मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय ११

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 11

स तु सिंहस्थितां गौरीं ज्वलंती विविधायुधाम्

ब्रह्मोवाच

स तु सिंहस्थितां गौरीं ज्वलंती विविधायुधाम् ॥

शैलवर्षेण महता कुपितः समपूरयत्

॥१॥

शरवर्षेण महता तन्निवार्य विदूरतः ॥

बिभेद निशितैः शस्त्रैरशेषं तस्य विग्रहम्

॥२॥

भिद्यमानोऽपि दैत्येंद्रः शैलसारप्रदुर्धरः ॥

विषादं नागमत्किंचिद्ववृधे युद्धदुर्मदः

॥३॥

भिद्यमानः स खड्गेन चक्रैरसिभिर्ऋष्टिभिः ॥

शूलेन चायुधैश्चान्यैरंतर्धानमगाहत

॥४॥

ततः सिंहाकृतिर्भीमः प्रचंडनिनदाननः ॥

तीक्ष्णदंष्ट्रः शितनखः परिबभ्राम केसरी

॥५॥

देवीसिंहश्चपेटेन ताडयामास पाणिना ॥

दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत्

॥६॥

अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् ॥

तं हंतुं च बलाद्देवी वेगेन करमक्षिपत्

॥७॥

दीर्घाभिर्न्नीलरेखाभिः पूर्णः पिंगलविग्रहः ॥

यानावलिभिराकीर्णः स्वर्णाद्रिरिव संचरन्

॥८॥

मृगैरिव परित्रातुं मुच्यमानोऽग्रतो बली ॥

ज्वलंतमिव रोषाग्निं जिह्वाहेतिभिरावहन्

॥९॥

आगच्छंतं रयाद्देवी भल्लेन शशिवर्चसा ॥

प्रतिविव्याध तं व्याघ्रं पुरत्रयमिवेश्वरः

॥१०॥

स बाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः ॥

जगाहे गगनं भित्त्वा देहमस्य विनिर्गतः

॥११॥

स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् ॥

बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन्

॥१२॥

तं गजेंद्रं समायांतं मदक्लिन्नमहीतलम् ॥

देवीसिंहस्तदा दृष्ट्वा ननर्द च जघान च

॥१३॥

अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः ॥

वक्त्रं दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम्

॥१४॥

देवी च विलसत्खड्गचक्रचक्रलसत्करा ॥

युयोध तेन वीरेण भग्नशीर्षाभ्यपद्यत

॥१५॥

भूयः स माहिषं रूपमास्थायासुरमायया ॥

देव्या योद्धुं प्रववृते यथापूर्वमनाकुलम्

॥१६॥

अथ देवैमुनींद्रैश्च चोदितो गौतमो मुनिः ॥

प्रबोधयितुमारेभे स्तुतिभिर्जगदंबिकाम्

॥१७॥

त्वयि सर्वस्य जगतः प्राणशक्तिः परा मता ॥

ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते

॥१८॥

किमेतदद्य मोहाय युद्धमारभ्यते त्वया ॥

उपसंह्रियतामेष दैत्यो भुवनगुप्तये

॥१९॥

भिन्नानामस्य देहानामुपसंहरणात्तव ॥

वलयश्चोपदिश्यन्ते निगमोक्ता वरप्रदाः

॥२०॥

अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे ॥

कालाग्निवर्चसो देवि किमर्थं संभ्रमस्त्वियान्

॥२१॥

स्वशक्तिमवसंस्तभ्य समाकर्षयतां रिपोः ॥

