ब्रह्मपुष्करमाहात्म्यवर्णनम्
ब्रह्मोवाच
अरण्याद्गौतमं शांतमुटजद्वार आगतम् ॥
प्रत्याधातुं प्रववृते शिवभक्तिर्जगन्मयी
॥१॥आलुलोके समायातं गौतमं शिष्यसेवितम् ॥
लंबमानशिरःश्मश्रुसम्पूर्णमुखमण्डलम्
॥२॥जटाभिरतिताम्राभिस्तीर्थस्नानविशुद्धिभिः ॥
न्यस्तरुद्राक्षमणिभिर्ज्वालाभिरिव पावकम्
॥३॥भस्मत्रिपुण्ड्रकोपेतविशालनिटिलोज्वलम् ॥
शुक्लयज्ञोपवीतेन पूर्णं रुद्राक्षदामभिः
॥४॥दधानं वल्कले रक्ते तपः कृशितविग्रहम् ॥
जपंतं वैदिकान्मंत्रान्रुद्रप्रीतिकरान्बहून्
॥५॥शम्भुनावसितोदात्तसारूप्यमिव भाषितम् ॥
तेजोनिधिं दयापूर्णं प्रत्यक्षमिव भास्करम्
॥६॥आलोक्य तं महात्मानं वृद्धं शंभुपदाश्रयम् ॥
कृतांजलिपुटा गौरी प्रणन्तुमुपचक्रमे
॥७॥कृतांजलिं मुनिर्वीक्ष्य समस्तजगदम्बिकाम् ॥
किमेतदिति साश्चर्यं वारयन्प्रणनाम सः
॥८॥स्वागतं गौरि सुभगे लोकमातर्दयानिधे ॥
व्याजेन भक्तसंरक्षां कर्तुमत्रागतास्यहो
॥९॥अहो मान्ये मान्यमर्थं विज्ञायैव पुरा वयम् ॥
पृथग्भावमिवालंब्य शिष्यादिभिः समागताः
॥१०॥यद्देवि ते न चेत्किंचिन्मायाविलसितन्निजम् ॥
ततः प्रपंचसंसिद्धिः कथमेव भविष्यति
॥११॥तिष्ठत्वशेषं मे वक्तुं मायाविलसितं तव ॥
न शक्यते यन्निर्णेतुं त्वदीयैश्च कदाचन
॥१२॥आस्यतां पावने शुद्धं आसने कुशनिर्मिते ॥
गृह्यतां पाद्यमर्घं च दत्तं च विधिवन्मया
॥१३॥इति शिष्यैः समानीते दर्भांके परमासने ॥
आसीनामंबिकां वृद्धो मुनिरानर्च भक्तिमान्
॥१४॥निवेद्य सकलां पूजां भक्तिभावसमन्वितः ॥
गौर्या समभ्यनुज्ञातः स्वयमप्यासने स्थितः
॥१५॥उवाच दशनज्योत्स्नापरिधौतदिशामुखः ॥
पुलकांचितसर्वांगः सानंदाश्रु सगद्गदम्
॥१६॥अहो देवस्य माहात्म्यं शम्भोरमिततेजसः ॥
सद्भक्त रक्षणाय त्वामादिशद्भक्तवत्सलः
॥१७॥असिद्धमन्यल्लब्धव्यं किं वान्यत्तव विद्यते ॥
अम्बैतद्भक्तिमाहात्म्यं संदर्शयितुमीश्वरः
॥१८॥कैलासशैलवृत्तांतः कंपातटतपःस्थितः ॥
अरुणाद्रिसमादेशः सर्वं ज्ञातमिदं मया
॥१९॥आगतासि महाभागे भक्ताश्रममिमं स्वयम् ॥
स्नेहेन करुणामूर्ते कर्त्तव्यमुपदिश्यताम्
॥२०॥इति तस्य वचः श्रुत्वा महर्षेः सर्ववेदिनः ॥
अंबिका प्राह कुतुकात्स्तुवन्ती तं महामुनिम्
॥२१॥महावैभवमेतत्ते देवदेवः स्वयं शिवः ॥
मध्ये तपस्विनां त्वं तु द्रष्टव्य इति चादिशत्
॥२२॥आगमानां शिवोक्तानां वेदानामपि पारगः ॥
तपसा शंभुभक्तानां त्वमेव शिवसंमतः
॥२३॥अरुणाचल नाम्नाहं तिष्ठामीत्यब्रवीच्छिवः ॥
अस्याचलस्य माहात्म्यं श्रोतव्यं च भवन्मुखात्
॥२४॥प्राप्तास्म्यहं तपः कर्तुमरुणाचलसन्निधौ ॥
