वज्रांगदसद्गतिवर्णनम्
मार्कंडेय उवाच
भगवन्भवमाहात्म्यरत्नाकरसुधाकरम् ॥
नंदीश चित्रं चारित्रं श्रुतं विद्याभृतोर्द्वयोः
॥१॥कदा वज्रांगदः सिद्धः कथं देवमपूजयत् ॥
कथं चान्वग्रहीत्प्रह्वं देवस्तमरुणेश्वरः
॥२॥नंदिकेश्वर उवाच
निवर्त्तनेच्छां हित्वाथ नृपो निजपुरं प्रति ॥
तस्यैव पादपर्यंते स्वस्य वासमरोचयत्
॥३॥अथास्य महती सेना वाहमार्गानुसारिणी ॥
प्राप्ता शतांगमातंगतुरंगभटसंकुला
॥४॥समदृश्यत भूपालस्तादृशो धैर्यसागरः ॥
पुरोधोमंत्रिसामंतसेनापतिसुहृत्तमैः
॥५॥ततस्तामागतां सेनामवनीपतिरादृतः ॥
अरुणाद्रेश्च सीमाया बहिरेव न्यवेशयत्
॥६॥स्वकीयमखिलं कोशं देशानपि महाफलान् ॥
शोणाद्रिनाथपूजायै कल्पयामास भक्तिमान्
॥७॥गौतमस्याश्रमाभ्याशे स्वयं कृततपोवनः ॥
पुरोधोक्तः ससचिवः शिवार्चनरतोऽभवत्
॥८॥रत्नांगदाख्यं तनयं स्थापयित्वा निजे पदे ॥
तत्प्रेषितैरपर्याप्तैः शोणेशं पर्यतर्पयत्
॥९॥परितः शोणशैलस्य परिपूर्णजलाशयान् ॥
अग्रहारान्बहुफलान्ब्राह्मणेभ्योऽतिसृष्टवान्
॥१०॥तेजसारुणनाथस्य ज्वलनस्तंभरूपिणः ॥
धन्वप्रायेऽपि देशेऽस्मिन्दीर्घिकाः शतशो व्यधात्
॥११॥सौंदर्यशालिनीरात्मपरिवारवरांगनाः ॥
सेवार्थं शोणनाथस्य दत्तवान्दीर्घदर्शनः
॥१२॥अथागतेनागस्त्येन लोपामुद्रासखेन सः ॥
अभ्यनंद्यत शोणाद्रिनाथपूजापरायणः
॥१३॥प्रत्यहं नवतीर्थाख्ये सरसि स्नानमाचरन् ॥
पापनाशप्रवालेशौ प्रयतः पर्यपूजयत्
॥१४॥महिषासुरसंहारकारिणी मानवेश्वरः ॥
नित्यमाराधयामास दुर्गां दुर्ग्गार्तिहारिणीम्
॥१५॥प्रतिक्षणं ब्रह्मविष्णुपूज्यस्य लिंगरूपिणः ॥
आदिदेवस्य विविधाः सपर्याः पर्यकल्पयत्
॥१६॥प्रत्युषस्युत्थितः स्नातः पादाभ्यामेव पार्थिवः ॥
जपन्पंचाक्षरीमंत्रमकार्षीत्त्रिः प्रदक्षिणाम्
॥१७॥पौर्णमास्यां स कार्त्तिक्यां पार्वतीवल्लभप्रियम् ॥
महादीपोत्सवं चक्रे महितं भुवनत्रये
॥१८॥सुगंधसारकह्लारकर्पूरजलपूरितः ॥
सहस्रैः स्वर्णकुंभानामभ्यषिंचत्त्रियंत्रकम्
॥१९॥प्रतिमासध्वजारोहपूर्वं तीर्थोत्सवादिकम् ॥
त्रैलोक्याभ्यर्हितं चक्रे रथारोहं महोत्सवम्
॥२०॥अंगं प्रदक्षिणं चास्य विदधे विशदाशयः ॥
योजनत्रितयायामव्यापिनः शोणभूभृतः
॥२१॥अरुणाचलनाथेति करुणामृतसागरः ॥
अरुणांवासनाथेति तुष्टाव च मुहुर्मुहुः
॥२२॥संलिप्य विविधैर्द्रव्यैर्नित्यं पंचामृतादिभिः ॥
आचर्च यद्गंधसारपंकैः कर्पूरपांडुरैः
॥२३॥अपूजयत कल्हारैः स्रवन्मृगमदद्रवैः ॥
प्रा तरारभ्य शोणाद्रिनायकं गणरूपिणम्
॥२४॥इति वर्षत्रयं तस्य वशिनो वरिवस्यया ॥
अरुणाद्रीश्वरस्तुष्टः प्रत्यक्षत्वमगाहत
॥२५॥नीहाराचलसंकाशमारूढो वृषपुंगवम् ॥
अन्वगासीनया देव्या कृतगाढोपगूहनः
॥२६॥ब्रह्मर्षिभिर्वसिष्ठाद्यैर्नारदाद्यैर्महर्षिभिः ॥
गणैर्निकुंभकुंभाद्यैः क्रियमाणजयस्तुतिः
॥२७॥करुणासिंधुकल्लोलैः कमलावासवेश्मभिः ॥
कटाक्षपातैर्जगतां कालुष्यमिव वारयन्
॥२८॥दृष्ट्वा च देवदेवं तमष्टांगं न्यस्य भूतले ॥
प्रणनाम परं हृष्टो वज्रांगदमहीपतिः
