मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वेङ्कटाचलमाहात्म्यम्, अध्याय २१

3
वैष्णवखण्डः · वेङ्कटाचलमाहात्म्यम् · 21

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः

अथ रामानुजाख्यद्विजवृत्तान्तः ॥

श्रीसूत उवाच ॥

भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥

आकाशगंगातीर्थस्य माहात्म्यं प्रवदाम्यहम्

॥१॥

आकाशगंगानिकटे सर्वशास्त्रार्थपारगः ॥

रामानुज इति ख्यातो विष्णुभक्तो जितेन्द्रियः

॥२॥

तपश्चकार धर्मात्मा वैखानसमते स्थितः ॥

ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः

॥३॥

जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम् ॥

वर्षास्वाकाशगो नित्यं हेमन्तेषु जलेशयः

॥४॥

सर्वभूतहितो दान्तः सर्वद्वन्द्वविवर्जितः ॥

वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोभवत्

॥५॥

कञ्चित्कालं जलाहारो वायुभक्षः कियत्समाः

॥६॥

अथाकाशगंगातीरे रामानुजतपस्तुष्टभगवदाविर्भावः ॥

अथ तत्तपसा तुष्टो भगवान्भक्तवत्सलः ॥

प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः

॥७॥

विकचाम्बुजपत्राक्षः सूर्यकोटिसमप्रभः ॥

विनतानन्दनारूढश्छत्रचामरशोभितः

॥८॥

हारकेयूरमुकुटः कटकादिविभूषितः ॥

विष्वक्सेनसुनन्दादि किङ्करैः परिवारितः

॥९॥

वीणावेणुमृदंगादिवादकैर्नारदादिभिः ॥

गीयमानः सुविभवः पीताम्बरविराजितः

॥१०॥

लक्ष्मीविराजितोरस्को नीलमेघनिवच्छविः ॥

सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः

॥११॥

मन्दस्मितेन सकलं मोहयन्भुवनत्रयम् ॥

स्वभासा मानयन्सर्वा दिशो दश विराजयन्

॥१२॥

सुभक्तसुलभो देवो वेंकटेशो दयानिधिः ॥

पुनः सन्निदधे तस्य रामानुजमहामुनेः

॥१३॥

आविर्भूतं तदा दृष्ट्वा श्रीनिवासं कृपानिधिम् ॥

पीताम्बरधरं देवं तुष्टिं प्राप महामुनिः

॥१४॥

भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्

॥१५॥

अथ रामानुजाख्यविप्रकृतभगवत्स्तुतिः ॥

रामानुज उवाच ॥

नमो देवाधिदेवाय शङ्खचक्रगदाभृते ॥

नमो नित्याय शुद्धाय वेंकटशाय ते नमः

॥१६॥

नमो भक्तार्तिहंत्रे ते हव्यकव्यस्वरूपिणे ॥

नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यन्तकारिणे

॥१७॥

नमः परेशाय नमोऽतिभूम्ने नमोऽस्तु लक्ष्मीपतये विधात्रे ॥

नमोऽस्तु सूर्येन्दुविलोचनाय नमो विरिञ्चाद्यभिवन्दिताय

॥१८॥

यो नाम जात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥

समस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशकाय

॥१९॥

वेदांतवेद्याय रमेश्वराय वृषादिवासाय विधातृपित्रे ॥

नमोनमः सर्वजनार्तिहारिणे नारायणायामितविक्रमाय

॥२०॥

नमस्तुभ्यं भगवते वासुदेवाय शार्ङ्गिणे ॥

भूयोभूयो नमस्तुभ्यं वेंकटाद्रिनिवासिने

॥२१॥

इति स्तुत्वा वेंकटेशं श्रीनिवासं जगद्गुरुम् ॥

रामानुजो मुनिस्तूष्णीमास्ते विप्रवरोत्तमः

॥२२॥

श्रुत्वा स्तुतिं श्रुतिसुखां स्तुतस्तस्य महात्मनः ॥

अवाप परमं तोषं वेंकटाचलनायकः

॥२३॥

अथालिङ्ग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ॥

बभाषे प्रीतिसंयुक्तो वरं वै व्रियतामिति

॥२४॥

तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ॥

नमस्कारेण च प्रीतो वरदोऽहं तवागतः

॥२५॥

अथ रामानुजाख्यविप्रकृतभगवत्प्रार्थना ॥

रामानुज उवाच ॥

नारायण रमानाथ श्रीनिवास जगन्मय ॥

जनार्दन जगद्धाम गोविन्द नरकान्तक

॥२६॥

त्वद्दर्शनात्कृतार्थोऽस्मि वेंकटाद्रिशिरोमणे ॥

त्वां नमस्यंति धर्मिष्ठा यतस्त्वं धर्मपालकः

॥२७॥

यं न वेत्ति भवो ब्रह्मा यं न वेत्ति त्रयी तथा ॥

त्वां वेद्मि परमात्मानं किमस्मादधिकं परम्

॥२८॥

योगिनो यं न पश्यंति यं न पश्यंति कर्मठाः ॥

पश्यामि परमात्मानं किमस्मादधिकं परम्

॥२९॥

एतेन च कृतार्थोऽस्मि वेंकटेश जगत्पते ॥

यन्नामस्मृतिमात्रेण महापातकिनोऽपि च

॥३०॥

मुक्तिं प्रयांति मनुजास्तं पश्यामि जनार्दनम् ॥

त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे

॥३१॥

अथ भगवद्वर्णिताकाशगंगातीर्थस्नानकालः ॥

श्रीभगवानुवाच ॥

