मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय ४

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 4

गौतमाश्रमागमनम्

ब्रह्मोवाच

अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् ॥

सांत्वयन्ती स्तुतिशतैरुपायैः शिवदर्शनैः

॥१॥

देवि त्वमविनाभूता सदा देवेन शंभुना ॥

प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः

॥२॥

तथा मायां त्वमात्मीयां संदर्शयितुमीहसे ॥

पृथग्भावमिवेशानः प्रकाशयति न स्वयम्

॥३॥

आदेशं प्रतिगृह्यैव समुपेतासि पार्वति ॥

अलंघनीया सेवाज्ञा शांभवी सर्वदा त्वया

॥४॥

विधातव्यं तपः प्राप्तं स्थानेस्मिच्छिवकल्पिते ॥

निवृत्त्य निखिलान्कामाच्छंमुमाश्रितया त्वया

॥५॥

अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि ॥

धर्मसंरक्षणं भूयः शिवेन सहितं तव

॥६॥

निष्कलं शिवमत्यंतं ध्यायंत्यात्मन्यवस्थितम् ॥

वियोगदुःखं कञ्चित्त्वं न स्मरिष्यसि पार्वति

॥७॥

भक्तानां तव मुख्यानां तवैवाचारसंग्रहः ॥

उपदेशितया लोके प्रथतां धर्मवत्सले

॥८॥

इति तस्या वचः श्रुत्वा गौरी सुस्थिरमानसा ॥

तपः कर्त्तुं समारेभे कंपा नद्यास्तटे शुभे

॥९॥

विमुच्य विविधा भूषा रुद्राक्षगणभूषिता ॥

विसृज्य दिव्यं वसनं पर्यधाद्वल्कले शुभे

॥१०॥

अलकैः सहसा शिल्पमनयच्च कपर्दृताम् ॥

अलिंपत तनूं सर्वां भस्मना मुक्तकुंकुमा

॥११॥

मृगेषु कृतसंतोषा शिलोंछीकृतवृत्तिषु ॥

जजाप नियमोपेता शिवपंचाक्षरं परम्

॥१२॥

कृत्वा त्रिषवणं स्नानं कम्पा पयसि निर्मले ॥

कृत्वा च सैकतं लिंगं पूजयामास सादरम्

॥१३॥

वृक्षप्ररोपणैर्दानैरशेषातिथिपूजनैः ॥

श्रांतिं हरंती जीवानां देवी धर्ममपालयत्

॥१४॥

ग्रीष्मे पंचाग्निमध्यस्था वर्षासु स्थंडिलेशया ॥

हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः

॥१५॥

पुण्यात्मनां महर्षीणां दर्शनार्थमुपेयुषाम् ॥

विस्मयं जनयामास पूजयामास सादरम्

॥१६॥

कदाचित्स्वयमुच्चित्य वनांतात्पल्लवान्वितम् ॥

पुष्पोत्करं विशेषेण शोधितुं समुपाविशत्

॥१७॥

कृत्वा च सैकतं लिंगं कंपारोधसि पावने ॥

संपूजयितुमारेभे न्यासावाहनपूर्वकम्

॥१८॥

सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चंदनैः ॥

पंचावरणसंयुक्तं क्रमादानर्च शंकरम्

॥१९॥

धूपैर्दीपश्च नैवेद्यैर्भक्तिभावसमन्वितैः ॥

अपरोक्षितमीशानमालुलोके पुरोहितम्

॥२०॥

अथ देवः शिवः साक्षात्संशोधयितुमंबिकाम् ॥

कंपानद्याः प्रवाहेण महता पर्यवेष्टयत्

॥२१॥

अतिवृद्धं प्रवाहं तं कम्पायाः समुपस्थितम् ॥

आलोक्य नियमासीनामाहुः सख्यस्तदांबिकाम्

॥२२॥

उत्तिष्ठ देवि बहुलः प्रवाहोऽयं विजृंभते ॥

दिशां मुखानि संपूर्य तरसा प्लावयिष्यति

