शृणु देवि पुरावृत्तं कैलासे मेरुधन्विना
गौतम उवाच
शृणु देवि पुरावृत्तं कैलासे मेरुधन्विना ॥
आदिष्टस्तीर्थयात्रार्थमहं लिंगानि वीक्षितुम्
॥१॥रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे ॥
काश्यां पुण्येषु देशेषु तथा श्रीपर्वते शिवे
॥२॥कांचीमुख्यासु पुण्यासु पुरीष्वप्यगमं तदा ॥
ऋषिभिर्विबुधैः सार्थैर्गणैर्योगिभिरुत्तमैः
॥३॥स्थापितानि च लिंगानि स्वयंभूनि च दृष्टवान् ॥
तत्रतत्र महाभागे तीर्थानि शिवसन्निधौ
॥४॥सेवमानः सशिष्योऽहं पर्यटन्पृथिवीमिमाम् ॥
एवं तीर्थानि सर्वाणि गाहमानो व्रतान्वितः
॥५॥तपांसि यज्ञकर्माणि कुर्वन्भूमिं समाचरन् ॥
शिवस्मरणसंयुक्तः शिवलिंगानि सन्नमन्
॥६॥सर्वाणि भुवि पुण्यानि देशमेतमुपाश्रयम् ॥
अत्र देवं महादेवमविकेशं त्रियंबकम्
॥७॥अरुणाद्रिरितिख्यातं पर्वतं लिंगमैक्षिषि ॥
अत्र सिद्धा महात्मानो मुनयश्च दृढव्रताः
॥८॥कंदमूलफलाहारा दृष्टाः शोणाद्रि सेवकाः ॥
अस्तौषमादिमं लिंगमरुणाद्रिमयं महत्
॥९॥आद्येन ब्रह्मणा पूर्वमर्चितं दिव्यचक्षुषा ॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः
॥१०॥इति वेदा स्तुवंति त्वामरुणाद्रीश संततम् ॥
नमस्ताम्राय चारुणाय शिवाय परमात्मने
॥११॥सर्ववेदस्वरूपाय नित्यायामृतमूर्त्तये ॥
कालाय करुणार्द्राय दृष्टिपेयामृताब्धये
॥१२॥भक्तवात्सल्यपूर्णाय पुण्याय पुरभेदिने ॥
दर्शनं तव देवेश सर्वधर्मफलप्रदम्
॥१३॥भुवि लब्धवता भूयो नान्यत्कार्यं तपः क्वचित् ॥
भवता कर्मभूरेषा वर्ततेद्य निरोधिता
॥१४॥प्रार्थयते स्वयं वासान्देवाश्चात्र त्वदाश्रये ॥
कालसंग्रहसंजातं फलं लब्धं मयाधुना
॥१५॥अन्यत्कृतं तपः सर्वं त्वद्दर्शनफलं मम ॥
ईदृशं तव देवेश रूपमत्यद्भुतोदयम्
॥१६॥एकमद्रिमयं लिंगं न क्वचिद्दृष्टवान्भुवि ॥
सूर्येंद्वग्निसुसंयुक्त कोणत्रयमनोहरम्
॥१७॥त्रिमूर्तिरूप देवेश दृश्यते ते वपुर्महत् ॥
शक्तित्रयस्वरूपेण कालत्रयविधानकम्
॥१८॥त्रिवेदात्मं त्रिकोणांगं लिंगं ते दृष्टमद्भुतम् ॥
त्रैलोक्यरक्षणार्थाय विततं रूपमास्थितः
॥१९॥दृश्यते वसुधाभागे शोणाद्रिरिति विश्रुतः ॥
अजानतां च मर्त्यानां समालोकनमात्रतः
॥२०॥वितरत्यखिलान्भोगान्व्याजकरुणानिधिः ॥
अर्चया रहितं लिंगमन्यं शून्यमुदाहृतम्
॥२१॥इदं तु पूजितं देवैः सदा सर्ववरप्रदम् ॥
प्रसीद करुणापूर्ण शोणाचल महेश्वर
॥२२॥त्रायस्व भवभीतं मां प्रपन्नं भक्तवत्सल ॥
