अरुणाचलमाहात्म्यं विस्तरात्परिपृच्छता
नंदिकेश्वर उवाच
अरुणाचलमाहात्म्यं विस्तरात्परिपृच्छता ॥
मार्कंडेय त्वया मन्ये मयि न्यस्तो महान्भरः
॥१॥स्थाने कुतूहलाक्षिप्तं मनस्तव महामते ॥
यः शोणाद्रीशचरितं न वेत्ति स नरः पशुः
॥२॥कथं वा शक्यते वक्तुं जानानरपि कार्त्स्न्यतः ॥
शोणाचलजुषः शंभोर्माहात्म्यं महितोदयम्
॥३॥कथं वा श्रुतमप्येतदाश्चर्यरसभावितैः ॥
अशेषमवधार्येत प्रज्ञावत्प्रवरैरपि
॥४॥इदानीं स्मर चित्रं तु चरित्रं स्मरवैरिणः ॥
परामृतानुभूत्येव सत्यं नृत्यति मे मनः
॥५॥अद्भुतं शिवचारित्रमास्कंदितमनोहरम् ॥
मम वर्णयितुं कार्त्स्न्यान्नैव शक्नोति शेमुषी
॥६॥तथाप्येष प्रवक्ष्येऽहमंशांशेन यथामति ॥
पुण्यं शोणाद्रिनाथस्य माहात्म्यं श्रूयतां मुने
॥७॥पुरादिदेवकल्पादौ निर्विकल्पो महेश्वरः ॥
स्वेच्छया सकलं विश्वं पुनरप्युदभावयत्
॥८॥उद्भावितं च तद्विश्वं स्रष्टुं पातुं च सर्वदा ॥
अन्विच्छन्नादिदेवोऽसौ ब्रह्मविष्णू विनिर्ममे
॥९॥असृजद्दक्षिणांगेन त्र्यंबकः परमेष्ठिनम् ॥
विष्टरश्रवसं देवो वामांगेन च सृष्टवान्
॥१०॥ब्रह्माणं रजसा विष्णुं सत्त्वेन समयूयुजत् ॥
नियुक्तौ देवदेवेन तौ विरंच्यच्युतावुभौ
॥११॥ईशाते सर्वजगतां सृष्टिरक्षाविधानयोः ॥
मनसैव मरीच्यादीन्ससर्ज ब्राह्मणान्दश
॥१२॥दक्षं च दक्षिणांगुष्ठात्सृष्ट्यै प्रावर्तयद्विधिः ॥
मुखेन ब्राह्मणान्दोर्भ्यां क्षत्रियानूरुतो विशः
॥१३॥शूद्रांश्च पद्भ्यां निरमात्स्वयं च कमलासनः ॥
मरीचितनयाज्जज्ञुः कश्यपादसुरास्सुराः
॥१४॥मरुतः फणिनो गृध्रा गंधर्वासरसोऽपि च ॥
मनुश्च यस्य संतानो मानवोऽयं प्रवर्त्तते
॥१५॥नानाज्ञातित्वमापाद्य नानाकर्मप्रवर्तकाः ॥
अत्रेश्च समभूदार्षं क्षात्रं च द्विविधं कुलम्
॥१६॥पुलस्त्यपुलहाभ्यां च जज्ञिरे यक्षराक्षसाः ॥
उतथ्यगीष्पतिमुखा जज्ञिरेंऽगिरिसो मुनेः
॥१७॥भृगोरग्निः समुदभूच्च्यवनाद्यास्तथर्षयः ॥
वसिष्ठप्रमुखेभ्यश्च संबभूबुर्महर्षयः ॥
यत्पुत्रपौत्रैर्भुवनमिदमापूर्यतेऽखिलम्
॥१८॥एवं ब्रह्माऽऽत्मजैः स्वीयैरिदमापूरयज्जगत् ॥
कालेन वैभवेनापि विसस्मार महेश्वरम्
॥१९॥अच्युतोऽपि भृगोः पुत्रीमुद्वाह्य कमलालयाम् ॥
मत्स्यादिरूपो जगति भवन्नास्मरदीश्वरम्
॥२०॥सृष्टिस्थितिभ्यां द्रुहिणाब्जनाभौ स्वाधीनतां नूनमुपागताभ्याम् ॥
अतीव गर्वं दधतुर्न कस्य मदोऽधिकारेण भवेन्नरस्य
॥२१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखंडेऽरुणाचलमाहात्म्य उत्तरार्धे सृष्टिवणर्नंनामाष्टमोऽध्यायः ॥ ८ ॥