मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय २

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 2

महीमण्डलस्थविविधशिवक्षेत्रवर्णनम्

नंदिकेश्वर उवाच

स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि ॥

चराचराणां सर्वेषां भूतानामपि शर्मणे

॥१॥

प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः ॥

शरीरभाजां जननं तासुतास्वपि योनिषु

॥२॥

त्वया शुश्रुषितं तेषां हिताय महते ह्यलम् ॥

अन्यथा संसृतेर्हानिः कल्पकोटिशतैर्नहि

॥३॥

स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः ॥

घटीयंत्रनयाज्जन्ममरणे नैव शाम्यतः

॥४॥

कथं नु विरतो देही गर्भमोकसमागमात् ॥

विश्रांतये प्रकल्पेत विशुद्धज्ञानतो विना

॥५॥

प्रदेशाः कथिताः पूर्वं प्रसंगवशतो मया ॥

ऋषिभेदादिकं तेषु निवासः कृत्तिवाससः

॥६॥

केचित्तीरेषु गंगायाः केचित्सारस्वते तटे ॥

कालिंदीतीरयोरन्ये कतिचिच्छोणरोधसि

॥७॥

अपरे नर्मदातीरे परे गोदावरीतटे ॥

कतिचिद्गोमतीतीरेष्वन्ये हैमवतीतटे

॥८॥

समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम् ॥

मुखेषु केचित्सिंधूनां संभेदेष्वपि केचन

॥९॥

कृष्णवेणीतटे केचित्तुंगभद्रांतिके परे ॥

उपवेण्यां कतिपये परे शक्त्यापगांतिके

॥१०॥

कावेरीतीर इतरे केचिद्वेगवतीतटे ॥

अन्ये तु ताम्रपर्ण्याश्च कतिचिन्मुरलातटे

॥११॥

केचिदैरावतीतीरे त्वितरे यातुकांक्षिके

॥१२॥

कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणांतिकेन्ये ॥

मंदाकिनीसविधयोरितरे परेऽपि शिप्रातटे परिसरेषु परे सरय्वाः

॥१३॥

विपाशाभ्याश इतरे शतद्रुतितटे परे ॥

चर्मण्वत्युपकंठेऽन्ये केचिद्भीमरथीतटे

॥१४॥

केचिद्बिंदुसरोभ्यर्णे परे पंपासरस्तटे ॥

अभ्यर्णकेपि भैरव्याः कतिचित्कौशिकीतटे

॥१५॥

अपरे मालिनीतीरे परे गंधवतीतटे ॥

कतिचिन्मानसोपांते केचिदच्छोदरोधसि

॥१६॥

इंद्रद्युम्नसरस्यन्य एके तु मणिकर्णिके ॥

परे तु वरदातीरे ताप्यां कतिचनापरे ॥

पातालगंगासविधे शरावत्यंतिके परे

॥१७॥

लोहित्याकूलयोः केचित्कतिचित्कालमातटे ॥

वितस्तोपांतिके त्वन्ये चंद्रभागांतिके परे

॥१८॥

सुरलोपांतिके केचित्पयोष्णीतीरयोः परे ॥

केचिन्मधुमतीतीरे केचनानु पिनाकिनीम्

॥१९॥

उक्तं वाराणसीक्षेत्रं क्रोशपंचकपावनम् ॥

देवस्तत्राविमुक्ताख्यो विशालाक्ष्या समर्चितः

॥२०॥

कपालमोचनं यत्र यत्रास्ते कालभैरवः ॥

मृतानां यत्र रुद्रत्वं काशीं विद्धि हि तां मुने

॥२१॥

गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ ॥

यत्र पिंडप्रदानेन तुष्यंति पितरः किल

॥२२॥

आकर्णितं च केदारं यस्मिन्महिषरूपधृक् ॥

देवोपि च हतो देव्या सर्वश्रेयस्करो नृणाम्

॥२३॥

सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम् ॥

यत्रास्ते त्र्यंबको देव्या नरनारायणार्चितः

॥२४॥

श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः ॥

देवदेवाभिधः पुण्यो देवी सारंगधारिणी

॥२५॥

अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम् ॥

ॐकारनामा तत्रेशश्चंडिकाख्या महेश्वरी

॥२६॥

पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया ॥

यत्र देवो रुजोगंधिः पुरुहूता महेश्वरी

॥२७॥

आषाढीनाम ते स्थानं पावनं कथितं मया ॥

आषाढेशो हरस्तत्र रतीशा परमेश्वरी