मयि भक्तिर्दृढा तेस्तु रामानुज महामते ॥

शृणु चाप्यपरं वाक्यमुच्यते ते मया द्विज

॥३२॥

मेषसंक्रमणे भानोश्चित्रानक्षत्रसंयुते ॥

पौर्णमास्यां च गंगायां स्नानं कुर्वन्ति ये जनाः

॥३३॥

ते यांति परमं धाम पुनरावृत्तिवर्जितम् ॥

वियद्गंगासमीपे त्वं वस रामानुज द्विज

॥३४॥

एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ॥

बहुना किमिहोक्तेन वियद्गंगाजले शुभे

॥३५॥

स्नान्ति ये वै जनाः सर्वे ते वै भागवतोत्तमाः ॥

भवन्ति मुनिशार्दूल नात्र कार्या विचारणा

॥३६॥

रामानुज उवाच

किंलक्षणा भागवता ज्ञायन्ते केन कर्मणा ॥

एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः

॥३७॥

अथ भगवद्वर्णितभागवतलक्षणानि ॥

श्रीवेंकटेश उवाच ॥

लक्ष्म भागवतानां तु शृणुष्व मुनिसत्तम

॥३८॥

वक्तुं तेषां प्रभावं तु शक्यते नाब्दकोटिभिः

॥३९॥

ये हिताः सर्वजन्तूनां गतासूया विमत्सराः ॥

ज्ञानिनो निःस्पृहाः शान्तास्ते वै भागवतोत्तमाः

॥४०॥

कर्मणा मनसा वाचा परपीडां न कुर्वते ॥

अपरिग्रहशीलाश्च ते वै भागवतोत्तमाः

॥४१॥

सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ॥

मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः

॥४२॥

मातापित्रोश्च शुश्रूषां कुर्वते ये नरोत्तमाः ॥

ये तु देवार्चनरता ये तु तत्साधका नराः ॥

पूजां दृष्ट्वा तु मोदन्ते ते वै भागवतोत्तमाः

॥४३॥

वर्णिनां च यतीनां च परिचर्यापराश्च ये ॥

परनिन्दामकुर्वाणास्ते वै भागवतोत्तमाः

॥४४॥

सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ॥

ये गुणग्राहिणो लोके ते वै भागवतोत्तमाः

॥४५॥

आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ॥

तुल्याः शत्रुषु मित्रेषु ते वै भागवताः स्मृताः

॥४६॥

धर्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ॥

तेषां शुश्रूषवो ये च ते वै भागवतोत्तमाः

॥४७॥

व्याकुर्वन्ति पुराणानि तानि शृण्वन्ति ये तथा ॥

तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः

॥४८॥

ये गोब्राह्मणशुश्रूषां कुर्वन्ति सततं नराः ॥

तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः

॥४९॥

अन्येषामुदयं दृष्ट्वा येऽभिनन्दंति मानवाः ॥

हरिनामपरा ये च ते वै भागवतोत्तमाः

॥५०॥

आरामारोपणरतास्तटाकपरिरक्षकाः ॥

कासारकूपकर्तारस्ते वै भागवतोत्तमाः

॥५१॥

ये वै तटाककर्तारो देवसद्मानि कुर्वते ॥

गायत्रीनिरता ये च ते वै भागवतोत्तमाः

॥५२॥

येऽभिनन्दंति नामानि हरेः श्रुत्वाऽतिहर्षिताः ॥

रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः

॥५३॥

तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः ॥

तत्काष्ठांकितकर्णा ये ते वै भागवतोत्तमाः

॥५४॥

तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ॥

तन्मूलमुद्धरा ये च ते वै भागवतोत्तमाः

॥५५॥

स्वाश्रमाचारनिरतास्तथैवातिथिपूजकाः ॥

ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः

॥५६॥

विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ॥

सर्वत्र गुणभाजो ये ते वै भागवतोत्तमाः

॥५७॥

पानीयदाननिरता ह्यन्नदानरताश्च ये ॥

एकादशीव्रतपरास्ते वै भागवतोत्तमाः

॥५८॥

गोदाननिरता ये च कन्यादानरताश्च ये ॥

मदर्थं कर्मकर्तारस्ते वै भागवतोत्तमाः

॥५९॥

मन्मानसाश्च मद्भक्ता ये मद्भजनलोलुपाः ॥

मन्नामस्मरणासक्तास्ते वै भागवतोत्तमाः

॥६०॥

बहुनात्र किमुक्तेन संक्षेपात्ते ब्रवीम्यहम् ॥

सद्गुणाय प्रवर्तंते ते वै भागवतोत्तमाः

॥६१॥

एते भागवता विप्राः केचिदत्र प्रकीर्तिताः ॥

ममापि गदितुं शक्या नाब्दकोटिशतैरपि

॥६२॥

रामानुज महाभाग मद्भक्तानां च लक्षणम् ॥

मयि भक्ते त्वयि प्रीत्या युक्तं किल महामते

॥६३॥

श्रीसूत उवाच

एवं वः कथितं विप्राः शौनकाद्या महौजसः ॥

वृषाद्रौ च वियद्गंगातीर्थमाहात्म्यमुत्तमम

॥६४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये आकाशगंगामाहात्म्य रामानुजविप्रव्रतचर्यादिवर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