प्राणशक्तिं त्रिशूलेन गुणत्रयवपुर्धृता

॥२२॥

इति स्म बोधितातेन पुरा भगवती तदा ॥

महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत्

॥२३॥

अनेकगिरिसंकाशं देव्या विग्रहमात्मनः ॥

अशक्तस्तं धारयितुं ससाद महिषासुरः

॥२४॥

निष्पिष्टो विलुठन्क्रोशन्नाक्रांतश्च परिस्फुरन् ॥

निर्गंतुमुद्गतशिरा न शशाकासुराधिपः

॥२५॥

त्रिशूलमुखभिन्नांगरक्तधारासमुद्धतः ॥

समुद्र इव संजातः संध्यारुणकलेवरः

॥२६॥

अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ॥

ननर्त्त तस्य शिरसि तिष्ठन्ती महिषार्दिनी

॥२७॥

दुर्गां सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः ॥

पुष्पवृष्टिश्च महती देवैर्मुक्ता समंततः ॥

प्रणतः प्रांजलिर्देवीं तुष्टाव विबुधाधिपः

॥२८॥

इन्द्र उवाच

नमस्ते जगतां मात्रे भूतानां बीजसंविदे

॥२९॥

भक्तिः श्रद्धा च भजतां शक्तिश्चासि त्वमंबिके ॥

कारणं परमा कीर्तिः शातिर्दांतिः कला क्षमा

॥३०॥

एकैव विश्वरूपा त्वं नामभेदेर्निगद्यसे ॥

तेषुतेषु पदेष्वस्मांस्तपोऽनुगुणसिद्धिषु

॥३१॥

नियुज्य शत्रुं निर्भिद्य शिवा ज्ञेया प्रकाशसे ॥

हतोयं महिषो दुष्टो विनिकृत्तश्च शांभवि

॥३२॥

छिन्नमेतस्य तु शिरः सजीवमिव लक्ष्यते ॥

रक्तनेत्रं तीक्ष्णशृगं ज्वलज्जिह्वं चलं शिरः

॥३३॥

आक्रम्य तव तिष्ठन्त्या रूपमेव सदास्तु नः ॥

चक्रशृंगधनुर्बाणखङ्गचर्मवराभयैः

॥३४॥

शूलघण्टांकुशकशाकपालकुलिशादिभिः ॥

अशेषदेवतामूर्तिरशेषैदेंवतायुधैः

॥३५॥

आपूरिता त्वमेवांब सर्वशत्रून्निहंसि नः ॥

आयुधानां सहस्राणि तन्मयास्ते विभूतयः

॥३६॥

त्वज्जितारातयः सर्वे विविधायुधवाहनाः ॥

रथनागहयैर्युक्ताः ससैन्या अपि भूभृतः

॥३७॥

क्षणेन दग्धवीर्याः स्युस्त्वत्प्रसादविवर्जिताः ॥

अपदोऽप्यल्पवीर्योऽपि त्वत्पादांबुजसेवकः

॥३८॥

त्रिलोकनाथतां प्राप्तः प्रथते कीर्तिमण्डितः ॥

तद्रूपमिदमत्युग्रं ध्यायतामर्चतां सदा

॥३९॥

न शत्रुभ्यो भयं किंचिद्भवेद्विजयशालिनाम् ॥

ईदृशं सर्वलोकेषु रूपं ते देववंदितम्

॥४०॥

पूज्यतामिष्टसिद्ध्यर्थं देवैर्भृत्यैश्च सर्वदा ॥

मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः

॥४१॥

सगणाः प्रतिपूज्यंतां सर्वस्थानेषु सर्वदा ॥

अयं च निहतो दैत्यस्त्वत्पादकृतलांछनः

॥४२॥

तव भक्तैः सदा पूज्यस्त्वत्प्रमादात्त्वदग्रतः ॥

इत्थं सुरेन्द्रप्रणुता सर्वर्षिसुरसेविता

॥४३॥

तथेति वरदा देवी ससर्ज च दिवं प्रति ॥

स्वयमप्यात्मनस्तत्र तद्रूपं विविधायुधम्

॥४४॥

संस्थाप्य मातृभिः सार्धं स्थानरक्षणमातनोत् ॥

संगृह्य विमलं रूपं सखीजनसमावृता

॥४५॥