॥२३॥

इति तद्वचनं श्रुत्वा ध्यायंती मीलितेक्षणा ॥

उन्मील्य वेगमतुलं नद्यास्तं समवैक्षत

॥२४॥

अचिंतयच्च सा देवी पूजाविघ्नसमाकुला ॥

किं करोमि न शक्नोमि हातुमारब्धमर्चनम्

॥२५॥

श्रेयः प्राप्तुमविघ्नेन प्रायः पुण्यात्मनां भुवि ॥

घटते धर्मसंयोगो मनोरथफलप्रदः

॥२६॥

सैकतं लिंगमतुलप्रवाहाल्लयमेष्यति ॥

लिंगनाशे विमोक्तव्यः सद्भक्तैः प्राणसंग्रहः

॥२७॥

प्रवाहोऽयं समायाति शिवमायाविनिर्मितः ॥

विशोधयितुमात्मानं भक्तियुक्तं निजे पदे

॥२८॥

आलिंग्य सुदृढं दोर्भ्यामेतल्लिंगमनाकुलम् ॥

अहं वत्स्यामि याताशु सख्यो यूयं विदूरतः

॥२९॥

इत्युक्ता सैकतं लिगं गाढमालिंग्य सांबिका ॥

न मुमोच प्रवाहेन वेष्ट्यमानापि वेगतः

॥३०॥

स्तनचूचुकनिर्मग्नमुद्रादर्शितलांछनम् ॥

महालिंगं स्वसंयुक्तं प्रणनाम तदादरात्

॥३१॥

निमीलितेक्षणा ध्याननिष्ठैकहृदया स्थिता ॥

पुलकांचितसर्वांगी सा स्मरंती सदाशिवम्

॥३२॥

कंपस्वेदपरित्राणलज्जाप्रणयकेलिदात् ॥

क्षणमप्यचला लिंगान्न वियोगमपेक्षते

॥३३॥

अथ तामब्रवीत्कापि दैवी वागशरीरिणी ॥

विमुंच बालिके लिंगं प्रवाहोऽयं गतो महान्

॥३४॥

त्वयार्चितमिदं लिंगं सैकतं स्थिरवैभवम् ॥

भविष्यति महाभागे वरदं सुरपूजितम्

॥३५॥

तपश्चर्यां तवालोक्य रचितं धर्मपालनम् ॥

लिंगं चैतन्नमस्कृत्य कृतार्थाः संतु मानवाः

॥३६॥

अहं हि तैजसं रूपमास्थाय वसुधातले ॥

वसामि चात्र सिद्ध्यर्थमरुणाचलसंज्ञया

॥३७॥

रुणद्धि सर्वलोकेभ्यः परुषं पापसंचयम् ॥

रुणो न विद्यते यस्मिन्दृष्टे तेनारुणाचलः

॥३८॥

ऋषयः सिद्धगंधर्वा महात्मानश्च योगिनः ॥

मुक्त्वा कैलासशिखरं मेरुं चैनमुपासते

॥३९॥

मदंश जातयोः पूर्वं युध्यतोर्ब्रह्मकृष्णयोः ॥

अहं मोहमपाकर्त्तुं तेजोरूपो व्यवस्थितः

॥४०॥

ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा ॥

अदृष्टशेखरपदः प्रणतो भक्तियोगतः

॥४१॥

ततः प्रसन्नः प्रत्यक्षस्तस्यां वरमभीप्सितम् ॥

प्रादां जगत्त्रयस्यास्य संरक्षायां तु कौशलम्

॥४२॥

प्रार्थितश्च पुनस्ताभ्यामरुणाचलसंज्ञया ॥

अनैषि तैजसं रूपमहं स्थावरलिंगताम्

॥४३॥

गत्वा पृच्छ महाभागं मद्भक्तिं गौतमं मुनिम् ॥

अरुणाचलमाहात्म्यं श्रुत्वा तत्र तपश्चर

॥४४॥

तत्र ते दर्शयिष्यामि तैजसं रूपमात्मनः ॥

सर्वपापनिवृत्त्यर्थं सर्वलोकहिताय च

॥४५॥

इति वाचं समाकर्ण्य निष्कलात्कथितां शिवात् ॥

तथेति सहसा देवी गंतुं समुपचक्रमे

॥४६॥

अथ देवानृषीन्सर्वान्पश्चात्सेवार्थमागतान् ॥

अवादीदंबिकालोक्य स्नेहपूर्णेन चक्षुषा

॥४७॥

तिष्ठतात्रैव वै देवा मुनयश्च दृढव्रताः ॥

नियमांश्चाधितिष्ठंतः कंपारोधसि पावने

॥४८॥

सर्वपापक्षयकरं सर्वसौभाग्यवर्द्धनम् ॥

