मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय ३

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 3

तपश्चर्यार्थमागमनम्

सनक उवाच

भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम् ॥

श्रुतं शिवप्रसादेन दयया ते जगद्गुरोः

॥१॥

आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम् ॥

आराधयन्पुनः के वा वरदं शोणपर्वतम्

॥२॥

अनादिरंतरहितः शिवः शोणचलाकृतिः ॥

युवयोस्तपसा देव वरदानाय संस्थितः

॥३॥

सकृत्संकीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे ॥

सन्निधिः सर्वकामानां जायते चाघनाशनम्

॥४॥

शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः ॥

इति तद्वचनं श्रुत्वा देवदेवः पितामहः

॥५॥

उवाच करुणामूर्तिररुणाद्रीशमानमन् ॥

ब्रह्मोवाच ॥

श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम्

॥६॥

अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत् ॥

आससाद महादेवः कदाचित्पार्वतीपतिः

॥७॥

रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम् ॥

रत्नपुष्पफलोपेत कल्पद्रुममनोहरम्

॥८॥

परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम् ॥

विमुक्तपुष्पप्रकरदिव्यधूपोरुसौरभम्

॥९॥

प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् ॥

दिव्यतूर्यघनारावप्रनृत्यद्गुहवाहनम्

॥१०॥

पार्वतीसिंहसंचारपरित्रस्तमहागजम् ॥

अप्सरोभिः प्रनर्त्ताभिर्गायंतीभिश्च केवलम्

॥११॥

आसेवितपुरोरंगं दिक्पालकनिषेवितम् ॥

ऋग्यजुःसामजैर्मंत्रैः स्तुवद्भिर्मुनिपुंगवैः

॥१२॥

ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम् ॥

गणैश्च विविधाकारैर्भस्मालंकृतविग्रहैः

॥१३॥

रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः ॥

वीणावेणुमृदंगादितौर्यत्रिकजनिस्वनैः

॥१४॥

घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः ॥

मनोहरं महादिव्यमासनं पार्वतीसखः

॥१५॥

अलंचकार भगवन्भक्तानुग्रहकाम्यया ॥

आस्थाय विमलं रूपं सर्वतेजोमयं शिवम्

॥१६॥

अंबिकासहितः श्रीमान्विजहार दयानिधिः ॥

संगीतेन कथाभेदैर्द्यूतक्रीडाविकल्पनैः

॥१७॥

गणानां विकटैर्नृत्यै रमयामास पार्वतीम् ॥

विसृज्य सकलान्देवानृषींश्चापि सभासदः

॥१८॥

वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान् ॥

आगमेषु विचित्रेषु सर्वर्तुकुसुमेषु च

॥१९॥

विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु ॥

वापिकासु मनोज्ञासु रत्नसोपानपंक्तिषु

॥२०॥

केलिपर्वतशृंगेषु हेमरंभावनांतरे ॥

गंगातरंगशीतेन फुल्लपंकजगंधिना

॥२१॥

वातेन मंदगतिना विहारविहतश्रमः ॥

स्वकामतः स्वयं देवः प्रेयसीमभ्यनन्दयत्

॥२२॥

रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम् ॥

