स्थानमाहात्म्यप्रस्ताववर्णनम्
श्रीगणेशाय नमः
अथारुणाचलमाहात्म्योत्तरार्धम् ॥
व्यास उवाच ॥
वसंतो नैमिषारण्ये मुनयः सूतमब्रुवन् ॥
मुनय ऊचुः ॥
स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः
॥१॥सूत उवाच
यूयं शृणुत यत्पूर्वं नंदीश्वरमुखाच्छ्रुतम् ॥
मार्कण्डेयेन तद्वक्ष्ये मुनयः शृणुतादरात्
॥२॥मार्कंडेय उवाच
नंदीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः ॥
मयाप्यवधृतः सर्वो भक्तिश्रद्धार्द्रचेतसा
॥३॥तथापि वद मे भूयो देवदेव दयानिधे ॥
अहं यत्परिपृच्छामि भवंतं विहितादरः
॥४॥त्वयाप्यविदितं किंचिन्नास्त्यत्र भुवनत्रये ॥
सर्वागमपुराणेषु बाह्येष्वाभ्यंतरेषु च
॥५॥स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते ॥
सर्वकर्माणि निर्मातुं तत्तत्फलपरायणैः
॥६॥फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा ॥
भूमौ सुखं स्वर्गभोगः कैवल्यमिति भेदतः
॥७॥पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम् ॥
क्षीयते न तृतीयं तु कर्मणामेव नाश्रयात्
॥८॥तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा ॥
सर्वेषां दुर्लभं शुद्धज्ञानं देहभृतां पुनः
॥९॥तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना ॥
शिवपूजनमात्रेण सिद्ध्येत्सर्वशरीरिणाम्
॥१०॥ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम् ॥
अपि शैवागमोक्तासु न बुद्धिः संप्रवर्त्तते
॥११॥यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः ॥
लप्स्यते नियमैः शुद्धज्ञानं तन्मम कथ्यताम्
॥१२॥भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत् ॥
यत्र मुग्धैरपि श्रेयो लभ्यं तत्स्थानमुच्यताम्
॥१३॥अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम् ॥
अविघ्नं सेत्स्यते श्रेयः स्थानं तन्मेऽनुगृह्यताम्
॥१४॥जातानां वर्णसांकर्य्ये तैरश्ची योनिमीयुषाम् ॥
स्थावराणामपि श्रेयो यत्र तत्क्षेत्रमुच्यताम्
॥१५॥इतीरयित्वा स मृकंडुनंदनः समं मुनींद्रैरपरैर्महात्मभिः ॥
पपात तस्यांघ्रिसरोरुहद्वये शिलादसूनोरखिलागमाब्धेः
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे स्थानमाहात्म्यप्रस्ताववर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