॥२८॥

दंडिमुंडी समाख्यं च स्थानं ते कथितं मया ॥

यत्र मुंडी महादेवो दंडिका परमेश्वरी

॥२९॥

लाकुलंनाम ते स्थानं संशुद्धं कथितं मया ॥

लाकुलीशो हरो यस्मिन्ननंगा सर्वमंगला

॥३०॥

भारभूतिरिति स्थानं भवतोऽभिहितं मया ॥

यत्र भाराभिधः शंभुर्भूत्याख्या भूधरात्मजा

॥३१॥

अरालकेश्वरं नाम स्थानं ते कथितं मया ॥

यत्र सूक्ष्माभिधः शूली सूक्ष्माख्या शैलनंदिनी

॥३२॥

गयानाम महाक्षेत्रं तव प्रस्तावितं मया ॥

मंगलाख्या शिवा यत्र शंकरः प्रपितामहः

॥३३॥

कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम् ॥

यत्र स्थाणुप्रिया देवी देवः स्थाणुसमाह्वयः

॥३४॥

उक्तं कनखलंनाम मया ते स्थानमुत्तमम् ॥

उग्रो यत्र पुरारातिरुग्रा गिरिवरात्मजा

॥३५॥

तालकाख्यं महाक्षेत्रं मार्कंडेय मयोदितम् ॥

देवी स्वायंभुवी यत्र स्वयंभूः परमेश्वरः

॥३६॥

अट्टहासमिति प्रोक्तं महास्थानं मया तव ॥

यत्रार्कः पूजयित्वेशमासीत्पूर्णमनोरथः

॥३७॥

कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम ॥

यः कैलासादपि श्लाघ्यो निवासः कृत्तिवाससः

॥३८॥

भ्रमरांबिकया देव्या महेशो मल्लिकार्जुनः ॥

श्रीशैले सृष्टिसिद्धयर्थं पूजितः परमेष्ठिना

॥३९॥

सुवर्णमुखरीतीरे कालहस्तीति शंकरः ॥

व्यासेनाराधितो भृंगमुखरालकयांबया

॥४०॥

कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः ॥

तपस्यंत्याभिसंश्लिष्टो वलयेनांकितोऽभवत्

॥४१॥

अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम् ॥

यत्र नृत्यंतमीशानं पर्युपास्ते पतंजलिः

॥४२॥

श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा ॥

भग्नमैरावतो दंतं भेजे यत्र शिवार्चनात्

॥४३॥

सेतुबंधमिति स्थानमवोचं तत्र राघवः ॥

रामनाथाख्यया देवमंहोघ्नं प्रत्यतिष्ठिपत्

॥४४॥

गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः ॥

यत्र जंबूतरोर्मूले जगद्रक्षार्थमाश्रितः

॥४५॥

मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये ॥

नित्यं सन्निहितो देव इत्याकर्णित एव ते

॥४६॥

श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम् ॥

यस्मिन्वरप्रदो नित्यं गौरीसहचरो हरः

॥४७॥

आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम् ॥

यत्र त्यक्तवतां देहं न भूयो भवबंधनम्

॥४८॥

आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम् ॥

यत्र सिद्धाः समर्चंति ज्योतिर्लिंगमनुत्तमम्

॥४९॥

अश्रावि खलु ते क्षेत्रं कमलालयसंज्ञकम् ॥

वल्मीकेशार्चनाल्लेभे यत्र श्रीर्जीविता हरेः

॥५०॥

श्रुतवानसि कंकाद्रिं यत्र संनिहितो हरः ॥

इदानीमप्युपासाते मोक्षाय ब्रह्मकेशवौ

॥५१॥

श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये ॥

नौकामारूढवानब्धौ क्षुभिते पार्वतीपतिः

॥५२॥

श्रुतं ब्रह्मपुरंनाम क्षेत्रं यत्रेंद्रजित्पुरा ॥

आर्यपुष्करिणीतीरे स्थापयामास धूर्जटिम्

॥५३॥

श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेंदुशेखरः ॥

समाराधयतां पुंसां पापकोटीर्व्यपोहति

॥५४॥

आकर्णितं च गोकर्णं शिवं यत्संनिधानतः ॥

आरिराधयिषुः स्वर्गं जामदग्न्यो न कांक्षति

॥५५॥

त्रिपुरांतकमुक्तं ते क्षेत्रं यत्र त्रियंबकः ॥

निराकरोति निरयाद्भयं दृष्टवतां नृणाम्

॥५६॥

