर्पयत् ॥

एवं त्रिवारं तौ कृत्वा वाहनादवरुह्य च

॥२१॥

स्थित्वा पीठे क्षणं पश्चाद्गृहं विविशतुः शुभम् ॥

ब्रह्मादिदेवयूथैश्च सहितौ भूमिजाहरी ओ

॥२२॥

मांगल्यसूत्रबंधादि सांकुरार्पणमब्जजः ॥

वैवाहिकं कारयित्वा लाजहोमान्तमेव च

॥२३॥

व्रतादेशं समाज्ञाय शयितौ कमलाहरी ॥

चतुर्थे दिवसे सर्वं समापय्य चतुर्मुखः

॥२४॥

अनुज्ञाप्य वियद्राजमारोप्य गरुडे हरिम् ॥

देवीभ्यां सहितं देवं देवैर्गन्तुं प्रचक्रमे

॥२५॥

दिव्यदुन्दुभिर्निर्घोषैः संप्राप्य वृषभाचलम् ॥

तुष्टुवुर्देवदेवेशं ब्रह्माद्या देवतागणाः

॥२६॥

शुकादयो मुनिगणास्तुष्टुवुः पुरुषोत्तमम् ॥

स्तूयमानोऽथ देवोऽपि विवेश मणिमंडपम्

॥२७॥

रमाधरणिजाभ्यां च तत्र सिंहासनं ययौ

॥२८॥

अथ वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् ॥

आकाशराजोऽपि तदा महेन्द्रादिसुरैः सह ॥

पुत्रीविष्ण्वोः प्रियार्थं तु प्राभृतं कतुमुद्यतः

॥२९॥

सौवर्णेषु कटाहेषु तंडुलाञ्छालिसंभवान् ॥

मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च

॥३०॥

पयोघटसहस्राणि दधिभाण्डान्यनेकशः ॥

दिव्यानि चूतकदलीनारिकेलफलानि च

॥३१॥

धात्रीफलानि कूष्माडराजरंभाफलानि च ॥

पनसान्मातुलुंगांश्च शर्करापूरितान्घटान्

॥३२॥

सुवर्णमणिमुक्ताश्च क्षौमकोट्यंबराणि च ॥

दासीदाससहस्राणि कोटिशो गास्तथैव च

॥३३॥

हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ ॥

तुंगानां नित्यमत्तानां गजानामधिकं शतात्

॥३४॥

अंतःपुरचरा नारीर्नृत्तगीतविशारदाः ॥

ददौ चतुःसहस्राणि श्रीनिवासाय विष्णवे ॥

दत्त्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः

॥३५॥

अथ श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्तिः ॥

दृष्ट्वा देवोऽपि तत्सर्वं देवीभ्यां सहितो हरिः

॥३६॥

सुप्रीतः प्राह राजानं श्वशुरं वेंकटेश्वरः ॥

वरं वृणीष्व हे राजन्गुरो मत्तो यदीच्छसि

॥३७॥

इति श्रीशवचः श्रुत्वा वियद्राजोऽवदद्विभुम् ॥

त्वत्सेवैवेह देवैवं भूयादव्यभिचारिणी

॥३८॥

मनस्त्वत्पादकमले त्वयि भक्तिर्ममास्तु वै

॥३९॥

श्रीभगवानुवाच

त्वया यदुक्तं राजेन्द्र सर्वमेतद्भविष्यति ॥

इति दत्त्वा वरं तस्मै संमान्यैव यथोचितम्

॥४०॥

अथ विवाहार्थमागतानां ब्रह्मादीनां स्वावासगमनम् ॥

ब्रह्मेशादिसुरान्सर्वान्समभ्यर्च्य यथोचितम् ॥

स्वर्लोकगमनायैवमनुमेने मुदा हरिः ॥

गतेषु तेषु सर्वेषु श्रिया भूमिजया युतः

॥४१॥

विहरन्स यथापूर्वं स्वामिपुष्करिणीतटे ॥

आस्ते दिव्यालये देवोप्यर्च्यमानो गुहेन वै

॥४२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमन कमलालयापरिणयादिवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