॥२९॥व्यज्ञापयच्च भूपालो मौलीकृतशतांजलिः ॥
क्षालयन्निव दंतांशुजालैस्तत्पादपंकजे
॥३०॥वज्रांगद उवाच
देवेश यदहं मोहाद्बहुपातकसंचयम् ॥
अचारिषं स एकोऽयं क्षम्यतां मे व्यतिक्रमः
॥३१॥इतिवादिनमत्यंतं दीनमेव दयानिधिः ॥
जगाद जगतीनाथो देवः शोणाचलेश्वरः
॥३२॥श्रीमहेश्वर उवाच
मा भैषीर्वत्स भद्रं ते संत्यष्टौ मम मूर्त्तयः ॥
ताः सर्वाः सर्वजंतूनामत्यर्थं परिकल्पिताः
॥३३॥पुरा पुरंदरस्त्वं हि कैलासशिखरे स्थितम् ॥
गर्वितो मामवामंस्थाः स्तंभितश्च तदा मया
॥३४॥क्षणं गलितगर्वस्त्वं स्तंभना व्रीडितस्तदा ॥
अयाचिष्ठाः शिवज्ञानमखिलैश्वर्यकारणम्
॥३५॥आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान् ॥
राजा वज्रांगदो भूत्वा लप्स्यसे मत्कृपामिति
॥३६॥जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम् ॥
शिक्षितोतीव मुग्धस्त्वं भक्तोसि च परं मयि
॥३७॥अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम् ॥
परितुष्टोस्म्यहं राजन्नतस्त्वां बोधयाम्यहम्
॥३८॥खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान् ॥
इति मन्मूर्त्तिभिर्विश्वं भासते सचराचरम्
॥३९॥कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च ॥
तत्त्वातीतः शिवश्चाहं न मत्तोस्तीह किंचन
॥४०॥अपर्यंतचिदानंदसिंधोर्मे केचिदूर्मयः ॥
वेधोमुकुन्दरुद्रेंद्रमुखानाहुरुदित्वराः
॥४१॥वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः ॥
असंख्येयमहाशक्तेर्मम विसृष्टिशक्तयः
॥४२॥इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः ॥
अनयाच्छाद्यते विश्वं शश्वद्विस्तार्यतेऽपि च
॥४३॥शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः ॥
विचित्रमेतत्पश्यामि जगच्चित्रं निजेच्छया
॥४४॥अपवाहितमोहस्त्वं महिमा मे विचारय ॥
आत्मानमविभिन्नं मे तरंगमिव वारिधेः
॥४५॥ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः ॥
मत्प्रसादेन राजेंद्र भुंक्ष्व भोगान्यथासुखम्
॥४६॥पुनः पुरंदरत्वेन भुक्तदिव्यसुखश्चिरम् ॥
मदेकरूपतां राजन्निश्चयात्त्वमवाप्स्यसि
॥४७॥नंदिकेश्वर उवाच
इत्युक्त्वांतर्हिते देवे राजा वज्रांगदः कृती ॥
शोणेशं पूजयन्नेव सर्वान्भोगानवाप्तवान्
॥४८॥इत्थं ते कथितं साधो शिवभक्तविजृंभणम् ॥
प्रदक्षिणाफलं चैव शोणशैलस्य शाश्वतम्
॥४९॥किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा ॥
महतामश्वमेधानां शतादपि विशिष्यते
॥५०॥विषुवायनसंक्राति व्यतीपातादिपर्वसु ॥
प्रदक्षिणाच्छोणगिरेरसंख्येयं फलं लभेत्
॥५१॥न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात् ॥
नापि प्रदक्षिणादन्यद्विपद्यतेऽभ्यधिकं तपः
॥५२॥इति कथयति नंदिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः ॥
मुहुरधिगतहर्षवाष्पवृष्टिर्महति निमग्न इवाभवत्सुधाब्धौ
॥५३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे वज्रांगदसद्गतिवर्णनंनाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