मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय ९

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 9

पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनम्

गौतम उवाच

भगवन्नरुणाद्रीश नामधेयानि ते भृशम् ॥

विशेषाच्छ्रोतुमिच्छामि स्थानेऽस्मिन्सुरपूजिते

॥१॥

महेश्वर उवाच

नामानि शृणु मे ब्रह्मन्मुख्यानि द्विजसत्तम ॥

दुर्लभान्यल्पपुण्यानां कामदानि सदा भुवि

॥२॥

शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ॥

प्रपन्नरक्षको धीरः शिवसेवकवर्धकः

॥३॥

अक्षिपेयामृतेशानः स्त्रीपुंभावप्रदायकः ॥

भक्तविज्ञप्तिसंधाता दीनबंदिविमोचकः

॥४॥

मुखरांघ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ॥

भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्त्तकः

॥५॥

ज्ञानसंबंधनाथश्च श्रीहलाहलसुंदकः ॥

आहवैश्वर्यदाता च स्मर्तृसर्वाघनाशनः

॥६॥

व्यत्यस्तनृत्यद्धृजधृक्सकांतिर्नटनेश्वरः ॥

सामप्रियः कलिध्वंसी वेदमूर्तिर्निरंजनः

॥७॥

जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरांतकः ॥

भक्तापराधसोढा च योगीशो भोगनायकः

॥८॥

बालमूर्त्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ॥

हरो गिरीश्वरो भर्गश्चंद्ररेखावतंसकः

॥९॥

स्मरांतकोंऽधकरिपुः सिद्धराजो दिगंबरः ॥

आगमप्रिय ईशानो भस्मरुद्राक्षलांछनः

॥१०॥

श्रीपतिः शंकरः स्रष्टा सर्वविद्येश्वरोऽनघः ॥

गंगाधरः क्रतुध्वंसो विमलो नागभूषणः

॥११॥

अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ॥

अनादिरंतरहितः शिवकामः स्वयंप्रभुः

॥१२॥

सच्चिदानंदरूपश्च सर्वात्मा जीवधारकः ॥

स्त्रीसंगवामसुभगो विधिर्विहितसुंदरः

॥१३॥

ज्ञानप्रदो मुक्तिदश्च भक्तवांछितदायकः ॥

आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः

॥१४॥

शूली पशुपतिः शंभुः स्वयंभुर्गिरिशो मृडः ॥

एतानि मम मुख्यानि नामान्यत्र महामुने

॥१५॥

अन्यानि दिव्यनामानि पुराणोक्तानि संस्मर ॥

प्रदक्षिणेन मां नित्यं विशेषात्त्वं समर्चय

॥१६॥

प्रदक्षिणप्रियो यस्मादहं शोणाचलाकृतिः ॥

इत्याज्ञप्तो महादेवमर्चयन्नरुणाचलम् ॥

अविमुंचन्निहावासं कृतवानहमद्रिजे

॥१७॥

गौर्युवाच

भगवन्सर्वधर्मज्ञ गौतमार्य्य मुनीश्वर ॥

प्रदक्षिणस्य माहात्म्यं ब्रूहि मे शोणभूभृतः

