मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ४

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 4

उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनम्

नंदिकेश्वर उवाच

मुने मनःपरीक्षार्थं तथा त्वं भाषितो मया ॥

तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते

॥१॥

त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः ॥

येन स्वल्पायुषाप्येवं नित्येनाभावि भक्तितः

॥२॥

कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम् ॥

क्रुद्धो नियंत्रयामास चरणांगुष्ठपीडितम्

॥३॥

त्वमेव शांकरान्धर्मान्सर्वान्विद्धि रहस्यतः ॥

योग्रेऽसि कालवद्भ्रांतः परिपक्वोसि चेतसा

॥४॥

त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम् ॥

त्वयीव कस्मिन्नन्यस्मिन्ममापि प्रीतिरीदृशी

॥५॥

उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः ॥

भक्त्यावधारणीयं यद्भक्तिकैवल्यकांक्षिभिः

॥६॥

आदरादनुयुंजानं शिष्यं यो देशिकः स्वयम् ॥

उपदेशेन संतुष्टं न करोति स किं गुरुः

॥७॥

समाहितमना भूत्वा विश्वासं कुरु शाश्वतम् ॥

मयोपदिश्यमानेऽस्मिन्रहस्ये पारमेश्वरे

॥८॥

स्मर स्मरांतकं देवं वंदस्वाध्याय शांकरीम् ॥

उपांशूच्चारयोंकारं श्रेयस्ते महदागतम्

॥९॥

अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन ॥

अरुणाख्यं महाक्षेत्रं तरुणेंदुशिखामणेः

॥१०॥

योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः ॥

तद्भूमेर्हृदयं विद्धि शिवस्य हृदयंगमम्

॥११॥

तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः ॥

अरुणाचलसंज्ञावानस्ति लोकहितावहः

॥१२॥

आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम् ॥

विद्याधराणां यक्षाणां गंधर्वाप्सरसामपि

॥१३॥

सुमेरोरपि कैलासादप्यसौ मन्दरादपि ॥

माननीयो महर्षीणां यः स्वयं परमेश्वरः

॥१४॥

स्पृहयंति यदीयेभ्यो जंतुभ्योपि दिवौकसः ॥

अयत्नलभ्यमुक्तिभ्यो दिवावासप्रवंचिताः

॥१५॥

न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम् ॥

पत्रपुष्पफलैर्नित्यं येर्चयंति गिरौ हरम्

॥१६॥

हिंसैकरुचयो व्याधा अपि रूपानुसारतः ॥

अनंता यत्र देवस्य प्रादक्षिण्यफलास्पदम्

॥१७॥

यदुद्देशचरा मेघाः शिखराण्यभिबंधकाः ॥

गंगावतो हिमवतोऽप्यधिकं स्वं विजानते

॥१८॥

कलारावाः खगा यत्र क्वणंते कीचका अपि ॥

यक्षकिंनरगन्धर्वैलभ्यते दुर्लभं पदम्

॥१९॥

स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे ॥

आरार्तिकप्रदातॄणां देवस्याश्नुवते पदम्

॥२०॥

निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः ॥

सौभीग्यगर्वतो देवीमपर्णामवमन्वते

॥२१॥

यस्योत्तुंगस्य शृंगाग्रसंगमा अपि तारकाः ॥

आत्मनो लब्धसामान्याश्चन्द्रेण बहु मन्वते

॥२२॥

मृगाः सर्वेपि सततं चरंतो यत्र सानुषु ॥

पाणिप्रणयिनं शम्भोरेणमप्यवजानते

॥२३॥

यस्य पादांतिकचरैः प्रायेण शबरैरपि ॥

निकुम्भकुम्भसादृश्यमयत्नादुपलभ्यते

॥२४॥

किं बहूक्त्याभ्यसूयंते द्वैमातुरकुमारयोः ॥

यदंगरूढास्तरवस्तिर्यंचः शबरा अपि

॥२५॥

सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः ॥

वासप्रदत्वान्मान्यंते ध्रुवं शोणाद्रिशम्भुना

॥२६॥

अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते ॥

यत्र स्थितः सदा वज्री सेवते शोणपर्वतम्

॥२७॥

प्रतीच्यां दिशि दंडाद्रिरिति कश्चिन्महीधरः ॥

प्राचेतसस्तदगगः सेवतेऽरुणपर्वतम्

॥२८॥

दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः ॥

कालः शोणाद्रिसेवार्थमध्यास्ते तदधित्यकाम्

॥२९॥

उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः ॥

विराजते त्रिशूलाद्रिः श्रीदेन परिपालितः

॥३०॥

तत्पर्यंतप्रभूतानामन्येषामपि भूभृताम् ॥

तटकेष्वपरे चैव दिक्पालाः पर्युपासते

॥३१॥

