मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ११

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 11

भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः

नंदिकेश्वर उवाच

अथ हंसाकृतिं व्योमपदवीलंघनक्षमाम् ॥

भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः

॥१॥

जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः ॥

विश्वंभराविनिर्भेद क्रीडासुलभवैभवम्

॥२॥

मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः ॥

कृत्रिमस्तब्धरोमैष दंष्ट्राभ्यामभिनन्महीम्

॥३॥

विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः ॥

महावराहो ददृशे तेजस्तंभं नमन्निव

॥४॥

क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन् ॥

पातालं बहुलोत्साहः प्रवेष्टुमुपचक्रमे

॥५॥

विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम् ॥

अवैक्षिष्टानलस्तंभं तमेव कुहनाकिटिः

॥६॥

विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः ॥

प्ररोहा इव शेषाद्यास्तेजःस्तंभस्य केचन

॥७॥

प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः ॥

आधारतां गतो दृष्टो ह्यच्युतेनादिकच्छपः

॥८॥

आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः ॥

दिक्सिंधुराश्च दृश्यंते मदमंथरबंधुराः

॥९॥

मधुद्विषा च स महान्मंडूकोऽपि विलोकितः ॥

अखंडमंडलं भूमेर्यस्य पृष्ठे प्रतिष्ठितम्

॥१०॥

आधारशक्तिमपि तामभ्यपश्यदधोक्षजः ॥

यदनुग्रहतः शेषकूर्माद्या अपि धूर्वहाः

॥११॥

अतलं वितलं चैष सुतलं नितलं तथा ॥

तलातलं च प्रतलं महातलमिति क्रमात्

॥१२॥

ददर्श सप्त पातालानपि वारिजलोचनः ॥

तत्रत्यान्विविधाकारान्सर्वानपि सविस्मयः

॥१३॥

अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि ॥

जगाहेन्यांश्च दैत्यानामावासानतिगह्वरान्

॥१४॥

इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः ॥

मूलं मुग्धाशयस्तस्य विचिनोति स्म माधवः

॥१५॥

अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा ॥

तथैव तेजःस्तंभः स निर्विकारमवैक्ष्यत

॥१६॥

दलिता केवलं पृष्वी पाथोराशिर्विलोलितः ॥

नैवालोक्यत तन्मूलं कोलरूपेन विष्णुना

॥१७॥

इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः ॥

नालं बभूव तन्मूलं लीलाक्रोडो विलोकितुम्

॥१८॥

अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः ॥

भग्नपोत्रः स भूदारो जगाहे बहलं श्रमम्

॥१९॥

श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः ॥

ननाश तत्क्षणात्साकं तन्मूलावेक्षणेच्छया

॥२०॥

अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः ॥

न चक्षमे सरोजाक्षश्चलितुं च पदात्पदम्

॥२१॥

श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः ॥

तत्तेज एव पंथानं पुनरप्युदभावयत्

॥२२॥

कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः ॥

स्वेदांभःसागरस्रावे मग्नोऽभूच्छद्मशूकरः

॥२३॥

रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया ॥

लब्ध्वाचलं वनं कष्टं न्यवर्त्तिष्ट जनार्दनः

॥२४॥

नावैक्षि यन्मया मूलममुष्य महसां निधेः ॥

ततः स्रष्ट्रापि नो दृष्टः शिरोभागः कथंचन

॥२५॥

अमुष्य महसां राशेः प्रागभूद्यत्र संभवः ॥

ततो निवृत्त्य यास्यामि शरणं शिवमीश्वरम्

॥२६॥

स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा ॥

यद्विस्मृतो मया तस्माद्दुर्विपाकोऽजनीदृशः

॥२७॥

एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः ॥

तमेव देशं प्रबभूव यत्र स्तंभः स तेजोमयतां दधानः

॥२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे विष्णुना लिंगाधोभागशोधनवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