द्रष्टव्यं द्रष्टमेतत्ते रूपमत्यद्भुतं महत्
॥२३॥कृतार्थय कृपासिंधो शरण्य शरणागतम् ॥
इति संस्तूयमानो मे देवः शोणाचलेश्वरः
॥२४॥अदर्शयत्परं रूपं दिव्यमेहीत्युवाच माम् ॥
प्रीतोऽस्मि भवतः स्तोत्रैर्भक्त्या च परया भृशम्
॥२५॥अत्रैव भवतो वासो नित्यमस्तु ममांतिके ॥
संपूजय च मां नित्यं भुवि भोगैः सनातनैः
॥२६॥तपसा तप सर्वेषां महत्त्वमिह दर्शय ॥
पूर्वं कैलासशिखरे वसंतं त्वां तपोन्वितम्
॥२७॥आदिशं पृथिवीभागं शोणाद्रौ पूजयेति माम् ॥
सप्तर्षिपूजिता पूजा दिवि मे संप्रकाशते
॥२८॥तथा नित्यार्चनायुक्त प्रकाशय धरातले ॥
सर्वेषामेव जंतूनां हिताय त्वं तपोऽधिकः
॥२९॥भुवि मां पूजयार्चाभिरागमोक्ताभिरादरात् ॥
दिव्या मम महापूजा दृश्या हि दिवि दैवतैः
॥३०॥प्रकाशनीया भवता पार्थिवी वसुधातले ॥
माहात्म्यं पूर्वमेवोक्तं यथाहमरुणाचलः
॥३१॥स्थितो वसुंधराभागे मया प्रीतं तु ते भृशम् ॥
ये वा संपूजयंति स्म पूर्वं मां सुकृताधिकाः
॥३२॥तेभ्यस्त्वमधिको भूमौ प्रकाशस्व शिवार्चनम् ॥
इत्यादिष्टो हि देवेशं प्रणम्य भवभक्तिमान्
॥३३॥अन्वपृच्छं दयापूर्णमरुणाद्रीशमानमन् ॥
अनासाद्यमिदं रूपमग्निरूपं महेश्वरम्
॥३४॥कथमद्यार्चयाम्येनं मर्त्यलोकोचितार्चनैः ॥
आदेशमिममन्वर्थं कथं वा कल्पयाम्यहम्
॥३५॥उपायमादिश श्रीमन्नभिगम्यो यथा भवान् ॥
इति विज्ञापितो देवः श्रीमाञ्छोणाचलेश्वरः
॥३६॥अन्वग्रहीदशेषात्मा प्रणतं मां दयानिधिः ॥
अहं तु सूक्ष्मलिंगानि प्रकाशिष्ये महीतले
॥३७॥आगमोक्तक्रियाभेदैः पूजां मे प्रतिपादय ॥
पंचावरणसंयुक्तं लिंगं मे सूक्ष्ममद्भुतम्
॥३८॥अरुणाद्रीश्वराभिख्यं संपूजय तपोबलैः ॥
इत्यादिश्य महादेवः स्वयंभु विमलं महत्
॥३९॥रूपं मे दर्शयामास सूक्ष्मलिंगात्मना शिवः ॥
आलोक्य विमलं लिंगं सूक्ष्मं तत्स्वयमुच्छ्रितम्
॥४०॥अशेषाऽऽवरणोपेतं कृतार्थहृदयोऽभवम् ॥
पुनर्व्यज्ञापयं देवं शम्भुमाश्रितवत्सलम्
॥४१॥आगमोक्तप्रकाराणामनिरीक्ष्यत्वमागतम् ॥
कथं तु तव रूपाणां नामभेदान्वियोजितान्
॥४२॥जानीयां करुणामूर्ते स्वयमीश्वर मत्प्रभो ॥
पूजकास्तव के वा स्युर्मंदिरं वात्र कीदृशम्
॥४३॥कथं स्तोत्रं कथं पूजा के वात्र परिचारकाः ॥
स्थानरक्षा कथं वा स्यात्के वात्मपरिरक्षकाः
॥४४॥कथं वा मानुषी पूजा नित्या संवर्धते तव ॥
आगता बहवो देवाः श्रद्धेयं मनुजैः कथम्
॥४५॥प्रसीद परमेशान स्वयमाज्ञापयाखिलम् ॥
एवं विज्ञापितो देवः शोणाद्रीशः स्वयं प्रभुः
