मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय १३

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 13

सर्वश्रैष्ठ्यवरप्रदानवर्णनम्

ब्रह्मोवाच

अथ गौरी पुरारातिं प्रणम्य जगदंबिका ॥

अयाचत्तादृशा शंभुमविनाभावमात्मनः

॥१॥

इदं विज्ञापयामास लोकानुग्रहकारणात् ॥

कृपया परया पूर्णा गौरी संवादसुंदरी

॥२॥

न त्याज्यमेतत्ते रूपमत्र दृष्टिमनोहरम् ॥

अहं त्वया न च त्याज्या सापराधापि सर्वदा ॥

मनोहरमिदं रूपमेतत्ते लोकमंगलम्

॥३॥

आलोक्यतां सदा सर्वैर्दिव्यगन्धसमन्वितम् ॥

भुजंगगरलब्रह्मकपालशिवभस्मभिः

॥४॥

भीषणैरलमीशान जय वेषपरिग्रहैः ॥

सुकुमारो भवेर्दिव्यमाल्यगंधांबरादिभिः

॥५॥

भूषितो रत्नभूषाभिर्विहरस्व महेश्वर ॥

आगता नित्यमीशान देवगन्धर्वकन्यकाः

॥६॥

सेवंतामत्र देवेशं नृत्यवादित्रगीतिभिः ॥

गणाश्च मानुषा भूत्वा सेवंतां त्वामहर्निशम्

॥७॥

त्वत्प्रसादादयं देव सुगंधिः पुष्टिवर्द्धनः ॥

आवयोः संगमो दृष्टो भूयात्सर्वार्थदायकः

॥८॥

गृहीतमत्र देवेश सर्वमंत्रात्मकं वपुः ॥

चरितं तव कैंकर्यमस्तु भक्तिः सदा तव

॥९॥

ज्ञानाज्ञानकृतं नित्यमपराधसहस्रकम् ॥

क्षम्यतां तव भक्तानामनन्यशरणेक्षणात्

॥१०॥

इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः ॥

तमेव वरदः प्रादाद्वरं सर्वमभीप्सितम्

॥११॥

आभाष्य गौरीं कुतुकाद्रंतुकामः स्वयं शिवः ॥

धारय त्वं मृगमदं मनोज्ञमिदमूचिवान्

॥१२॥

महादेव उवाच

पुलकाख्यो महान्दैत्यो मृगरूपी तपोधिकम् ॥

कृत्वा प्राप वरं मत्तः सौगन्ध्यं परमाद्भुतम्

॥१३॥

लब्ध्वा वरं स्वगन्धेनामोहयत्सुरयोषितः ॥

तथैवाधर्मसंप्राप्तो बबाधे सकलं जगत्

॥१४॥

देवैरभ्यर्थितः सोहमाहूयासुरनायकम् ॥

विमुंच लोकरक्षार्थमासुरं देहमित्यशाम्

॥१५॥

पुलक उवाच

त्यक्ष्यामि देवदेवेश देहमेतं त्वदाज्ञया ॥

प्रणम्य भक्तिमनसा मामप्यर्चेदमूचिवान्

॥१६॥

मदंगसंभवं दिव्यं सौरभं विश्वमोहनम् ॥

धार्यतां देव देवेश सदा सादरचेतसा

॥१७॥

पुलकस्वेदजातो हि सदा प्रख्यायतां तव ॥

अयं मृगमदो लोके शृङ्गाररसवर्द्धनः

॥१८॥

त्वत्प्रियः कांतिसौभाग्यरूपलावण्यदायकः ॥

विसृजामि निजं देहं देवदेव जगत्पते

॥१९॥

सदा बहुमतो देव्या दिव्यसौरभलुब्धया ॥

मदंशसंभवा ये स्युर्मत्तपोलब्धसौरभाः

॥२०॥

लीयंतां तव देवेश मूर्तावालेपनच्छलात् ॥

तथेति मय्युक्तवति स दैत्यः पुलकाभिधः

॥२१॥

विससर्ज निजं देहं मयिसन्यस्तजीवितः ॥

ततस्तदंगसंभूतं मदं बहुलसौरभम्

॥२२॥

अधारयमहं प्रेम्णा शतशृंगारवर्द्धनम् ॥

तपसा देवदेवेशि तप्तं तव वपुः कृशम्

॥२३॥

मदंगं च वियोगात्त इदं निर्वापयाधुना ॥

इति प्रशस्य बहुधा पुलकस्नेहमद्भुतम्

॥२४॥

आलिलिंप महादेवः पार्वतीं प्रेममंदिराम् ॥

अपृच्छच्च हसन्देवः पार्वतीं ललनाकृतिम्

॥२५॥

किमेतदिति हस्तोत्थं दृष्ट्वा तं जगदंबिका ॥

अब्रवीदरुणाद्रीशमानम्य जगदंबिका

॥२६॥

आगतिं तस्य पुष्पस्य सदा स्वकरवर्तिनः

॥२७॥

देव्युवाच

