पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनम्
पार्वत्युवाच
कथमग्निमयं लिंगमभिगम्यमभूद्भुवि ॥
प्राणिनामपि सर्वेषामुपशांतिं कथं गतः
॥१॥तीर्थानामुद्भवः पुण्यात्कथं चारुणपर्वतात् ॥
उपसंहृतसर्वांगः कथं वा वद मेऽचलः
॥२॥गौतम उवाच
कृते त्वग्निमयः शैलस्त्रेतायां मणिपर्वतः ॥
द्वापरं हाटकगिरिः कलौ मरकताचलः
॥३॥बहुयोजनपर्यंतं कृते वह्निमये स्थिते ॥
बहिः प्रदक्षिणं चक्रुः प्रशाम्यति महर्षयः
॥४॥शनैः शांतोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः ॥
लोकगुप्त्यर्थमत्यर्थमुपशांतोऽरुणाचलः
॥५॥अथ गौरी मुनिं प्राह कथं शांतोऽरुणाचलः ॥
कथं वा प्रार्थयामासुर्देवेशं त्रिदशा इमम्
॥६॥इति तस्या वचः श्रुत्वा गौतमस्त्वभ्यभाषत ॥
प्रशस्य भक्तिमतुलां तस्यास्तत्त्वार्थवेदिनीम्
॥७॥गौतम उवाच
अग्निरूपं पुरा शैलमासादयितुमक्षमाः ॥
पुरा सुराः स्तुतिं चक्रुरभ्यर्च्य क्रतुसंभवैः
॥८॥भगवन्नरुणाद्रीश सर्वलोकहितावह ॥
अग्निरूपोऽपि संशांतः प्रकाशस्य महीतले
॥९॥असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ॥
इति त्वां सकला वेदाः स्तुवंति शिवविग्रहम्
॥१०॥नमस्ताम्रायारुणाय शिवाय परमात्मने ॥
वेदवेद्य स्वरूपाय सोमाय सुखरूपिणे
॥११॥त्वद्रूपमखिलं देव जगदेतच्चराचरम् ॥
निधानमिव ते रूपं देवानामिदमीक्ष्यते
॥१२॥वर्षतां च पयोदानां निर्झराणां च भूयसाम् ॥
सलिलोपायसंहारो युक्तस्ते युगसंक्षये
॥१३॥अग्नेरापः समुद्भूतास्त्वत्तो हि परमात्मनः ॥
विश्वसृष्टिं वितन्वति विचित्रगुण वैभवात्
॥१४॥शीतो भव महादेव शोणाचल कृपानिधे ॥
सर्वेषामपि जीवानामभिगम्यो भव प्रभो
॥१५॥इति स्तुतः सुरैः सर्वेरानतैर्भक्तवत्सलः ॥
सद्यः शीतलतां गच्छन्नभिम्योऽभवत्प्रभुः
॥१६॥प्रावर्त्तत पुनर्नद्यो निर्झराश्च बहूदकाः ॥
वर्षतामपि मेघानां न जग्राह जलं बहु
॥१७॥तथापि तरुणार्कोद्यत्कालाग्निशतकोटिभिः ॥
समानदीप्तिरभजज्जीवानामभिगम्यताम्
॥१८॥विसृज्य विश्वसलिलं नदीश्च रसविक्षरैः ॥
संपूर्यः सकलैर्देवः सर्वदा संप्रकाशते
॥१९॥तीर्थानि तानि तान्यासन्परितः प्रार्थनावशात् ॥
दिक्पालानां सुराणां च महर्षीणां महात्मनाम्
॥२०॥ब्रह्मोवाच
इति तस्य वचः श्रुत्वा गौरी कुतुकसंयुता ॥
तीर्थानामुद्भवं सर्व श्रोतुं समुपचक्रमे
॥२१॥पार्वत्युवाच
कानि तीर्थानि जातानि शोणाद्रेर्लोकगुप्तये ॥
भगवन्ब्रूहि सकलं तीर्थानामुद्भवं मम ॥
इति तस्या वचः शृण्वन्गिरीशात्संश्रुतं पुरा ॥