॥१८॥

कस्मिन्काले कथं कार्यं कैर्वा पूर्वं प्रदक्षिणम् ॥

कृतं शोणाद्रिनाथस्य प्राप्तमिष्टं परं पदम्

॥१९॥

ब्रह्मोवाच

इति पृष्टो मुनिः प्राह गौतमः शैलकन्यकाम् ॥

श्रूयतां देवि माहात्म्यमादिशन्मे महेश्वरः

॥२०॥

महादेव उवाच

अहं हि शोणशैलात्मा प्रकाशो वसुधातले

॥२१॥

परितो मां सुराः सर्वे वर्तंते मुनिभिः सह

॥२२॥

यानि कानि च पापानि जन्मांतरकृतानि च ॥

तानि तानि विनश्यंति प्रदक्षिणपदे पदे

॥२३॥

अश्वमेधसहस्राणि वाजपेयायुतानि च ॥

सिद्ध्यंति सर्वतीर्थानि प्रदक्षिणपदे पदे

॥२४॥

अपि प्रहीणस्य समस्तलक्षणैः क्रियाविहीनस्य निकृष्टजन्मनः ॥

प्रदक्षिणीकृत्य शशांकशेखरं प्रयास्यतः कस्य न सिद्धिरग्रतः

॥२५॥

समस्त तीर्थाभिगमेषु पुण्यं समस्तयज्ञागमधर्मजातम् ॥

अवाप्यते शोणमहीधरस्य प्रदक्षिणाप्रक्रमणेन सत्यम्

॥२६॥

पदेनैकेन भूलोकं द्वितीयेनांतरिक्षकम् ॥

तृतीयेन दिवं मर्त्यो जयत्यस्य प्रदक्षिणे

॥२७॥

एकेन मानसं पापं द्वितीयेन तु वाचिकम् ॥

कायिकं तु तृतीयेन पदेन क्षीयते नृणाम्

॥२८॥

पातकानि च सर्वाणि पदेनैकेन मार्जयेत् ॥

द्वितीयेन तपः सर्वं प्राप्नोत्यस्य प्रदक्षिणात्

॥२९॥

पर्णशाला महर्षीणां सिद्धानां च सहस्रशः ॥

सुराणां च तथाऽऽवासा विद्यंतेत्र सहस्रशः

॥३०॥

अत्र सिद्धः पुनर्नित्यं वसाम्यग्रे सुरार्चितः ॥

ममांतरे गुहा दिव्या ध्यातव्या भोगसंयुता

॥३१॥

अग्निस्तंभमयं रूपमरुणादिरिति श्रुतम् ॥

ध्यायँल्लिंगं मम बृहत्मन्दं कुर्यात्प्रदक्षिणम्

॥३२॥

अष्टमूर्तिमयं लिंगमिदं यैस्तैजसं भृशम् ॥

ध्यात्वा प्रदक्षिणं कुर्वन्पातकानि विनिर्दहेत्

॥३३॥

न पुनः संभवस्तस्य यः करोति प्रदक्षिणाम् ॥

शोणाचलाकृतेर्नित्यं नित्यत्वं ध्रुवमश्नुते

॥३४॥

अस्य पादरजःस्पर्शात्पूयते सकला मही ॥

पदमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे

॥३५॥

नमस्कुर्वन्प्रतिदिशं ध्यायन्स्तौति कृतांजलिः ॥

असंसृष्टकरः कैश्चिन्मंदं कुर्यात्प्रदक्षिणम्

॥३६॥

आसन्नप्रसवा नारी यथा गच्छेदनाकुलम् ॥

तथा प्रदक्षिणं कुर्यादशृण्वंश्च पदध्वनिम्

॥३७॥

स्नातो विशुद्धवेषः सन्भस्मरुद्राक्षभूषितः ॥

शिवस्मरणसंसृष्टो मंदं दद्यात्पदं बुधः

॥३८॥

मनूनां चरतामग्रे देवानां च सहस्रशः ॥

अदृश्यानां च सिद्धानां नान्येषां वायुरूपिणाम्

