मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १०

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 10

तेजोमयलिंगप्रादुर्भाववर्णनम्

मार्कण्डेय उवाच

आज्ञापय विभो मह्यं यथा शंभुः सनातनः ॥

अनुजग्राह मोहांधो वैकुण्ठपरमेष्ठिनौ

॥१॥

नंदिकेश्वर उवाच

शृणुष्व सर्वं वक्ष्यामि विस्तरेण यथातथम् ॥

यदेव देवो विदधे दयया भक्तवत्सलः

॥२॥

अथोदस्थात्तयोर्मध्ये तथा विवदमानयोः ॥

ज्योतिःस्तंभत्वमभ्येत्य रोदोरंध्रनिरोधकः

॥३॥

महता जृंभमाणेन तस्य ब्रह्मांडभेदिनः ॥

अन्तरिक्षमतिश्यामं समुत्क्षिप्तमिवाभवत

॥४॥

विष्वग्विवर्णता तस्य ज्योतिर्लिंगस्य तेजसा ॥

दिशो विरेजिरे सद्यो दूरविस्तारिता इव

॥५॥

तीव्रैस्तस्य महाज्वालैः शोषिता इव सागराः ॥

विमुक्तवीचिसंक्षोभाः स्वामेव प्रकृतिं ययुः

॥६॥

व्यद्योतंत दिवि प्राग्वद्वहास्तारागणैः सह ॥

तेजःस्तंभात्समुद्भिन्नाः स्फुलिंगा इव केचन

॥७॥

तेजसा तस्य शोणेन गैरिकेणेव रंजिताः ॥

भौमरविश्रियं सर्वेऽप्यवहन्नवनीभृतः

॥८॥

समुद्रास्तत्प्रतिच्छायानिर्भराश्लिष्ट यादसः ॥

पद्मरागशिलाखण्डे घटिता इव रेजिरे

॥९॥

प्रवालगुच्छैः प्रत्यग्रैर्लंबिता इव पादपाः ॥

नद्यश्च निर्भरोत्फुल्लकह्लारा इव रेजिरे

॥१०॥

मही कुंकुमलिप्तेव दिशः सिंदूरिता इव ॥

सर्वारुणमिव व्योम समगत्प्रत्यदृश्यत

॥११॥

ब्रह्मांडकर्परमभूत्तन्महः पूरितांतरम् ॥

शोणितेनेव संपूर्णं कपालं कृत्तिवाससः

॥१२॥

एवं प्रवर्द्धमानेन तेजःस्तम्भेन तेन च ॥

अरुणाकारतां भेजे विश्वं स्थावरजंगमम्

॥१३॥

तेजोलिंगं तदाश्चर्यं दृष्ट्वा त्यक्तमिथः क्रुधौ ॥

अचिंतयेतामेकैकं चतुर्मुखचतुर्भुजौ

॥१४॥

किमेष वसुधां भित्त्वा शेषादीनां फणाभृताम् ॥

फणामाणिक्यमहसां राशिरुन्मुखतां गतः

॥१५॥

किं वा कल्पांतसुलभप्रादुर्भावाः प्रभाकराः ॥

द्वादशापि नभोभूम्योर्मध्ये युगपदुत्थिताः

॥१६॥

आहोस्विन्मेघ संघर्षाद्वितता व्योममध्यतः ॥

अन्योन्यं मिलिताः क्षिप्रा निपतंत्यवनीतले

॥१७॥

प्रतिघ्नन्नेष तेजोभिरक्ष्णोः शक्तिमनुक्षणम् ॥

स्वनिर्विशेषिताशेषभूतजालः प्रवर्द्धते

॥१८॥

एष उद्दीप्यमानोऽपि संतापाय न कल्पते ॥

नेदीयांस्यपि भूतानि न निर्दहति वह्निवत्

॥१९॥

एतस्य कांतिसंक्रांत्या जगदेव न केवलम् ॥

मदीयमपि शोणत्वमनुप्राप्तमहो वपुः

॥२०॥

कस्मादेष समुत्पन्नः किं मूलः किमुपाधिकः ॥

कुतस्त्यः किमुपादानः कया भक्त्या प्रकाशते

॥२१॥

कियानवधिरेतस्य विष्वक्तिर्यगधोर्ध्वतः ॥

अवगाढश्च पातालं कियन्मात्रमसाविति

॥२२॥

तदेतदखिलं ज्ञातुं मनः पर्युत्सुकं मुहुः ॥

इच्छत्युत्पतितुं व्योम प्रवेष्टुं च रसातलम्

॥२३॥

इति चिंताभराक्रांतौ तेजःस्तंभावलोकनात् ॥

उभावप्यवकुलितौ वैकुण्ठपरमेष्ठिनौ

॥२४॥

अभाषत च गोविंदः सुतरामेव गर्वितम् ॥

हिरण्यगर्भमालोक्य स्मयमानमुखांबुजः

॥२५॥

विष्णुरुवाच

अयमेवावयोर्ब्रह्मन्नन्योन्योत्कर्षकांक्षिणोः ॥

सत्यमेव परीक्षायै निकषः समुपस्थितः

॥२६॥

अमुष्य तेजसां राशेरपरिच्छेद्यसंपदः ॥

आद्यंतौ ज्ञातुमेकेन न शक्यं ध्रुवमावयोः

॥२७॥

यः पश्येन्मूलमग्रं वा तेजसोस्य स्वयंभुवः ॥

स एव नावभ्यधिको जगतां नाथकोऽपि सः

॥२८॥

नंदिकेश्वर उवाच

इत्युभावपि विनिश्चिताशयौ मूलमग्रमपि तस्य वीक्षितुम् ॥

तेजसोतिमहतो बभूवतुः स्पर्धया विरचितोद्यमौ मिथः

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्ण्वोर्मध्ये तेजोमयलिंगप्रादुर्भाववर्णनंनाम दशमोऽध्यायः ॥ १० ॥