शंखागस्त्याद्यागमनवर्णनम्
अथ शंखाभिधाननृपवृत्तान्तः ॥
भारद्वाज उवाच ॥
शृणु पार्थ प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ॥
यथाऽसौ भगवानस्मिञ्छैले प्राप प्रकाशताम्
॥१॥श्रुताभिधानो नृपतिरस्ति हैहयवंशजः ॥
यः प्रजाः स्वा इव चिरं शशास धरणीं शुभाम्
॥२॥तस्य पुत्रो गुणनिधिः शंखो नाम महीपतिः ॥
पालयामास वसुधां सर्वशास्त्रविशारदः
॥३॥तस्य विष्णौ जगन्नाथे पुण्डरीकायतेक्षणे ॥
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया
॥४॥देवदेवं जगन्नाथमनन्तं पुरुषोत्तमम् ॥
प्रगाढनिश्चयो नित्यं ध्यायन्नद्भुतवैभवम्
॥५॥चक्रे व्रतानि दानानि पुण्यानि विविधानि च ॥
वेदवेद्यस्य नियतं प्रीत्यर्थं मधुविद्विषः
॥६॥तमुद्दिश्यैव विदधे वाजिमेधादिकान्क्रतून् ॥
यथोक्तदक्षिणायोगात्प्रीणिताशेषभूसुरः
॥७॥इष्टापूर्त्तात्मकं चक्रे कर्मजातमतन्द्रितः ॥
विन्यस्तहृदयो नित्यं केशवे भक्तवत्सले
॥८॥स्मरत्यजस्रं गोविन्दं जपत्यच्युतमव्ययम् ॥
पूजयत्यब्जनयनं संकीर्तयति शार्ङ्गिणम्
॥९॥शृणोति सततं राजा संसारार्णवतारिणीः ॥
पौराणिकैः समाख्याताः पवित्रा वैष्णवी कथाः
॥१०॥ब्राह्मणानर्चति स्मायं हरिप्रीत्यर्थमेव च ॥
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः
॥११॥नापश्यच्छाश्वतैश्वर्यं स्वतन्त्रं पुरुषोत्तमम् ॥
अप्राप्य दर्शनं विष्णोः सर्वयज्ञमयात्मनः
॥१२॥सशोकाक्रान्तहृदयः परां चिन्तामुपागमत्
॥१३॥शंख उवाच
परः सहस्रैर्जनैरतीतदुष्कृतं बहु ॥
कृतं मया यदप्राप्तं हृषीकेशस्य दर्शनम्
॥१४॥उपार्जितानां तमसामनेकैः पूर्वजन्मभिः ॥
अखण्डं हि फलं विष्णोर्दर्शनं मधुघातिनः
॥१५॥कथं नु यायाद्भगवान्विषयं मम नेत्रयोः ॥
कदा वा लभ्यते श्रेयस्तद्वाक्याकर्णनात्मकम्
॥१६॥हा धिङ्मां विहितागस्कं क्रियासाफल्यवर्जितम् ॥
नारायणकृपादूरं संसारक्लेशगोचरम्
॥१७॥भरद्वाज उवाच
इति चिन्ताकुले तस्मिन्राज्ञि जीवितनिःस्पृहे ॥
अदृश्यमूर्तिः सर्वेषां शृण्वतामाह केशवः
॥१८॥श्रीभगवानुवाच
मा शोकस्य वशं यायाः शृणु वक्ष्याभि ते हितम् ॥
मदेकशरणं साधुं त्वां त्यक्ष्यामि कथं नृप
॥१९॥अयं वेंकटनामाद्रिस्त्रिषु लोकेषु विश्रुतः ॥
वैकुण्ठादपि मे राजन्नावासोऽतिप्रियावहः
॥२०॥तं गत्वा भूधरवरं तव भक्त्या तपस्यतः ॥
गते सहस्रे वर्षाणां यास्याम्यालोकनीयताम्
॥२१॥भवानिवोद्यतोऽगस्त्यो मम दर्शनमञ्जसा ॥
क्व वा संदृश्यते विष्णुरेवमाह चतुर्मुखम्
॥२२॥वृषभाद्रौ हरिर्द्रष्टुं लभ्यते नियतात्मभिः ॥
गच्छ तत्रेति मुनये कथयामास पद्मभूः
॥२३॥अम्भोजसंभवेनेत्थमादिष्टः कुम्भसम्भवः ॥
अञ्जनाद्रौ महावासे तपस्तप्तुं समेष्यति
॥२४॥तस्मिन्महीधरे पुण्ये कृतवासो भवानपि ॥
आराध्य मां तपोनिष्ठो मम दर्शनमाप्स्यसि
॥२५॥अथ भगवदुक्त्या शंखनृपस्य श्रीवेंकटाचलागमनम् ॥
भरद्वाज उवाच ॥
इत्याज्ञप्तो भगवता शंखो दानववैरिणा ॥
जगाम प्रीतिमतुलां धन्योस्मीति स्वचेतसि
॥२६॥विन्यस्य तनयं वज्रं प्रजापालनकर्मणि ॥
गोविन्ददर्शनापेक्षी नारायणगिरिं ययौ
॥२७॥तस्य शृंगे समुत्तुंगे स्वामिपुष्करिणीं शुभाम् ॥
दिव्यैः पयोभिरापूर्णामपश्यदमृतोपमैः
॥२८॥अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ॥
भवतापप्रशमनी सर्वतीर्थसमाश्रयाम्
॥२९॥जलकाकबकक्रौञ्चहंसकारण्डवाकुलाम् ॥
कुमुदोत्पलराजीवसौगन्धिकमनोहराम्
॥३०॥तां दृष्ट्वा पद्मिनीं दिव्यां तत्तीरे विहितोटजः ॥
तोषितः स्नानपानाद्यैर्निर्विकल्पमनोगतिः