॥४६॥आज्ञापयत्तदा देवो विश्वकर्माणमागतम् ॥
सृज त्वं नगरं दिव्यमरुणाख्यं गुणाधिकम्
॥४७॥मंदिरं मम दिव्यं च महामणिगणोज्ज्वलम् ॥
तौर्यत्रिकं सपर्यांगं तन्मे सर्वं प्रकल्पय
॥४८॥आबभाषे शिवः श्रीमान्नामभेदार्चनक्रमम् ॥
व्रतं च करुणामूर्त्तिररुणाद्रीश्वरः शिवः
॥४९॥शृणु तन्मे च ये सृष्टा पूजार्थं परिचारकाः ॥
शृणु गौतम सर्वं मे मानुषं पूजनक्रमम्
॥५०॥य एष सर्वलोकानां क्षेमाय प्रथते भुवि ॥
इदं तेजोमयं लिंगमतुलं दृश्यते महत्
॥५१॥अरुणाद्रीश्वराभिख्यं पूज्यतां सततं त्वया ॥
शक्तिर्ममोत्तरे भागे पूज्या नित्योदया मुदा
॥५२॥दधती स्थानमाहात्म्यमपीतकुचनामिका ॥
अरुणाचलराजोयमविभागः प्रियान्वितः
॥५३॥उत्सवार्थो महादेवः पूज्यो भोगसुतावृतः ॥
बोधदो भक्तलोकस्य दत्ताभयकरः शिवः
॥५४॥सारंगं परशुं विभ्रत्प्रसन्नवदनः सदा ॥
उमास्कन्देश्वरः शम्भुर्दिव्यरत्नविभूषणः
॥५५॥आभया भासयँल्लोकानविकुण्ठश्रियान्वितः ॥
शक्तेरुत्सवभद्रे च संपूज्या सुंदरेश्वरी
॥५६॥सर्वभूषणसंयुक्ता शृङ्गाररसवर्द्धनी ॥
बालो गणपतिः पूज्यः पुरस्ताद्भूतिनन्दनः
॥५७॥मदंतिकमलंकुर्वन्भक्ष्यैर्भोज्यैर्बहूदयैः ॥
मत्पार्श्वमविमुंचंती शोणरेखांचितेक्षणा
॥५८॥उत्सवार्था परा शक्तिरंतिकस्थैव पूज्यताम् ॥
मुखरांघ्रिपतिः श्रीमान्नृत्यंस्तांडवपण्डितः
॥५९॥उत्सवार्थं समभ्यर्च्यश्चक्षुरग्रेऽमृतेश्वरः ॥
शक्तिश्चान्या महाभागा संपूज्या भूविनायका
॥६०॥द्वारे नन्दी महाकालः पुरस्तात्सूर्यसंनिभः ॥
भक्तानां मम सर्वेषां पूजनं चापि कल्प्यताम्
॥६१॥दक्षिणे मातरः पूज्या विघ्नशास्तृसमन्विताः ॥
संपूज्यो नैर्ऋते कोणे विघ्ननाशो विनायकाः
॥६२॥स्कन्दः शक्तिधरश्चैवैशानकोणे समर्च्यताम् ॥
लिंगानि च मनोज्ञानि पूजनीयान्यनन्तरम्
॥६३॥मंदिरं मम संपूज्य दक्षिणामूर्ति दक्षिणम् ॥
पश्चिमे विष्णुरूपांकमग्निरूपान्वितं तथा
॥६४॥उत्तरे ब्रह्मरूपांकं पूर्वे सारंगभूयुतम् ॥
सर्वदेवगुणोपेतं सर्वशक्तिसमन्वितम्
॥६५॥अपीतकुचनाथायाः सर्वशक्तिसमन्वितम् ॥
मंदिरं गुरु संपूज्य दिक्पालकवधूवृतम्
॥६६॥मंदिरस्यावनार्थाय देवीर्वैभवनायकाः
॥६७॥क्षेत्रपालं तु संपूज्य सर्वावरणसंयुतम् ॥
पुत्रस्य त्राणमायाता पूज्यारुणगिरीश्वरी
॥६८॥काली बहुविधाश्चान्या देवता विधिपालकाः ॥
उत्सवा विविधाः कल्प्याः प्रतिमासमहोदयाः
॥६९॥सृजस्व कन्यका दिव्याः शिवदेवार्हणे रताः ॥