महिषस्य शिरोऽपश्यद्विकृतं खङ्गधारया ॥

कथयन्ती पुनस्तस्य चित्रं लोकविभूषणम्

॥४६॥

सखीभिः सह सा बाला कण्ठं तस्य व्यलोकयत् ॥

अपश्यच्च तदा लिगं कर्त्तुं तस्य च पूजनम्

॥४७॥

आदत्त सहसा गौरी लिगं तस्य गले स्थितम् ॥

आलोकयच्च सुचिरं रक्तधारापरिप्लुतम्

॥४८॥

आसज्जत पुनर्लिंगमस्याः पाणितलं गतम् ॥

विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमंजसा

॥४९॥

अचिंतयच्च सा देवी किमेतदिति विस्मयात् ॥

विषादेन च संयुक्ता महर्षीणां पुरः स्थिता

॥५०॥

आहतः शिवभक्तोऽयमिति शोकं समाविशत् ॥

अगर्हत भृशं मौढ्यमात्मनः स्त्रीस्वभावजम्

॥५१॥

अविचार समारब्धं शिवभक्तनिबर्हणम् ॥

उपतापपरीतांगी गौतमं मुनिसत्तमम्

॥५२॥

उपगम्याब्रवीद्बाला साहसं कृतमात्मना ॥

भगवन्सर्वधर्मज्ञ गौतमार्य मुनीश्वर

॥५३॥

मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः ॥

देवानां रक्षणं कर्तुमभयं दातुमुद्यता

॥५४॥

अज्ञानान्महिषं दैत्यं शिवभक्तिममर्दयम् ॥

रजसाक्रान्तबुद्धीनां न भवेद्धर्मसंग्रहः

॥५५॥

गुरुप्रसादसुलभः स्फुरद्विघ्नशताकुलः ॥

सुदुर्धर्षा निराचारदुर्दमाः शिवसंश्रयाः

॥५६॥

विशेषतो लिंगधराः शिवस्तान्बहु मन्यते ॥

पुरा पुरत्रयावासा दैतेया लिंगधारका

॥५७॥

अजिताः शंभुना पूर्वं मुक्तलिंगा निषूदिताः ॥

अस्य कंठस्थितं लिंगं मम पाणिं न मुंचति

॥५८॥

कथं पापं निरस्यामि शिवभक्तवधाश्रितम् ॥

अस्य कंठस्थितं लिंगं धारयंती तपोन्विता

॥५९॥

तीर्थयात्रां करिष्यामि यावच्छंभुः प्रसीदति ॥

पुनः कैलासमुख्येषु शंभुस्थानेषु भूरिषु

॥६०॥

तीर्थेषु रचितस्नाना लप्स्ये पापविशोधनम् ॥

इति तस्याः परिश्रांतिं दुर्धर्मपरिशंकया

॥६१॥

आकर्ण्य शिवधर्मज्ञो भयार्त्तां तामवोचत ॥

मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति

॥६२॥

धर्मसूक्ष्मार्थवेत्तारौ दुर्लभा गिरिकन्यके ॥

सदा शिवस्य वदनैः सद्योजातादि संश्रितैः

॥६३॥

आगमाः पंचभिः प्रोक्ता अष्टाविंशतिकोटयः ॥

निर्णयाः शिवभक्तानां शिवमार्गस्य शोभनाः

॥६४॥

तेषुतेषु मुनींद्रैश्च नत्वैव प्रतिपद्यते ॥

कालो मुखं च कंकालं शैवं पाशुपतं तथा

॥६५॥

महाव्रतं पंच चैताः शिवमार्गप्रवृत्तयः ॥

भेदाश्च बहवस्तेषामन्योन्यस्य शिवे रताः

॥६६॥

साध्य एको हि बलवान्सर्वैस्तैरनिशं शिवः ॥

सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः

॥६७॥

अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः ॥

वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः

॥६८॥

आराध्यते महादेवः सर्वदा सर्वदायकः ॥

जीवहिंसा न कर्त्तव्या विशेषण तपस्विभिः

