जाबालितीर्थमहिमानुवर्णनम्
अथ जाबालितीर्थमाहात्म्यवर्णनम् ॥
श्रीसूत उवाच ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने
॥१॥ततो जाबालितीर्थस्य माहात्म्यं वर्णयाम्यहम् ॥
दुराचाराभिधो यत्र स्नात्वा मुक्तोऽभवद्द्विजाः
॥२॥मुनय ऊचुः
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥
किञ्च पापं कृतं तेन दुराचारेण वै मुने
॥३॥कथं वा पातकान्मुक्तस्तीर्थेस्मिन्स्नानवैभवात् ॥
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने
॥४॥अथ कावेरीतीरवासिदुराचाराख्यद्विजोदन्तः ॥
श्रीसूत उवाच ॥
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥
जाबालितीर्थस्नानेन यथा मुक्तश्च पातकात्
॥५॥दुराचाराभिधो विप्रः कावेरीतीरमाश्रितः ॥
कश्चिदास्ते द्विजः पापी क्रूरकर्मरतः सदा
॥६॥ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥
सदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्द्विजाः
॥७॥महापातकसंसर्गदोषेणास्य द्विजस्य वै ॥
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः
॥८॥महापातकिभिः सार्धं दिनमेकं तु यो द्विजः ॥
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः
॥९॥ब्राह्मणस्य तु चैकांशो नश्यत्येव न संशयः ॥
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा
॥१०॥भोजनात्सह पंक्तौ च महापातकिभिर्द्विजाः ॥
द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः
॥११॥त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥
चतुर्दिनाच्चतुर्थांशो विलयं याति हि धुवम्
॥१२॥अतः परं च तैः साकं शयनासनभोजनैः ॥
तत्तुल्यपातकी भूयान्महापातकिसंगवान्
॥१३॥तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विज. ॥
ग्रस्तोऽभवद्भीषणेन व्यालेनेव बलीयसा
॥१४॥असौ परवशस्तेन वेतालेनातिपीडितः ॥
देशाद्देशं भ्रमन्विप्रो वनाच्चैव वनान्तरम्
॥१५॥पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥
वेंकटाद्रिं महापुण्यं सर्वपातकनाशनम्
॥१६॥अथ ज्ञाबालितीर्थस्नानाद्दुराचारवेतालयोर्महपातकादिनिवृत्तिः ॥
अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ ॥
न्यमज्जयत्स वेतालो महापातकनाशने
॥१७॥जाबालितीर्थे विप्रेन्द्रा महापातकिसंगिनम् ॥
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः
॥१८॥उत्थितोऽसौ द्विजो विप्रास्तस्मात्तीर्थात्तु पावनात् ॥
स्वस्थो व्यचिन्तयत्कोऽयं स्वर्णमुख्याः समीपतः
॥१९॥कथं मयागतमहो कावेरीतीरवासिना ॥
इति चिन्ताकुलः सोऽयं जाबालेस्तीर्थमुत्तमम्
॥२०॥जाबालिं च महात्मानं योगीन्द्रवरमुत्तमम् ॥
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत
॥२१॥न जाने भगवन्विप्र पर्वतोऽयं वदाधुना ॥
कावेरीतीरनिलयो दुराचाराभिधो ह्यहम्
॥२२॥कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम् ॥
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः
॥२३॥ध्यात्वा मुहुर्तमवदद्दुराचारं कृपानिधिः
॥२४॥अथ जाबालिवर्णितपार्वणश्राद्धाकरणदोषकथनम् ॥
जाबालिरुवाच ॥
महापातकिसंसर्गाद्दुराचारस्य ते पुरा ॥
ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत्
॥२५॥तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ॥
न्यमज्जयत्त्वां वेतालस्तीर्थेऽस्मिन्नतिपावने
॥२६॥अत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ॥
जाबालितीर्थे ये स्नानं पुण्यं कुर्वन्ति मानवाः
॥२७॥तेषां नश्यंति वै सत्यं पञ्चपातकसंचयाः ॥
सत्कर्मसाधने पुण्यतीर्थेऽस्मिन्स्नानमात्रतः
॥२८॥महापातकिसंसर्गदोषस्ते विलयं गतः ॥
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत्
॥२९॥मृतेऽहनि पितृश्राद्धं नाकरोत्पार्वणेन वै ॥
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम्
॥३०॥सोऽपि जाबालितीर्थस्य जले स्नानप्रभावतः ॥
वेतालत्वं विहायैव विष्णुलोकमवाप्तवान्
॥३१॥न कुर्याद्यो नरः श्राद्धं मातापित्रोर्मृतेऽहनि ॥
वेतालत्वमवाप्याशु पश्चान्नरकमश्नुते
॥३२॥श्रीसूत उवाच
दुराचारो महापापी तीर्थेऽस्मित्स्नानमात्रतः ॥
प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम्
॥३३॥एवं वः कथितं पुण्यं दुराचारविमोक्षणम् ॥
तस्मात्पुण्यतमं तीर्थं सर्वपापहरं शुभम्
॥३४॥यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥
यानि निष्कृतिहीनानि पापान्यपि विनाशयेत्
॥३५॥शूद्रेण पूजितं लिङ्गं विष्णुं वा यो नमेद्द्विजः ॥
प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः
॥३६॥नश्येत्तस्यापि तत्पापं तीर्थे जाबालिसंज्ञके ॥
विप्रनिन्दाकृतां चैव प्रायश्चित्तं न विद्यते
॥३७॥विश्वासघातुकानां च कृतघ्नानां च निष्कृतिः ॥
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते
॥३८॥तेषां जाबालितीर्थे वै स्नानाच्छुद्धिर्भविष्यति ॥
एवं वः कथितं विप्रा जाबालेस्तीर्थवैभवम्
॥३९॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि
॥४०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये जाबालितीर्थमहिमानुवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