अहं कैलासशिखराद्देवदेव त्वदाज्ञया ॥

तपः कर्तुमनुप्राप्ता कांचीं कनकतोरणाम्

॥२८॥

अवाप्य मानसोद्भूतं कह्लारमिदमुत्तमम् ॥

आराधयं महादेवमम्लानगुरुसौरभम्

॥२९॥

यदक्षयमविश्रांतमर्चनायोजितं मया ॥

अविच्छिन्नमहादीप्तिः कामधेनुघृताप्लुतः

॥३०॥

अवेक्षणीयो भूपालैरनुपाल्यश्च सर्वदा ॥

धर्मलक्षणमाधेयं लोकरक्षार्थमादरात्

॥३१॥

सर्वाभीप्सितसिद्ध्यर्थं मत्प्रीतिकरणाय च ॥

मया संस्थापिता धर्मा द्वात्रिंशल्लोकगुप्तये

॥३२॥

रक्षणीया प्रयत्नेन तत्संनिधिमुपागतैः ॥

सर्वालंकारसंयुक्तं सर्वभोगकृतोत्सवम् ॥

आलोक्यतामिदं रूपं कन्यायां मम कांतिमत्

॥३३॥

ब्रह्मोवाच

इति देव्या वचः श्रुत्वा शम्भुः शोणाचलेश्वरः

॥३४॥

तथेति वरदः प्रादाद्वरं सर्वमभीप्सितम् ॥

एष शोणाचलः श्रीमान्दृश्यते लोकपूजितः

॥३५॥

सर्वदा वरदागौर्या सर्वभोगैश्च संवृतः ॥

य एतच्छांभवं रूपमरुणाद्रितया स्थितम्

॥३६॥

संपश्यंति नमस्यंति कृतार्थाः सर्व एव ते ॥

अरुणाचलमाहात्म्यमेतच्छ्रण्वंति ये भुवि

॥३७॥

भवंति सततं तेषां समग्राः सर्वसंपदः ॥

श्रीमत्त्वं वाक्पतित्वं च रूपमव्याहतं बलम्

॥३८॥

लभंते पापनाशं च माहात्म्यस्यास्य धारणात् ॥

सर्वतीर्थाभिषवणं सर्वयज्ञक्रियाफलम्

॥३९॥

सदाशिवप्रसादं च दत्ते शोणाद्रिदर्शनम्

॥४०॥

इति कैलासशिखरात्प्राप्ता देवी शिवाज्ञया ॥

शापमोक्षगतवती शोणाचलनिरीक्षणात्

॥४१॥

स्थानेष्वन्येषु देवस्य विद्यमानेषु च क्षितौ ॥

दिवि चात्यंतपुण्येषु शंभुरत्र प्रसेदिवान्

॥४२॥

अयं सदाशिवः साक्षादरुणाचलरूपतः ॥

दृश्यते परमं तेजः सर्गस्थित्यंतकारणम्

॥४३॥

एतत्तु तैजसं लिगं सर्वदेवनमस्कृतम् ॥

दृश्यते कर्मभूरेषा तेन धर्माधिका मता

॥४४॥

अरुणाचलनाथस्य तेजसा धूतकल्मषाः ॥

भक्तिमंतो नरा लोके सुखमाप्स्यंति सर्वतः

॥४५॥

प्रदक्षिणैर्नमस्कारैस्तपोभिर्नियमैरपि ॥

येऽर्चयंत्यरुणाद्रीशं तेषां शंभुर्वशंगतः

॥४६॥

न तथा तपसा योगैर्दानैः प्रीणाति शंकरः ॥

यथा सकृदपि प्राप्तादरुणाचलदर्शनात्

॥४७॥

स्वयंभुवः सदा वेदाः सेतिहासा दिवि स्थिताः ॥

परितो गिरिरूपास्ते स्तुवंत्यरुणपर्वतम्

॥४८॥

एतस्य वैभवं सर्वं न मया न च शार्ङ्गिणा ॥

वचसा शक्यते वक्तुं वर्षकोटिशतैरपि

॥४९॥

देवाश्च हरिमुख्यास्ते कल्पकाद्याः सुरद्रुमाः ॥

प्रच्छन्नरूपाः सेवंते सर्वदैवारुणाचलम्

॥५०॥

न तस्य कलिदोषः स्यान्नाधिव्याधिविजृंभणा ॥

यत्र संपूज्यते लिंगमरुणाचलसंज्ञितम्

॥५१॥

इत्येतत्कथितं सर्वं तव शंभुपदाश्रयम् ॥

चरितं ह्यरुणस्यास्य कल्पपुण्यदुरासदम्

॥५२॥

सूत उवाच

इति विधिमुखनिःसृतामुदारामरुणगिरीशकथासुधापगां हि ॥

श्रुतिपुटयुगलात्पिबन्मनोज्ञां सनकमुनिस्तपसां फलं स लेभे

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे शिवेनारुणाचलस्य सर्वश्रैष्ठ्यवरप्रदानवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥

छ ॥ अरुणाचलमाहात्म्यस्य पूर्वार्द्धं संपूर्णम् ॥ इत्यरुणाचलमाहात्म्यपूर्वार्धं समाप्तम् ॥ ( ३। १)