॥३९॥

संघट्टमतिसंमर्दं मार्गरोधं विचिंतयन् ॥

अनुकूलेन भक्तः सञ्छनैर्दद्यात्पदं बुधः

॥४०॥

अथवा शिवनामानि संकीर्त्य वरगीतिभिः ॥

शिवनृत्यं च रचयन्भक्तैः सार्द्धं परिक्रमेत्

॥४१॥

माहात्म्यं मम वा शृण्वन्ननन्यमतिरादरात् ॥

शनैः प्रदक्षिणं कुर्यादानन्दरसनिर्भरः

॥४२॥

दानैश्च विविधैः पुण्यैरुपकारैस्तथार्थिनाम् ॥

यथामति दयापूर्ण आस्तिकः परितो व्रजेत्

॥४३॥

कृते त्वग्निमयं लिंगं त्रेतायां मणिपर्वतम् ॥

द्वापरे चिंतयेद्धैमं कलौ मरकताचलम्

॥४४॥

अथवा स्फाटिकं रूपमरुणं तु स्वयंप्रभम् ॥

ध्यायन्विमुक्तः सकलैः पापैः शिवपुरं व्रजेत्

॥४५॥

अवाङ्मनसगम्यत्वादप्रमेयतया स्वयम् ॥

अग्नित्वाच्च परं लिंगमनासाद्याचलाभिधम्

॥४६॥

ध्यात्वा प्रदक्षिणं कर्तुरभिगम्योऽहमंजसा ॥

तस्य पादरजो नृणामजरामरकारणाम्

॥४७॥

रूपमेकं तु धत्ते यः शोणाद्रीशप्रदक्षिणे ॥

वाहनानि सुरौघाणां प्रार्थयंते परस्परम्

॥४८॥

कुर्वतां चरणं वोढुमरुणाद्रिप्रदक्षिणाम् ॥

छायाप्रदानं कुर्वंति कल्पकाद्याः सुरद्रुमाः

॥४९॥

कुर्वतां भुवि मर्त्त्यानामरुणाद्रिप्रदक्षिणाम् ॥

देवगन्धर्वकाद्यानां सहस्रेण समावृताः

॥५०॥

सेवंते ते गणाकीर्णा विमानशतकोटयः ॥

मम प्रदक्षिणं भूमौ कुर्वतां पादपांसुभिः

॥५१॥

पाविता महती वीथी दृष्टा शिवपदप्रदा ॥

अंगप्रदक्षिणं कुर्वन्क्षणात्स्वर्ग्यतनुर्भवेत्

॥५२॥

प्राप्तो वज्रशरीरत्वं न धृष्येत महीतले ॥

व्योमयानोत्सुका देवाः सिद्धाश्च परमर्षयः

॥५३॥

अदृश्याः संचरंत्यत्र पश्यंते मम संनिधिम् ॥

विनयं मम भक्तिं च प्रदक्षिणपरिक्रमे

॥५४॥

दृष्ट्वा हर्षसमायुक्ता मर्त्त्येभ्यो ददते वरम् ॥

अत्र देवास्त्रयस्त्रिंशत्पुरा कृत्वा प्रदक्षिणाम्

॥५५॥

प्रत्यहं मार्गमासीनाः प्रत्येकं कोटितां गताः ॥

आदित्याद्या ग्रहाः सर्वे पुरा कृत्वा प्रदक्षिणाम्

॥५६॥

संपूर्णजगतीभागे सर्वे ग्रहपतां गताः ॥

यः करोति नरो भूमौ सूर्यवारे प्रदक्षिणाम्

॥५७॥

स सूर्यमडलं भित्त्वा मुक्तः शिवपुरं व्रजेत् ॥

सोमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम्

॥५८॥

अजरामरतां प्राप्तो नासौम्यो भवति क्षितौ ॥

भौमवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम्

॥५९॥

आनृण्यमखिलं प्राप्य सार्वभौमो भवेद्ध्रुवम् ॥