नृत्तगीतकलाभिज्ञा रूपसौभाग्यसंयुताः
॥७०॥चारुविभ्रमसंयुक्ताः कामदा नित्यपावनाः ॥
शिष्यानादिश वेदज्ञान्सदाचारसमुज्ज्वलान्
॥७१॥दिव्योपचारसंसिद्ध्यै सुभगाञ्छुद्धचेतसः ॥
दीक्षितान्विमलाञ्छुद्धाञ्छैवागमविशारदान्
॥७२॥शैवाचारप्रसिद्ध्यर्थमादिशाभ्यर्चने मम ॥
मार्द्दलाञ्छांखिकान्वैणांस्तालिकान्वेणुवादकान्
॥७३॥शौल्बिकान्सृज सद्विद्यांश्चतुर्विद्याविशारदान् ॥
क्षत्रियान्विविधान्वैश्याञ्छूद्रांश्च शिवसंमतान्
॥७४॥चत्वारश्च मठाः कल्प्याश्चतुर्दिक्तीर्थवासिनाम् ॥
मुनीनां शिवभक्तानां निराशानां निवासतः
॥७५॥तेषु स्थिता मुनींद्रा मे रक्षंतु शिवपूजनम् ॥
भिक्षमाणाः पुनः शैवा भक्ताः पाशुपता अपि
॥७६॥पालयंतु सदान्ये च युक्ताः कापालिका अपि ॥
सर्वेषां जायमानानां जातानां संभविष्यताम्
॥७७॥अव्याहताज्ञमारक्ष्यमिदं स्थानं महीभृताम् ॥
बकुलश्च महानत्र दृश्यते दिव्यभूरुहः
॥७८॥अत्र भक्ता वितन्वन्तु शिवकार्यविनिश्चयम् ॥
अत्र मे दीयते द्रव्यमप्रेक्षितपराप्तये
॥७९॥यत्तदक्षय्यफलदमारक्ष्यं शिवसेवकैः ॥
भक्तैर्विज्ञापितं चार्थं श्रोष्यामि पुरतः स्थितैः
॥८०॥सर्वं संपादयिष्यामि तेषां चित्तानुकूलकम् ॥
अपराधसहस्राणि क्षंस्ये मां स्वर्चतामहम्
॥८१॥आगमोक्ता च पूजेयं मानुषी निर्मिता यतः ॥
ग्रहीष्ये तामहं सर्वामर्चां सर्वागमोदिताम्
॥८२॥संकल्पितं भवेत्कर्म प्रीतिकृन्मम सेवकैः ॥
आगमार्थानशेषांस्त्वमालोक्य समयोचितान्
॥८३॥विधायाभ्यर्चनाभेदाँल्लोकरक्षाकृते मुने ॥
कर्तव्या महती पूजा पौर्णमास्यां तु सादरम्
॥८४॥सत्राणि विविधान्यत्र कर्तव्यानि सहस्रशः ॥
विविधानि च दानानि शक्त्या चैवास्य सन्निधौ
॥८५॥अव्युच्छिन्नप्रदीपस्य दातारो मम सन्निधौ ॥
तेजोमयमिदं रूपं मम यांति न संशयः
॥८६॥जलजं तरुजं पुष्पं कक्षजं च लतोद्भवम् ॥
ददते ये च भक्त्या मे ते भविष्यंति भूभृतः
॥८७॥तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ॥
यस्य यस्य तु देशस्य यो यो राजा तपोधिकः
॥८८॥तत्तत्समर्द्धितं रम्यं संभवं ददतेऽत्र मे ॥
मत्संनिधिमुपागत्य दुरात्मानोऽपि भूमिपाः
॥८९॥शिवभक्ता भृशं पूर्णा भविष्यंति न संशयः
॥९०॥इति शंभुमुखोत्थितं वचः समुपश्रुत्य विधूतकल्मषः ॥
अहमानतवान्व्यजिज्ञपं कुतुकाच्छोणगिरीश्वरं शिवम्
॥९१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वराराधनामाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