मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १४

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 14

शंकरप्रादुर्भाववर्णनम्

नंदिकेश्वर उवाच

सोऽपि ब्रह्माणमुद्वीक्ष्य तावता द्विगुणं स्मयन् ॥

नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान्

॥१॥

अनुग्रहीतुं मां मुग्धं हंतुं चास्य विधेर्मदम् ॥

देवदेवः स एवालं भूतभर्तेत्यमन्यत

॥२॥

मूलसंदर्शनाशक्त्या तेजःस्तंम्भस्य मे मदः ॥

व्यपेत एव मन्येऽद्य यद्भक्तिस्त्र्यंबकेऽजनि

॥३॥

स्तूयते वीतगर्वत्वात्स इदानीं महेश्वरः ॥

यस्य दक्षिणवामाभ्यामंगाभ्यां नौ समुद्भवौ

॥४॥

अद्याप्यवीतगर्वत्वाल्लब्ध्वासौ कूटसाक्षिणम् ॥

हिरण्यगर्भो मामेवमतिसंधातुमिच्छति

॥५॥

तदद्य सकलस्यापि दुःखस्यापनये क्षमः ॥

स एव शरणत्वेन प्राप्तव्यः शंकरो मया

॥६॥

तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः ॥

तमृते रक्षिता कोऽन्यस्तमेव स्तौमि शंकरम्

॥७॥

विष्णुरुवाच

जय पृध्वीमयाकार जय चापोमयाकृते ॥

जय प्रभाकराकार जयामृतकराकृते

॥८॥

जय वैश्वानराकार जय गन्धवहाकृते ॥

जय होतृमयाकार जयाकाशमयाकृते

॥९॥

रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह ॥

रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर

॥१०॥

स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम् ॥

हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः

॥११॥

अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि ॥

अन्तर्बहिस्त्वमेवैतज्जगदाक्रम्य वर्तसे

॥१२॥

निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम् ॥

स त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो

॥१३॥

अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः ॥

प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि

॥१४॥

स्वर्गस्त्वमपवर्गस्त्वं त्वमोंकारस्त्वमध्वरः ॥

त्वं योगस्त्वं परा संवित्किं त्वं न भवसीश्वर

॥१५॥

त्वमादिर्मध्यमंतश्च तस्थुषां जग्मुषामपि ॥

कालस्वरूपतां प्राप्य कलयस्यखिलं जगत्

॥१६॥

परेशः परतः शास्ता सर्वानुग्राहकः शिवः ॥

स एष मे कथंकारं साक्षाद्भवति धूर्जटिः

॥१७॥

यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् ॥

अथ वा स्तौमि तद्धाम जातमात्रं यथामिति

॥१८॥

तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः ॥

इति निश्चित्य वैकुंठः स्तोतुं समुपचक्रमे

॥१९॥

तमेव तैजसं स्तंभं प्रणम्य परमेश्वरम् ॥

आदिमध्यांतरहितं मत्वा तं जगदीश्वरम् ॥

हठात्तेन विरंचेन वार्यमाणोपि सस्मितम्

॥२०॥

श्रीविष्णुरुवाच

जय देव महादेव वामदेव वृषध्वज ॥

कालांतक क्रतुध्वंसिन्नीलकंठेंदुशेखर

॥२१॥

जय शंभो शिवेशान शर्व त्र्यंबक धूर्जटे ॥

स्मरवैरिन्पुराराते स्थाणो भव महेश्वर

॥२२॥

जयेश खंडपरशो शूलिन्पशुपते हर ॥

सर्वज्ञ भर्ग भूतेश कपालिन्नीललोहित

॥२३॥

जय रुद्र मखाराते पिनाकिन्प्रमथाधिप ॥

गंगाधर व्योमकेश गिरीश परमेश्वर

॥२४॥

जय भीम मृगव्याध कृत्तिवासः कृपानिधे ॥

कृशानुरेतः कैलासे नित्यमेव हि वर्तसे

॥२५॥

त्वदाज्ञया मरुद्राति फणी वहति भूभरम् ॥

दीप्यतः सूर्यशशिनौ ब्रह्मांडं प्लवतेंऽबुधौ

॥२६॥

ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो ॥

अहं ब्रह्मा च जगतां सर्गसंत्राणयोरलम्

॥२७॥

विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी ॥

नाक्रामंत्यव्ययः सीमां यच्च त्वन्महिरेव सः

॥२८॥

अणिमादिमहासिद्धिनिःसाधारणवैभवः ॥

कथं त्वाममरैरन्यैरुपेक्षे समभिष्टुतम्

॥२९॥

विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च ॥

न रोषो जातु भक्तेषु प्रसादः सर्वदैव ते

॥३०॥

यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम् ॥

मोहबोधौ तदा पुंसां कल्पेते बंधमोक्षयोः

॥३१॥

इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना ॥

कृतापहासे च सरोजसंभवे मदोद्धते प्रादुरभूद्दयानिधिः

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शंकरप्रादुर्भाववर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