॥६९॥

शिवधर्मस्य भेत्तारो निहंतव्यास्तथांजसा ॥

न वेषजुषि वीक्षेत न लिगं नैव संभवम्

॥७०॥

शिवधर्मस्य भेत्तारं हन्यादेवाविचारयन् ॥

बहुभिः स्फूर्तया बुद्ध्या धर्मविद्भिर्निरूपिते

॥७१॥

शिवधर्मस्य विलये सद्यः शक्तिः प्रवर्तते ॥

अस्य कर्म पुनर्दिष्टं लिंगमैश्वर्यचर्चितम्

॥७२॥

न जेतुं शक्यते देवि तेनासौ सर्वदैवतैः ॥

यदयं निहतो देवि त्वया शंकरमान्यया

॥७३॥

आक्रांतः शापदोषेण महर्षीणां शिवाश्रयात् ॥

अथ ते कुपितास्तस्य वैषम्यादवमानतः

॥७४॥

शेपुर्महिषवद्दुष्टो महिषोऽयं भवत्विति ॥

ततस्तद्वचनात्सद्यो महिषोऽभूत्क्षणात्तथा

॥७५॥

प्रणम्य तोषयामास ययाचे शापमोचनम् ॥

दत्त्वा प्रकामरूपत्वं ददुरस्मै प्रसादिताः

॥७६॥

महिषत्वेपि संहारं स्वयं देव्या शिवाज्ञया ॥

विषादो न च कर्त्तव्यो अंगदर्शनतस्त्वया

॥७७॥

सिद्धानां शिवरूपाणामवज्ञा कं न बाधते ॥

महिषत्वे समुत्पन्ने दोषेण समुपस्थिते

॥७८॥

सिद्धप्रसादाल्लब्धोऽयं शापनाशस्त्वया कृतः ॥

सर्वे लोकाश्च संत्राता दुष्टोयं परिरक्षितः

॥७९॥

शापदोषसमुत्पन्ने महिषत्वे विमोचिते ॥

त्वया च गिरिशप्रीत्यै तपः कुर्वाणयाद्रिजे

॥८०॥

द्रष्टव्यं तैजसं लिंगमरुणाचलसंज्ञितम् ॥

पूर्वजन्मनि भक्तोऽयमरुणाद्रिपतेः स्फुटम्

॥८१॥

महिषत्वे मदाक्रांतः परं लिंगेन संगतः ॥

भक्त्या लिंगधरं हंतुं कः समर्थो जगत्त्रये

॥८२॥

दृष्टाः पुरत्रये पूर्वं रुद्रेण पूजितास्त्रयः ॥

त्वत्खड्गपरिकृत्तेन कंठेनास्य वरानने

॥८३॥

दीक्षादिरहितं लिंगं दत्तं हंतीति चोदितम् ॥

कृतं हि महिषेणापि भक्तितो लिंगधारणम्

॥८४॥

कदाचित्क्षपणोक्तानां विभाषात्प्रत्ययं गतः ॥

पूर्वजन्मतपोयोगात्स्मरणो लिंगधारणात्

॥८५॥

त्वत्पादपद्मसंस्पर्शादयं मुक्तो न संशयः ॥

मदुक्तनिष्कृतीनां तु पातकानां च नाशनम्

॥८६॥

दर्शनं शैलवर्यस्य प्रायश्चित्तं परं मतम् ॥

संस्थाप्य विविधाञ्छैवाञ्छिवसिद्धांतवेदिनः

॥८७॥

आवाह्य सर्वतीर्थानि सर्वदोषनिवृत्तये ॥

सरः किमपि संपाद्य स्नात्वा तत्र वरानने

॥८८॥

अघमर्षणसंयुक्ता सलिंगा स्नानमाचर ॥

त्रिसंध्यं चैव मासांते देवयागमहोत्सवे

॥८९॥

आराधयोपचारैस्त्वमरुणाद्रिमयं शिवम्

॥९०॥

एवं तस्य मुनेर्निशम्य वचनं शैवार्थसंभावितं प्रीता देवनमस्कृता गिरिसुता देवी जगद्रक्षिका ॥

शैवं धर्ममिमं विधातुमुचितं शोणाचलस्याग्रतस्तीर्थागाहनबुद्धिमाशु विदधे कर्तुं त्वघक्षालनम्

॥९१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे महिषासुरवधोत्तरं देवीपाणौ महिषासुरशिरःसंलग्रतावृत्तांतवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