॥३१॥सर्वकर्माणि विन्यस्य जगदीशे जनार्दने
॥३२॥अथ भगवद्दर्शनार्थमगस्त्यस्य वेंकटाचलागमनम् ॥
जपध्यानपरो नित्यं तपस्तेपे सुदारुणम् ॥
तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः
॥३३॥अगस्त्योऽप्याससादाद्यं शैलं मुनिशतावृतः ॥
प्रतीचीं दिशमारभ्य कृतयत्नः प्रदक्षिणे
॥३४॥पश्यंस्तीर्थानि पुण्यानि बभ्राम सुचिरं गिरौ ॥
तत्र तत्र ददर्शासौ हरिदर्शनलालसान्
॥३५॥विरिंचिगुहशक्रेशविष्वक्सेनादिकान्क्रमात् ॥
सनकाद्यांश्च योगीन्द्रान्नारदप्रमुखानृषीन्
॥३६॥सिद्धगन्धर्वदैतेययक्षराक्षसपन्नगान् ॥
तैस्तैः संमान्यमानोऽसौ प्रश्रयप्रियभाषणैः
॥३७॥पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥
स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च
॥३८॥तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥
एवं भ्रान्त्वा गतेऽब्दानां सहस्रे मुनिसत्तमः
॥३९॥नापश्यत्पुण्डरीकाक्षं चिन्ताशोकपरोऽभवत्
॥४०॥अथागस्त्यं प्रति गुरुवस्वाद्युक्तिः ॥
तस्मिन्काले समाजग्मुर्धिषणोशनसौ पुनः ॥
राजोपरिचरो नाम वसुश्च तमृषीश्वरम्
॥४१॥अस्माकं सफलं जातं जीवितं मुनिसत्तम ॥
दृष्टो भवान्यदस्माभिर्नारायण इवापरः
॥४२॥ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ॥
अच्युतालोकनपरास्तदिदं कथ्यते तव
॥४३॥अस्ति दक्षिणदिग्भागे वेंकटोनाम भूधरः ॥
श्वेतद्वीपादपि हरेरावासोऽयमभीप्सितः
॥४४॥तस्मिन्गिरावगस्त्यस्य शंखस्य च महीपतेः ॥
दर्शयिष्यति गोविन्दो निजरूपं जगद्गुरुः
॥४५॥तदानीं सर्वदेवानामृषीणां यक्षरक्षसाम् ॥
अस्माकं देवदेवस्य दर्शनं संभविष्यति
॥४६॥अचिरेणैव तद्भावि ततः संत्यक्तकल्मषाः ॥
अन्वेष्टुं गच्छतागस्त्यं तस्मिन्नारायणाचले
॥४७॥इत्याज्ञप्ता वयं धात्रा समागम्यात्र भाग्यतः ॥
दृष्टवन्तो महाभागं भवंतं भूरितेजसम्
॥४८॥भवता सहिता गत्वा स्वामिपुष्करिणीतटे ॥
तमप्यालोकयिष्यामः शंखं भागवतोत्तमम्
॥४९॥अथागस्त्यादिकृतश्रीवेंकटाचलस्थरम्यवस्तुदर्शनम् ॥
भरद्वाज उवाच ॥
गीष्पतिप्रमुखैरित्थमादिष्टः कुम्भसंभवः ॥
शोकजालं परित्यज्य ययौ तैः सहितो द्रुतम्
॥५०॥स ददर्श महावृक्षान्फलपुष्पभरानतात् ॥
प्ररूढशाखानिकरच्छायाच्छादितदिक्तटान्
॥५१॥सिंहदंतावलव्याघ्रवराहमहिषादिकान् ॥
मृगानालोकयामास पंथानं चांतरांतरा
॥५२॥तैस्तदानीं ददृशिरे सानवोऽप्यम्बुभृद्भृतः ॥
सुवर्णरौप्यताम्रादिशोभितास्तत्र तत्र तु
॥५३॥उच्चलच्छीकरासारनिर्वाहितदिवौकसः ॥
वेगोद्धृतशिला दृष्टाः शतशो गिरिनिर्झराः
॥५४॥तेषामापादयामास प्रमोदं मंदमारुतः ॥
कमलामोदसंवाही विचरन्गिरिसानुषु
॥५५॥शुकानां कोकिलानां च तदा शुश्रुविरे गिरः
॥५६॥तत्र तत्र समासीनान्विस्तीर्णासु दृषत्सु ते ॥
सिद्धानपश्यन्कृष्णस्य गायतो गुणवैभवम्
॥५७॥अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ॥
स्वामिपुष्करिणीं दिव्यां ददृशुर्विमलोदकाम्
॥५८॥तत्तीरे विहितावासमपश्यच्छङ्खभूपतिम् ॥
वाङ्मनःकायजं कर्म सन्निवेश्य स्थितं हरौ
॥५९॥स तानालोक्य सहसा मुनीन्द्रान्संशितव्रतान् ॥
यथोक्तमकरोत्पूजां प्रणामस्तुतिपूर्विकाम्
॥६०॥आसीनास्तत्र ते सर्वे संभाव्यान्योऽन्यमुत्सुकाः ॥
गोविन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे
॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां श्रीवेंकटाचलं प्रति शंखागस्त्याद्यागमनवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