कदाचिद्रहसि प्रीता निजाज्ञावशवर्त्तिनम्

॥२३॥

रमणं जानती मुग्धा पश्चादभ्येत्य सादरम् ॥

कराभ्यां कमलाभाभ्यां त्रिणेत्राणि जगद्गुरोः

॥२४॥

पिदधे लीलया शंभोः किमेतदिति कौतुकात् ॥

चन्द्रादित्याग्निरूपेण पिहितेष्वक्षिषु क्रमात्

॥२५॥

अन्धकारोऽभवत्तत्र चिरकालं भयंकरः ॥

निमिषार्द्धेन देवस्य जग्मुर्वत्सरकोटयः

॥२६॥

देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः ॥

तमसा पूरितं विश्वमपारेण समन्ततः

॥२७॥

शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत ॥

न व्यजृंभत विबुधा न च वेदाश्चकाशिरे

॥२८॥

नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम् ॥

जगतामपि सर्वेषामकाले वीक्ष्य संक्षयम्

॥२९॥

तपसा लब्धस्फूर्तीनां विचारः समपद्यत ॥

किमेतत्तमसो जन्म भुवनक्षयकारणम्

॥३०॥

भगवानपि सर्वात्मा न नूनं कालमाक्षिपत् ॥

देवी विनोदरूपेण पिधत्ते पुरजिद्दृशः

॥३१॥

तेनेदमखिलं जातं निस्तेजो भुवनत्रयम् ॥

अकालतमसा व्याप्ते सकले भुवनत्रये

॥३२॥

का गतिर्लब्धराज्यानां तपसो देवजन्मनाम् ॥

न यज्ञाः संप्रवर्तंते न पूज्यन्ते सुरा भुवि

॥३३॥

इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा ॥

नित्यास्ते सूरयो भक्त्या शंभुमागम्य तुष्टुवुः

॥३४॥

नमः सर्वजगत्कर्त्रे शिवाय परमात्मने ॥

मायया शक्तिरूपेण पृथग्भावमुपेयुषे

॥३५॥

अविनाभाविनी शक्तिराद्यैका शिवरूपिणी ॥

लीलया जगदुत्पत्तिरक्षासंहृतिकारिणी

॥३६॥

अर्धांगी सा तव देव शिवशक्त्यात्मकं वपुः ॥

एक एव महादेवो न परे त्वद्विना विभो

॥३७॥

लीलया तव लोकोयमकाले प्रलयं गतः ॥

करुणा तव निर्व्याजा वर्द्धतां लोकवर्द्धनी

॥३८॥

भवतो निमिषार्द्धेन तेजसामुपसंहृतेः ॥

गतान्यनेकवर्षाणि जगतां नाशहेतवे

॥३९॥

ततः प्रसीद करुणामूर्त्ते काल सदाशिव ॥

विरम प्रणयारब्धादमुष्माल्लोकसंक्षयात्

॥४०॥

इति तेषां वचः श्रुत्वा भक्तानां सिद्धिशालिनाम् ॥

विसृजाक्षोणि गौरीति करुणामूर्त्तिरब्रवीत्

॥४१॥

विससर्ज च सा देवी पिधानं हरचक्षुषाम् ॥

सोमसूर्याग्निरूपाणां प्रकाशमभवज्जगत्

॥४२॥

कियान्कालो गतश्चेति पृष्टैः सिद्धैश्च वै नतैः ॥

उक्तं त्वन्निमिषार्द्धेन जग्मुर्वत्सरकोटयः

॥४३॥

अथ देवः कृपामूर्त्तिरालोक्य विहसन्प्रियाम् ॥

अब्रवीत्परमोदारः परं धर्मार्थसंग्रहम्

॥४४॥

अविचार्य कृतं मुग्धे भुवनक्षयकारणात् ॥

अयुक्तमिह पश्यामि जगन्मातुस्तवैव हि

॥४५॥

अहमप्यखिलाँल्लोकान्संहरिष्यामि संक्षये ॥

प्राप्ते काले त्वया मौग्ध्यादकाले प्रलयं गताः

॥४६॥

केयं वा त्वादृशी कुर्यादीदृशं सद्विगर्हितम् ॥

कर्म नर्मण्यपि सदा कृपामूर्तिर्न बाधते

॥४७॥

इति शम्भोर्वचः श्रुत्वा धर्मलोपभयाकुला ॥

किं करिष्यामि तच्छांत्या इत्यपृच्छत्स्म तं प्रिया