बुधवारे नरः कुर्वञ्छोणाद्रीशप्रदक्षिणाम्

॥६०॥

सर्वज्ञतामनुप्राप्तः स वाचां पतितामियात् ॥

गुरुवारे नरः कुर्वन्सर्वदेवनमस्कृतः

॥६१॥

प्रदक्षिणेन शोणाद्रेः स तु लोकगुरुर्भवेत् ॥

भृगुवारे नरः कुर्वन्नरुणाद्रिप्रदक्षिणाम्

॥६२॥

संप्राप्य महतीं लक्ष्मीं लभते वैष्णवं पदम् ॥

मन्दवारे नरः कृत्वा शोणाद्रीशप्रदक्षिणाम्

॥६३॥

विमुक्तो ग्रहपीडाभिः स विश्वविजयी भवेत् ॥

नक्षत्राणि च सर्वाणि पुरा तद्दैवतैः सह

॥६४॥

मम प्रदक्षिणां कर्तुः पुण्यानि सहसा व्रजेत् ॥

तिथयः करणानीह योगाश्च मम संमताः

॥६५॥

अभीष्टफलदा जाताः कुर्वतां मत्प्रदक्षिणाम् ॥

मुहूर्ता विविधा होराः सौम्याश्च सततोदयाः

॥६६॥

मत्प्रदक्षिणकर्तॄणां जायंते सततं शुभाः ॥

प्रच्छिनत्ति प्रकारोऽघं दकारो वांछितप्रदः

॥६७॥

क्षिकारात्क्षीयते कर्म णकारो मुक्तिदायकः ॥

दुर्बलाः कार्श्यसंयुक्ता आधिव्याधिविजृंभिताः

॥६८॥

मम प्रदक्षिणं कृत्वा मुच्यंते सर्वदुष्कृतैः ॥

मम प्रदक्षिणं कर्तुर्भक्त्या पादेन संततम्

॥६९॥

क्षणेन साध्वां पश्यामि त्रैलोक्यस्य प्रदक्षिणाम् ॥

लोकेशाश्च दिगीशाश्च ये चान्ये कारणेश्वराः

॥७०॥

मम प्रदक्षिणां कृत्वा स्थिरा राज्ये पुराऽभवन् ॥

अहं च गणसंयुक्तः सर्वदेवर्षिसंयुतः

॥७१॥

उत्तरायणसंयोगे करोमि स्वप्रदक्षिणाम् ॥

मद्रूपं तैजसं लिंगमरुणाद्रिरिति श्रुतम्

॥७२॥

त्रैलोक्यस्य हितार्थाय करिष्यामि प्रदक्षिणाम् ॥

आगता च परांते च गौरी तप इहाद्भुतम्

॥७३॥

कर्तुं प्रदक्षिणं कृत्वा मामेष्यत्यनघा पुनः ॥

कार्तिके मासि नक्षत्रे कृत्तिकाख्ये महातपाः

॥७४॥

मम प्रदक्षिणां गौरी प्रदोषे रचयिष्यति ॥

नराणामल्पपुण्यानां दुर्लभं तत्प्रदक्षिणम्

॥७५॥

ज्योतिर्लिगस्य दृष्टस्य देवी प्रार्थनया तथा ॥

मया समेता देवी सा प्राप्ताऽपीतकुचाभिधा

॥७६॥

आश्वास्यति सुरान्सर्वानुत्तरायणसंगमे ॥

देवगन्धर्वयक्षाणां सिद्धानामपि रक्षसाम्

॥७७॥

सर्वेषां देवयोनीनां भविता तत्र संगमः ॥

ये तदा मां समागत्य पूजयंति तपोधिकाः

॥७८॥

सर्वजन्मकृताघौघ प्रायश्चित्तं व्रजंति ते ॥

दुर्ल्लभं तद्दिनं पुंसामुत्तरायणसंगमे

॥७९॥

तदा मद्रूपमभ्यर्च्य कृतार्थाः सन्तु मानवाः ॥

प्रदक्षिणं तु मे दिव्यं कुर्वंति च महीभुजः

॥८०॥

तेषां पुरोगतः साक्षादहं जेष्यामि विद्विषः ॥

