स्थावरलिंगमाहात्म्यवर्णनम्
ब्रह्मोवाच
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ॥
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम्
॥१॥नमः शिवाय महते सर्वलोकैकहेतवे ॥
येन प्रकाश्यते सर्वं ध्रियते सततं नमः
॥२॥विश्वव्याप्तमिदं तेजः प्रकाशयति संततम् ॥
नेक्षंते त्वद्दयाहीना जात्यंधा भास्करं यथा
॥३॥भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ॥
अंतस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते
॥४॥अपरिच्छेद्यमाकारमंतरात्मनि योगिनः ॥
तदेतत्तव देवेश ज्वलितं दर्पणो यथा
॥५॥अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी ॥
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते
॥६॥अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ॥
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात्
॥७॥त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ॥
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने
॥६॥स्वयमीश महादेव प्रसीद भुवनाधिक ॥
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु
॥९॥इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ॥
प्रांजलिर्देवदेवेशं न्यषीदं सविधे विभो
॥१०॥अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात् ॥
वाचः कृतार्थन्भूयः शुक्लाः शंकरकीर्त्तनैः
॥११॥जय त्रिभुवनाधीश जय गंगाधर प्रभो ॥
जय नाथ विरूपाक्ष जय चंद्रार्द्धशेखर
॥१२॥अव्याजममितं शंभो कारुण्यं तव वर्द्धते ॥
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम्
॥१३॥पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः ॥
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम्
॥१४॥शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ॥
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः
॥१५॥त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ॥
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत्
॥१६॥देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम् ॥
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत्
॥१७॥देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ॥
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे
॥१८॥अनुग्रहपरो देव मूर्तिं दर्शय शंकर ॥
आवयोरखिलाधार नयनानंददायिनीम्
॥१९॥एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ॥
प्रससाद परं शंभुः स्तुवतोरावयोर्द्वयोः
॥२०॥तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ॥
आविर्बभूव पुरुषः कपिलः कालकन्धरः
॥२१॥परशुं बालहरिणं करैरभयविश्रमौ ॥
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः
॥२२॥परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि ॥
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम्
॥२३॥युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ॥
वरं वृणुतमन्यं च वरदोऽहमुपागतः
॥२४॥इति देवस्य वचनात्सप्रीतौ च कृतांजली ॥
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक्
॥२५॥अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ॥
संस्तुवन्वैदिकैर्मंत्रैरीशानमपराजितम्
॥२६॥नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ॥
तेजोमयं महादेवं योगिध्येयं निरंजनम्
॥२७॥आपूर्यमाणं भवता तेजसा गगनांतरम् ॥
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति
॥२८॥सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ॥
नावसन्दिवि संचारं लभेरंस्तेजसा तव
॥२९॥पृथ्वी च सकला चैव तप्यमाना तवौजसा ॥
चराचरसमुत्पत्तिक्षमा नैव भविप्यति
॥३०॥उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया ॥
भव स्थावरलिंगं त्वं लोकानुग्रहकारणात्
॥३१॥ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम् ॥
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः
॥३२॥सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः ॥
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः
॥३३॥दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ॥
सेविनस्त्वां प्ररोहंतु भरिता विविधैः फलैः
॥३४॥दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ॥
प्रशांताः परिवर्त्तंता पापकल्मषनाशनम्
॥३५॥अयनद्वयभिन्नेन गमनेनापि संयुतः ॥
न लंघयिष्यति रविः शृंगं लिंगतनोस्तव
॥३६॥दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः ॥
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः
॥३७॥अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ॥
लभंतां मानुषा नित्यं त्वत्संनिधिमुपागताः
॥३८॥ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम् ॥
त्वामाश्रित्य नरास्सर्वे लभंतामरुणाचल
॥३९॥सर्वावयवदानेन सर्वव्याधिविनाशनात् ॥
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले
॥४०॥तथेति वरदं देवमरुणाद्रिपतिं शिवम् ॥
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत्
॥४१॥प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ॥
महेश सर्वलोकानां हिताय प्रकटोदय
॥४२॥यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ॥
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवंतु ते
॥४३॥नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ॥
मया च ब्रह्मणा चैवमदृष्टपदशेखरः
॥४४॥प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ॥
त्वामर्चयंति ये मर्त्याः कृतार्थास्ते गतांहसः
॥४५॥उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ॥
त्वामर्चयंति मनुजाः सार्वभौमा भवंतु ते
॥४६॥आरामं मंडपं चापि कूपं विधिविशोधनम् ॥
कुर्वतामरुणाद्रीश संनिधाने पुनर्भव
॥४७॥अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ॥
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः
॥४८॥आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम् ॥
ध्यातव्यं मनुजैः सर्वैस्तव संनिधिमागतैः
॥४९॥तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः ॥
भरुणाचलरूपेण प्राप्तः स्थावरलिंगताम्
॥५०॥तैजसं लिंगमेतद्धि सर्वलोकैककारणम् ॥
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले
॥५१॥युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः ॥
अपि निर्मग्नलोकांतैरस्पृष्टांतिकभूतलम्
॥५२॥गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम् ॥
पुष्कराद्या महामेघा विश्रांता यस्य सानुनि
॥५३॥प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे ॥
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम्
॥५४॥मया चाहूयमानेभ्यः प्रलयानंतरं पुनः ॥
यत्पादसेविविप्रेभ्यो वेदाध्ययनसंग्रहः
॥५५॥सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम् ॥
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः
॥५६॥यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः ॥
जटिनः संप्रकाशंते कोटिसूर्याग्नितेजसः
॥५७॥पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः ॥
अकारपीठिकारूढो नादात्मा यः सदाशिवः
॥५८॥अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः ॥
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः
॥५९॥यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः ॥
अपेक्षंते स्थिता मुक्तिं विहाय कनकाचलम्
॥६०॥एवं वसुंधरापुण्यपरिपाकसमुच्चयः ॥
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः
॥६१॥कैलासान्मेरुशिखरादागतैर्देवसंचयैः ॥
पूज्यते शोणशैलात्मा शंभुः सर्ववरप्रदः
॥६२॥इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ॥
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम्
॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शंकरस्य स्थावरलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