पूज्यतां सैकतं लिंगं कुचकंकणलांछनम्

॥४९॥

अहं च निष्कलं रूपमास्थायैतद्दिवानिशम् ॥

आराधयामि मंत्रेण शोणेश्वरं वरप्रदम्

॥५०॥

मत्तपश्चरणाल्लोके मद्धर्मपरिपालनात् ॥

मल्लिंगदर्शनाच्चैव सिध्यंत्विष्टविभूतयः

॥५१॥

सर्वकामप्रदानेन कामाक्षीमिति कामतः ॥

मां प्रणम्यात्र मद्भक्ता लभंतां वांछितं वरम्

॥५२॥

अहं हि देवदेवस्य शंभोरव्याहतो जनः ॥

आदेशं पालयिष्यामि गत्वारुणमहीधरम्

॥५३॥

तत्र गत्वा तपस्तीव्रं कृत्वा शंभुं प्रसाद्य च ॥

मां तु लब्धवरां यूयं पश्चाद्रक्ष्यथ संगताः

॥५४॥

इति सर्वान्विसृज्याशु सद्भक्तान्पादसेविनः ॥

अरुणाद्रिं गता बाला तपसे शंकराज्ञया

॥५५॥

नित्याभिसेविताऽकारि सखीभिरभियोगतः ॥

आससादारुणाद्रीशं दिव्यदुंदुभिनादितम्

॥५६॥

अंतस्तेजोमयं शांतमरुणाचलनायकम् ॥

अप्सरोनृत्यगीतैश्च पूजितं पुष्पवृष्टिभिः

॥५७॥

प्रणम्य स्थावरं लिंगं कौतूहलसमन्विता ॥

सिद्धानां योगिनां सार्थमृषीणां चान्ववैक्षत

॥५८॥

अत्रिर्भृगुर्भरद्वाजः कश्यपश्चांगिरास्तथा ॥

कुत्सश्च गौतमश्चान्ये सिद्धविद्याधरामराः

॥५९॥

तपः कुर्वंति सततमपेक्षितवराप्तये ॥

गंगाद्याः सरितश्चान्याः परितः पर्युपासते

॥६०॥

दिव्यलिंगमिदं पूज्यमरुणाद्रिरिति स्मृतम् ॥

वंदस्वेति सुरैः प्रोक्ता प्रणनाम पुनःपुनः

॥६१॥

अभ्यर्थिता पुनः सर्वैरातिथ्यार्थे महर्षिभिः ॥

शिवाज्ञया गौतमो मे द्रष्टव्य इति सावदत्

॥६२॥

अयमत्रर्षिभिर्भक्तैर्निर्दिष्टं तमथाभ्यगात् ॥

स मुनिः शिवभक्तानां प्रथमस्तपसां निधिः

॥६३॥

वनांतरं गतेः प्रातः समित्कुशफलाहृतेः ॥

अतिथीनाश्रमं प्राप्तानर्चथेति दृढव्रतान्

॥६४॥

शिष्यानादिश्य धर्मात्मा गतश्च विपिनांतरम् ॥

अथ सा गौतमं द्रष्टुमागता पर्णशालिकाम्

॥६५॥

क्व गतो मुनिरित्युक्तैरित आयास्यति क्षणात् ॥

शिष्यैरभ्यर्थितेत्युक्त्वा फलमूलैस्सुगंधिभिः

॥६६॥

अभ्युत्थानेनासनेन पाद्येनार्घेण सूनृतैः ॥

वचनैः फलमृलेन सार्चिता शिष्यसंपदा

॥६७॥

क्षणं क्षमस्वसूनुस्तामन्ये जग्मुस्तदन्तिकम् ॥

देव्यां प्रविष्टमात्रायां महर्षेराश्रमो महान्

॥६८॥

अभवत्कल्पबहुलो मणिप्रासादसंकुलः ॥

वनांतरादुपावृत्त्य समित्कुशफलाहरः

॥६९॥

अपश्यत्स्वाश्रमं दूरे विमानशतशोभितम् ॥

किमेतदिति साश्चर्यं चिंतयन्मुनिपुंगवः

॥७०॥

गौर्याः समागमं सर्वमपश्यज्ज्ञानचक्षुषा ॥

शीघ्रं निवर्तमानोऽसौ द्रष्टुं तां लोकमातरम्

॥७१॥

शिष्यैः शीघ्रचरैर्वृत्तमावेदितमथाशृणोत्

॥७२॥

अथ महर्षिरुपागतकौतुको निजतपःफलमेव तदागमम् ॥

शिवदयाकलितं परिचिन्तयन्नभजदाश्रममाश्रितवत्सलः

॥७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः कंपाया अरुणाचले गौतमाश्रमागमनंनाम चतुर्थोऽध्यायः ॥ ४ ॥