राजा यस्य तु देशस्य यो यो राजा तपोधिकः

॥८१॥

स कारयेद्विप्रमुख्यैः श्रोत्रियैर्मे प्रदक्षिणाम् ॥

मंडलं मंडलार्द्धं वा संकल्पविधिपूर्वकम्

॥६२॥

तस्य तस्य स्थिरं राज्यं शत्रूणां च पराहतिम् ॥

करिष्यामि मुने नित्यमहमेव पुरःस्थितः

॥८३॥

न वाहनेन कुर्वीत मम जातु प्रदक्षिणाम् ॥

धर्मलुब्धमना जानञ्छिवाचारपरिप्लुतिम्

॥८४॥

धर्मकेतुः पुरा राजा यमलोकादुपागतः ॥

मम प्रदक्षिणां कर्त्तुं तुरगेणाभ्यरोचयत्

॥८५॥

क्षणेन तुरगो जातो गणनाथः सुरार्चितः ॥

प्रतिपेदे पदं शैवं विमुच्य धरणीपतिम्

॥८६॥

वीक्ष्य तं वाहनं भूयो गणनाथवपुर्द्धरम् ॥

पादप्रदक्षिणां कृत्वा स्वयं च गणपोऽभवत्

॥८७॥

तदाप्रभृति शक्राद्याः सुरा विष्णुसमन्विताः ॥

पादाभ्यामेव कुर्वंति मम सर्वे प्रदक्षिणाम्

॥८८॥

स्वर्गान्निपातितः कोऽपि सिद्धः काले तपःक्षयात् ॥

प्रदक्षिणां ततः कृत्वा पुनर्लब्धपदोऽभवत्

॥८९॥

स्खलितं पादजं रक्तं मम कर्तुः प्रदक्षिणम् ॥

मार्ज्यते तस्य देवेन्द्र मौलिमंदारकेसरैः

॥९०॥

प्रदक्षिणमहावीथी शिलाशकलघट्टितम् ॥

पदं संधार्यते पुंसां श्रीपयोधरकुंकुमैः

॥९१॥

मणिपर्वतशृंगेषु कल्पद्रुमवनांतरे ॥

संचरंति सदा मर्त्या मम कृत्वा प्रदक्षिणम्

॥९२॥

गौर्युवाच

उपचारप्रवृत्तानां फलं मे शंस सुव्रत ॥

यैर्वै जनः कृतार्थः स्याद्यथाशक्ति कृतादरः

॥९३॥

मुनिरुवाच

उपचारफलं देवि शृणु वक्ष्याम्यहं तव ॥

यन्मह्यं कृपया पूर्वमुक्तवान्परमेश्वरः

॥९४॥

लूती तंतुकजालानि संसृज्य क्वचिदेव मे ॥

जातिस्मरो महीध्रेऽस्मिन्सोंऽशुकैर्मां व्यवेष्टयत्

॥९५॥

गजः कश्चितृषाक्रांतो विमुच्य च मधु क्वचित् ॥

वनपल्लवमुत्कीर्य मुक्तोऽभूद्गणनायकः

॥९६॥

कृमयो विलुठन्तो मे पार्श्वे दुरितवर्जिताः ॥

सिद्धवेषाः पुनः सर्वे मम लोकं व्रजंति ते

॥९७॥

अव्युच्छिन्नप्रदीपार्चिः क्षणमप्यादधाति यः ॥

स्वयंप्रकाशः स भवन्मम सारूप्यमश्नुते

॥९८॥

हारीतः कोपि संप्राप्तः शाखानीडो ममांतिके ॥

खद्योतो दीपवन्नक्तं तावन्मुक्तिं समागतः

॥९९॥

गावः प्रस्रवणैः सिक्ता वत्सस्मरणसंभवैः ॥

मत्पार्श्वे मुक्तिमापुस्ता मम लोकं समाश्रयन्

॥१००॥

काकः पक्षजवातेन बलिग्रहणलोलुपः ॥

मार्जयन्मत्पुरोभागं मुक्तिं प्रापद्यत क्षणात्

॥१०१॥

मूषको मद्गुहाभागं मणिसंघविकर्षणैः ॥