भवतां दर्शनादेव स्वयमीशः प्रसीदति
॥२५॥शिवभक्तेन संभाषा शिवसंकीर्त्तनश्रवः ॥
शिवलिंगार्चनं लोके वपुर्ग्रहफलोदयः
॥२६॥तस्मान्ममैतन्माहात्म्यं श्रोतव्यं भवतो मुखात् ॥
सुव्यक्तमुपदेशेन ज्ञानतोऽसि पिता मम
॥२७॥इति तस्या वचः श्रुत्वा गौतमस्तपसां निधिः ॥
आचख्यौ गिरिशं ध्यायन्नरुणाचलवैभवम्
॥२८॥अज्ञातमिव यत्किंचित्पृच्छ्यते च पुनस्त्वया ॥
अवैमि सर्वविद्यानां माया शैवी त्वमेव सा
॥२९॥अथवा भक्तवक्त्रेण शिववैभवसंश्रवः ॥
शिक्षणं शांभवं तेषां तव तुष्टेश्च कारणम्
॥३०॥पठितानां च वेदानां यदावृत्तफलावहम् ॥
वदतां शृण्वतां लोके शिवसंकीर्त्तनं तथा
॥३१॥सफलान्यद्य सर्वाणि तपांसि चरितानि मे ॥
यदहं शंभुनादिष्टं माहात्म्यं कीर्त्तये श्रुतम्
॥३२॥शिवाशिवप्रसादेन माहात्म्यमिदमद्भुतम्
॥३३॥अरुणाचलमाहात्म्यं दुरितक्षयकारणम् ॥
श्रूयतामनवद्यांगि पुरावृत्तमिदं महत्
॥३४॥अरुणाद्रिमयं लिंगमाविर्भूतं यथा पुरा ॥
न शक्यते पुनर्वक्तुमशेषं वक्त्रकोटिभिः
॥३५॥अरुणाचलमाहात्म्यं ब्रह्मणामपि कोटिभिः ॥
ब्रह्मणा विष्णुना पूर्वं सोमभास्करवह्निभिः
॥३६॥इन्द्रादिभिश्च दिक्पालैः पूजितश्चाष्टसिद्धये ॥
सिद्धचारणगंधर्व यक्षविद्याधरोरगैः
॥३७॥खगैश्च मुनिभिर्दिव्यैः सिद्धयोगिभिरर्चितः ॥
तत्तत्पापनिवृत्त्यर्थं तत्तदीप्सितसिद्धये
॥३८॥आराधितोऽयं भगवानरुणाद्रिपतिः शिवः ॥
दृष्टो हरति पापानि सेवितो वांछितप्रदः
॥३९॥कीर्तितोपि जनैर्दूरैः शोणाद्रिरिति मुक्तिदः ॥
तेजःस्तंभमयं रूपमरुणाद्रिरिति श्रुतम्
॥४०॥ध्यायन्तो योगिनश्चित्ते शिवसायुज्यमाप्नुयुः ॥
दत्तं हुतं च यत्किंचिज्जप्तं चान्यत्तपः कृतम्
॥४१॥अक्षय्यं भवति प्राप्तमरुणाचलसंनिधौ ॥
पुरा ब्रह्मा च विष्णुश्च शिवतेजोंशसंभवौ
॥४२॥साहंकारौ युयुधतुः परस्परजिगीषया ॥
तथा तयोर्गर्वशांत्यै योगिध्येयः सदाशिवः
॥४३॥अग्नितेजोमयं रूपमादिमध्यांतवर्जितम् ॥
संप्राप्य तस्थौ तन्मध्ये दिशो दश विभासयन्
॥४४॥तेजःस्तंभस्य तस्याथ द्रष्टुमाद्यंतभागयोः ॥
हंसक्रोडतनू कृत्वा जग्मतुर्द्यां रसातलम्
॥४५॥तौ विषण्णमुखौ दृष्ट्वा भगवान्करुणानिधिः ॥
आविर्बभूव च तयोर्वरं प्रादादभीप्सितम्
॥४६॥तत्प्रार्थितश्च देवेशो यातः स्थावरलिंगताम् ॥
अरुणाद्रिरिति ख्यातः प्रशांतः संप्रकाशते
॥४७॥दिव्यदुन्दुभिनिर्घोषैरप्सरोगीतनर्त्तनैः ॥
पूज्यते तैजसं लिंगं पुष्पवृष्टिशतैः सदा
॥४८॥ब्रह्मणामप्यतीतानां पुरा षण्णवतेः प्रभुः ॥
विष्णुनाभिसमुद्भूतो ब्रह्मा लोकान्ससर्ज हि
॥४९॥स कदाचित्तपोविघ्नं कर्तुकामेन योगिनाम् ॥
इंद्रेण प्रार्थितो ब्रह्मा ससर्ज ललितां स्त्रियम्