धारिता येन सततं सर्वेपि धरणीरुहाः ॥

आराधनादप्यधिकमधिगच्छंति वैभवम्

॥३२॥

यस्मिन्गिरीशे संदृष्टे मेनातुहिनभूभृतोः ॥

समानसंबंधतया प्रमोदो वर्द्धतेतराम्

॥३३॥

तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः ॥

स्थावरोयं स्वयं शम्भुरिहेश इव जंगमः

॥३४॥

ज्योतिष्मत्तोयशृंगस्य द्विपार्श्वस्थेन्दुभास्करः ॥

व्यनक्ति स्वस्य लोकेभ्यस्तेजस्त्रितयनेत्रताम्

॥३५॥

वर्षासु शिखराधस्तादभिनीलबलाहकः ॥

विराजते यः कण्ठेन कालकूटमिवोद्वहन्

॥३६॥

सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः ॥

उक्तो न केवलं श्रुत्या साक्षादप्युपलक्ष्यते

॥३७॥

शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम् ॥

गिरीशोऽद्यापि यः शृंगलीनानेकसरिद्गणः

॥३८॥

आसादितापकटकः शारदैर्यः पयोधरैः ॥

विडंबयति गोश्रेष्ठमारूढवृषपुंगवम्

॥३९॥

यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः ॥

स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम्

॥४०॥

सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः ॥

क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदाः

॥४१॥

तक्षकानंतसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः ॥

अष्टाभिर्योऽभितः कोणैराविभूर्तो विभूतिभिः

॥४२॥

सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम् ॥

येर्ण्याशक्तितरंगिण्यो इडापिंगलयोः स्वयम्

॥४३॥

शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ॥

ज्योतिःस्तंभस्वरूपस्य मूलाग्रे यस्य वीक्षतुम्

॥४४॥

कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः ॥

ताभ्यां च प्रार्थितः शम्भुस्तस्मिन्सांनिध्यवानभूत्

॥४५॥

अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम् ॥

गौतमस्तत्र योगींद्रः सहस्रं परिवत्सरान्

॥४६॥

तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम् ॥

प्रालेयशैलकन्यापि तत्र कृत्वा तपः पुरा

॥४७॥

अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः ॥

गौर्या प्रतिष्ठितं तत्र प्रवालाद्रीश्वराभिधम्

॥४८॥

लिंगं भोगप्रदं पुंसां कैवल्याय प्रकल्पते ॥

तत्र गौरीनिदेशेन दुर्गा महिषमर्दिनी

॥४९॥

साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः ॥

खड्गतीर्थमिति ख्यातं तत्र गौर्याश्रमे नवम्

॥५०॥

सकृन्निमज्जनान्नॄणां पंचपातकनाशनम् ॥

दुर्गया चार्चितं लिंगं पापनाशननामकम्

॥५१॥

सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् ॥

तत्र वज्रांगदो राजा वित्तसारो व्यतिक्रमात्

॥५२॥

पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान् ॥

तस्य प्रदक्षिणेनैव कांतिशालिकलाधरौ

॥५३॥

विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात् ॥

नास्ति शोणाद्रितः क्षेत्रं नास्ति पंचाक्षरान्मनुः

॥५४॥

नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात् ॥

नास्ति ज्ञानं शिवज्ञानान्नास्ति श्रीरुद्रतः श्रुतिः

॥५५॥

नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः ॥

नास्ति भक्तेः सदाचारो नास्ति रक्षाकराद्गुरुः

॥५६॥

नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात् ॥

नास्ति बिल्वदलात्पत्रं नास्ति पुष्पं सुवर्णकात्

॥५७॥

नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम् ॥

नारुणाद्रेः समो मेरुर्न कैलासो न मंदरः

॥५८॥

ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम्

॥५९॥

इति वदति शिलादनंदने मुदितमनाः स मृकण्डुनंदनः ॥

पुनरपि बहुशः प्रणम्य तं चकितमना भवतो व्यजिज्ञपत्

॥६०॥

किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते ॥

तेषां च तेषां च कथं प्रतिक्रिया कथं नु तत्तन्मम कथ्यतामिति

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