तीर्थानामुद्भवं सर्वं व्याख्यातुमुपचक्रमे
॥२३॥गौतम उवाच
ऐन्द्रं नाम महातीर्थमिंद्रभागे समुत्थितम् ॥
तत्र स्नात्वा पुरा शक्रो ब्रह्महत्यां व्यपोहयत्
॥२४॥ब्रह्मतीर्थं पुनर्दिव्यं वह्निःकोणे समुत्थितम् ॥
परस्त्रीसंगमात्पापं वह्निः स्नात्वात्र चात्यजत्
॥२५॥याम्यं नाम महातीर्थं यमभागे विजृंभते ॥
अत्र स्नात्वा यमोऽत्याक्षीद्भयं ब्रह्मास्त्रसंभवम्
॥२६॥नैर्ऋतं तु महातीर्थं नैर्ऋत्यां दिशि शोभते ॥
भूतवेतालविजयं तत्र स्नात्वर्षयो गताः
॥२७॥पश्चिमे वारुणं तीर्थं दिग्भागे च प्रकाशते ॥
शल्यकोशं पुरा लेभे स्नात्वात्र वरुणो निजम्
॥२८॥वायवे वायवीयं च तीर्थमत्र प्रकाशते ॥
तत्र स्नात्वा ययौ वायुर्जगत्प्राणत्ववैभवम्
॥२९॥उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुंचत
॥३०॥ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् ॥
तत्र स्नात्वा पुरा विष्णुः श्रिया च सह संगतः
॥३१॥मार्कण्डेयः पुरा देवि प्रार्थयामास शंकरम् ॥
सदाशिव महादेव देवदेव जगत्पते
॥३२॥बहूनामिह तीर्थानामेकत्र स्यात्समागमः ॥
केनोपायेन भगवन्कृपया वद शंकर
॥३३॥इति तस्य वचः श्रुत्वा देवदेव उमापतिः ॥
उपायं दर्शयामास मुनये प्रीतमानसः
॥३४॥महेश्वर उवाच
सदोपहारवेलायां सर्वतीर्थसमुच्चयः ॥
सन्निधिं मम संप्राप्तः सेवते गूढरूपतः
॥३५॥नान्यदन्वेषणीयं ते तीर्थमत्र महामुने ॥
ममोपहारवेलायां दृश्यते तीर्थसंचयः
॥३६॥तस्माद्भक्तियुतैर्नित्यं सर्वतीर्थसमागमः ॥
मुनिभिश्च सुरैः सर्वैर्नैवेद्यांते विलोक्यताम्
॥३७॥इति देवि पुरा देवो मार्कडेयाय शंकरः ॥
उपादिशदमेयात्मा तीर्थसंदर्शनक्रमम्
॥३८॥गौतम उवाच
सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ ॥
सदोपहारवेलायां दृश्यानि किल मानवैः
॥३९॥व्रतं तीर्थं तपो वेदा यज्ञाश्च नियमादयः ॥
योगाश्च शोणशैलेशदर्शनाद्दृष्टसंचराः
॥४०॥निशम्य वाक्यं मुनिपुंगवस्य प्रसेदुषी पर्वतराजपुत्री ॥
अवोचदत्यद्भुतमेतदत्र त्वयोपदिष्टं भुवि तीर्थजालम्
॥४१॥अहं कृतार्था तपतां वरिष्ठ त्वत्संगमात्संप्रति तीर्थजालम् ॥
प्राप्ता नमस्तेऽस्तु तपोविशेष शिवोपि मेऽत्रादिशदेव कर्तुम्
॥४२॥कथं गिरीशः पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि ॥
प्रशांतरूपः परमेश्वरोऽयमभ्यर्चनीयो भुवि मर्त्यवर्गैः
॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे ऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