॥४८॥

अथ देवः प्रसन्नात्मा व्याजहार दयानिधिः ॥

देव्यास्तेनानुतापेन भक्त्या च तोषितः शिवः

॥४९॥

मन्मूर्तेस्तव केयं वा प्रायश्चित्तिरिहोच्यते ॥

अथापि धर्ममार्गोयं त्वयैव परिपाल्यते

॥५०॥

श्रुतिस्मृतिक्रियाकल्पा विद्याश्च विबुधादयः ॥

त्वद्रूपमेतदखिलं महदर्थोस्मि तन्मयः

॥५१॥

मान्ययाभिन्नया देव्या भाव्यं लोकसिसृक्षया

॥५२॥

तस्माल्लोकानुरूपं ते प्रायश्चित्तं विधीयते ॥

षड्विधो गदितो धर्मः श्रुतिस्मृतिविचारतः

॥५३॥

स्वामिना नानुपाल्येत यदि त्याज्योऽनुजीविभिः ॥

न त्वां विहाय शक्नोमि क्षणमप्यासितुं क्वचित्

॥५४॥

अहमेव तपः सर्वं करिष्याम्यात्मनि स्थितः ॥

पृध्वी च सकला भूयात्तपसा सफला तव

॥५५॥

त्वत्पादपद्मसंस्पर्शात्त्वत्तपोदर्शनादपि ॥

निरस्यंति स्वसान्निध्याद्दुष्टजातमुपद्रवम्

॥५६॥

कर्मभूमेस्त्वमाधिक्यहेतवे पुण्यमाचर ॥

त्वत्तपश्चरणं लोके वीक्ष्य सर्वोपि संततम्

॥५७॥

धर्मे दृढतरा बुद्धिं निबध्नीयान्न संशयः ॥

कृतार्थयिष्यति महीं दया ते धर्मपालनैः

॥५८॥

त्वमेवैतत्सकलं प्रोक्ता वेदैर्देवि सनातनैः ॥

अस्ति कांचीपुरी ख्याता सर्वभूतिसमन्विता

॥५९॥

या दिवं देवसंपूर्णा प्रत्यक्षयति भूतले ॥

यत्र कृतं तपः किंचिदनंतफलमुच्यते

॥६०॥

देवाश्च मुनयः सर्वे वासं वांछंति संततम् ॥

तत्र कंपेति विख्याता महापातकनाशिनी

॥६१॥

यत्र स्थितानां मर्त्यानां कम्पन्ते पापकोटयः ॥

तत्र चूतद्रुमश्चैको राजते नित्यपल्लवः

॥६२॥

संपूर्णशीतलच्छायः प्रसूनफलपल्लवैः ॥

तत्र जप्तं हुतं दत्तमनन्तफलदं भवेत्

॥६३॥

गणाश्च विविधाकारा डाकिन्यो योगिनीगणाः ॥

परितस्त्वां निषेवंतां विष्णुमुख्यास्तथा पराः

॥६४॥

अहं च निष्कलो भूत्वा तव मानसपंकजे ॥

सन्निधास्यामि मा भूस्त्वं देवि मद्विरहाकुला

॥६५॥

इत्युक्ता देवदेवेन देवी कंपांतिकं ययौ ॥

तपः कर्तुं सखीयुक्ता विस्मयाक्रान्तलोचना

॥६६॥

कंपां च विमलां सिन्धुं मुनिसमघनिषेविताम् ॥

आलोक्य कोमलदलमेकाम्रं दृष्टिवारणम्

॥६७॥

फलपुष्पसमाकीर्णं कोकिलालापसंकुलम् ॥

प्रससाद पुनर्देवं सस्मार च महेश्वरम्

॥६८॥

कामाग्निपरिवीतांगी तपःक्षामेव साऽभवत् ॥

अभ्यभाषत सा गौरी विजयां पार्श्ववर्त्तिनीम्

॥६९॥

कामशोकपरीतांगी पुरारिविरहाकुला

॥७०॥

इममघहरमागतानिशं स्वयमपि पूजयितुं तपोभिरीशम् ॥

अयमभिनवपल्लवप्रसूनः स्मरयति मां स्मरबन्धुरेकचूतः

॥७१॥

कथमिव विरहः शिवस्य सह्यः क्षुभितधियात्र भृशं मनोभवेन ॥

तदपि च तरुणेंदुचूडपादस्मरणमहौषधमेकमेव दृष्टम्

॥७२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्द्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन कांच्यां कंपास्थितैकाम्रतले तपश्चर्यार्थमागमनंनाम तृतीयोऽध्यायः ॥ ३ ॥