प्रकाशयन्वितिमिरं मम रूपमपद्यत

॥१०२॥

छायावृक्षत्वमास्थातुं मुनयस्त्रिदशा अपि ॥

प्रार्थयंत्येव मत्पार्श्वे न पुनःसंभवेच्छया

॥१०३॥

गोपुरं शिखरं शालां मण्डपं वापिकामपि ॥

कुर्वतां मत्पुरोभागे सिध्यंतीष्टार्थसंपदः

॥१०४॥

सदा मर्त्त्यैरनासाद्यमग्निलिंगमिदं मम ॥

अनासाद्याचलेशाख्यं पूज्यतां वसुधातले

॥१०५॥

वीक्षणस्पर्शनध्यानैः स्वभूतं निखिलं जगत् ॥

पोषयंती परा शक्तिः पूज्याऽपीतकुचाभिधा

॥१०६॥

सर्वलोकैकजननी संप्राप्ता नित्ययौवनम् ॥

यौवनप्रार्थिभिः सेव्या सदाऽपीतकुचाभिधा

॥१०७॥

क्षणात्तस्य पुरोभागे वसतां प्राणिनामिह ॥

परत्र वात्र दुष्प्राप्यमिष्टवस्तु न विद्यते

॥१०८॥

अप्रमेयगुणाधारमपेक्षितवरप्रदम् ॥

अशेषभोगनिलयं शोणाद्रीशं समर्चय

॥१०९॥

लब्धकामा पुनः शम्भुमाश्रयिष्यसि सुव्रते ॥

तपश्चरणमप्येतत्तव लोकहितावहम्

॥११०॥

न केवलं तव तपः स्ववांछितफलप्रदम् ॥

तपस्यतामृषीणां च क्षेमायैव भविष्यति

॥१११॥

कारणांतरमाशंक्य तपः कुर्वंति देवताः ॥

रहस्यं देवतानां तु फलेनैवानुमीयते

॥११२॥

वयं च सहसंवासास्तव व्रतनिरीक्षणात् ॥

कृतार्थाः स्याम देवेशि तपसा नः कृतार्थता

॥११३॥

इति तस्य मुनेर्वाक्यमर्थगर्भं निशम्य सा ॥

गौरी कौतुकसंयुक्ता प्रशशंस महामुनिम्

॥११४॥

तपः किमन्यत्कर्तव्यं लब्धं तव तु दर्शनम् ॥

अरुणाद्रिरयं दृष्टः श्रुतं माहात्म्यमस्य च

॥११५॥

अहो भूमेस्तु वैचित्र्यं यतो दृष्टा दिवोऽधिका ॥

यत्रैव तैजसं लिंगं देवतानां वरप्रदः

॥११६॥

शिवः प्रसादसिद्धो मे दर्शितं स्थानमात्मनः ॥

अत्रैव शिवमाराध्य वशीकुर्यां जगद्गुरुम्

॥११७॥

अविनाभूतमैक्यं मे देवेन भवतात्सदा ॥

त्वया कृतेन साह्येन भवेयं शिवनायिका

॥११८॥

इति गौतमसंनिधौ तदानीं कृतसंवित्तप आदरेण कर्तुम् ॥

अभजद्रुचिरां च पर्णशालां मुनिना चानुमता तथेति भक्त्या

॥११९॥

सुकुमारतनुः सरोरुहाक्षी घनतुंगस्तनकल्पितोत्तरीया ॥

जटिला हरिनीलरत्नकांतिर्गिरिजा राजति देहवत्तपःश्रीः

॥१२०॥

नियमैर्बहुभिस्तपोविशेषैः क्रतुषु प्राप्तविचित्रयोगबंधैः ॥

निगमागमदृष्टधर्ममार्गं सकलं सा तु कृतार्थतामनैषीत्

॥१२१॥

तपसा विविधेनतप्यमाना न कदाचित्परिखेदमाप तन्वी ॥

हरिरत्नमयी च कापि वल्ली नितरां दीप्तिमती बभूव बाला

॥१२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