॥५०॥लावण्यगुणसंपूर्णामालोक्य कमलेक्षणाम् ॥
मुमोह कंदर्पशरैः स विद्धहृदयो विधिः
॥५१॥स्प्रष्टुकामं तमालोक्य ब्रह्माणं कमलासनम् ॥
नत्वा प्रदक्षिणव्याजाद्गंतुमैच्छद्वराप्सराः
॥५२॥अस्यां प्रदक्षिणां भक्त्या कुर्वाणायां प्रजापतेः ॥
चतसृभ्योऽपि दिग्भ्योऽस्य मुखान्युदभवन्क्षणात्
॥५३॥सा बाला पक्षिणी भूत्वा गगनं समगाहत ॥
पुनश्च खगरूपेण समायांतं समीक्ष्य सा
॥५४॥शरणं याचमाना सा शोणाद्रिमिममाश्रयत् ॥
ब्रह्मणा विष्णुना च त्वमदृष्टपदशेखरः
॥५५॥रक्ष मामरुणाद्रीश शरण्य शरणागताम् ॥
इति तस्यां भयार्त्तायां क्रोशंत्यामरुणाचलात्
॥५६॥उदभूत्स्थावराल्लिंगाद्व्याधः कश्चिद्धनुर्द्धरः ॥
संधाय सायकं चापे समेघगगनद्युतिः
॥५७॥निषादे पुरतो दृष्टे मोहस्तस्य ननाश हि ॥
ततः प्रसन्नहृदयोतिनम्रः कमलोद्भवः
॥५८॥नमश्चक्रे शरण्याय शोणाद्रिपतये तदा ॥
सर्वपापक्षयकृते नमस्तुभ्यं पिनाकिने
॥५९॥अरुणाचलरूपाय भक्ववश्याय शंभवे ॥
अजानतां स्वभक्तानामकर्मविनिवर्त्तने
॥६०॥त्वदन्यः कः प्रभुः कर्तुमशक्यं चापि देहिनाम् ॥
उपसंहर मे देहं तेजसा पापनिश्चयम्
॥६१॥अन्यं वा सृज विश्वात्मन्ब्रह्माणं लोकसृष्टये ॥
अथ तस्य वचः श्रुत्वा शिवो दीनस्य वेधसः
॥६२॥उवाच करुणामूर्तिर्भूत्वा चंद्रार्द्धशेखरः ॥
दत्तः कालस्तव मया पुरैव न निवर्त्यते
॥६३॥कं वा रागादयो दोषा न बाधेरन्प्रभुस्थितम् ॥
तस्माद्दूरस्थितोऽप्येतदरुणाचलसंज्ञितम्
॥६४॥भजस्व तैजसं लिंगं सर्वदोषनिवृत्तये ॥
वाचिकं मानसं पापं कायिकं वा च यद्भवेत्
॥६५॥विनश्यति क्षणात्सर्वमरुणाचलदर्शनात् ॥
प्रदक्षिणा नमस्कारैः स्मरणैरर्चनैः स्तवैः
॥६६॥अरुणाद्रिरयं नृणां सर्वकल्मषनाशनः ॥
कैलासे मेरुशृंगे वा स्वस्थानेषु कलाद्रिषु
॥६७॥संदृश्यः कश्चिदेवाहमरुणाद्रिरयं स्वयम् ॥
यच्छृंगदर्शनान्नॄणां चक्षुर्लाभेन केवलम्
॥६८॥भवेत्सर्वाघनाशश्च लाभश्च ज्ञानचक्षुषः ॥
मदंशसंभवो ब्रह्मा स्वनाम्ना ब्रह्मपुष्करे
॥६९॥अत्र स्नातः पुरा ब्रह्मन्मोहोऽगाज्जगतीपतेः ॥
स्नात्वा त्वं ब्रह्मतीर्थे मां समभ्यर्च्य कृतांजलिः
॥७०॥मौनी प्रदक्षिणं कृत्वा विश्वात्मन्भव विज्वरः
॥७१॥इति वचनमुदीर्य विश्वनाथं स्थितमरुणाचलरूपतो महेशम् ॥
अथ सरसि निमज्य पद्मजन्मा दुरितहरं समपूजयत्क्रमेण
॥७२॥इममरुणगिरीशमेष वेधा यमनियमादिविशुद्धचित्तयोगः ॥
स्फुटतरमभिपूज्य सोपचारं गतदुरितोऽथ जगाम चाधिपत्यम्
॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मपुष्करमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः ॥ ५ ॥