उक्तं कालांजनं क्षेत्रं यद्वासी कालकंधरः ॥

निर्वापयति भक्तानां घोरसंसारसंज्वरम्

॥५७॥

प्रियालवणमाख्यातं क्षेत्रं यत्रांबिकापतिः ॥

पयोर्थिने पयःसिंधुं विततारोपमन्यवे

॥५८॥

क्षेत्रं प्रभासमुक्तं ते यत्र खंडेंदुशेखरः ॥

पूजितः शौरिसीरिभ्यां दत्तवानक्षयं फलम्

॥५९॥

वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः ॥

अभ्यर्थितोऽभून्मोक्षार्थं दक्षेण प्राक्कृतागसा

॥६०॥

हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः ॥

पुंसां तपस्यतां यत्र पुनर्जननतो न भीः

॥६१॥

क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम् ॥

यत्र वंशलतागर्भाज्जातो मुक्तामणिः शिवा

॥६२॥

जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम् ॥

लेभे गणपतां तत्र तपस्याभिर्जलंधरः

॥६३॥

ज्वालामुखमिति स्थानमज्ञासीः कथितं मया ॥

यत्र ज्वालामुखी देवी कालरुद्रमपूजयत्

॥६४॥

अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया ॥

त्र्यंबकं यत्र हेरंबः संपदे पर्यपूजयत्

॥६५॥

न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल ॥

उच्चंडतांडवं काल्या साकं संघर्षमेयिवान्

॥६६॥

गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया ॥

आंजनेयेन रचितं यत्र मृत्युंजयार्चनम्

॥६७॥

गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया ॥

यत्र पाणिनिना लेभे वैयाकरणिकाग्र्यता

॥६८॥

वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम् ॥

यत्र प्रचेतसा लेभे तपसा कविमुख्यता

॥६९॥

महातीर्थमिति प्रोक्तं जानीषे यत्र शंभुना ॥

अध्यापितास्सुपर्वाणः सर्वेऽपि द्रुहिणादयः

॥७०॥

मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया ॥

लेभे यत्र व्रतस्थेन ह्रादिनी वज्रपाणिना

॥७१॥

श्रीसुंदरमिति क्षेत्रमुक्तं वेगवती तटे ॥

कलावपि युगे यस्मिन्देवदेवेन दीप्यते

॥७२॥

कुंभकोणमिति स्थानं शंभोर्वेत्सि हि यत्र सा ॥

गंगापि माघे सान्निध्यं कुरुते स्वाघशांतये

॥७३॥

अनुगोदावरीतीरं त्र्यंबकंनाम ते श्रुतम् ॥

शक्तिं यत्र गुहो लेभे तारकासुरघातिनीम्

॥७४॥

श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम ॥

त्रिशंकुना जातिशुद्ध्यै यत्र गंगाधरोर्चितः

॥७५॥

क्षेत्रं कदंबपुर्य्याख्यं भवता चावधारितम् ॥

त्वत्कृते यत्र शूलेन कृतांतं शम्भुरक्षिणोत्

॥७६॥

अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः ॥

सान्निध्यं पडिकण्ठाय विततार प्रसेदिवान्

॥७७॥

रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ ॥

मित्रावरुणयोर्यत्र रुद्रोऽजनि वरप्रदः

॥७८॥

श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम् ॥

यत्र वैरोचनिर्देवं स्वपदप्राप्तयेर्चति

॥७९॥

वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः ॥

यत्र यक्षेश्वरस्त्र्यक्षमयर्चयति भक्तितः

॥८०॥

स्थानानि खंडपरशोरित्युक्तानि मया पुरा ॥

त्वयाप्यवधृतान्येव किं भूयः श्रोतुमिच्छसि

॥८१॥

इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम् ॥

भक्त्या नमंतं पदयोः करेण पस्पर्श मौलौ करुणारसार्द्रः

॥८२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे महीमण्डलस्थविविधशिवक्षेत्रवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