शिवसमागमवर्णनम्
ब्रह्मोवाच
इति संभाषमाणे तु महर्षौ मुनि सेविते ॥
विजहौ गिरिजा शंकां शिवभक्तवधाश्रिताम्
॥१॥अथांतरिक्षादुदभूद्वाणी कर्णमनोहरा ॥
मा गमः शैलकन्ये त्वं पापनिप्कृतिकारणात्
॥२॥गंगा च यमुना सिंधुर्गोदापि च सरस्वती ॥
नर्मदा सा च कावेरी शोणः शोणनदी च सा
॥३॥अत्रैव नव तीर्थानि संभवंतु शिलातले ॥
त्वत्खड्गदारिते देवि कुरु तत्राघमर्षणम्
॥४॥अस्मिन्नाश्वियुजे मासि ज्येष्ठानक्षत्र आगते ॥
निमज्य खड्गतीर्थे त्वं सलिंगा मासमावस
॥५॥निवर्त्य सावनं मासमत्र दिक्पालसंमितम् ॥
ततः पाणिस्थितं लिंगं लब्ध्वा पापविशोधनम्
॥६॥प्रतिष्ठापय तीर्थाग्रे लोकानुग्रहकारणात् ॥
उत्तीर्य तीर्थवर्येऽस्मिन्स्नात्वा लिंगेऽर्चिते शिवे
॥७॥तापत्रयोपशांतिश्च त्रैलोक्यस्य न संशयः ॥
सर्वपापहरं लिंगं स्थावरं तीर्थसन्निधौ
॥८॥स्थापय स्थिरया भक्त्या सदालोकहिताय च ॥
नक्षत्रे वैश्वदैवत्ये देवक्याः संगमाचर
॥९॥महोत्सवसमायुक्तं यावद्दशदिनावधि ॥
कृत्वा चावभृथं पुण्यनक्षत्रे वह्निदैवते
॥१०॥सायमभ्यर्च्य विधिवच्छोणाचलवपुर्मम ॥
ततस्ते दर्शयिष्यामि तैजसं रूपमात्मनः
॥११॥एतत्कृतं ते लोकानां रक्षायै संभविष्यति ॥
इति तद्वचनं श्रुत्वा महर्षिवचनं च सा
॥१२॥उभयं कर्तुमारेभे तपसा शैलकन्यका ॥
खङ्गेन दारयामास शिलातलमनाकुला
॥१३॥उदजृंभत तीर्थानां नवकं तत्र तत्क्षणात् ॥
तस्य कण्ठस्थितं लिगं ध्यायन्ती पर्वतात्मजा
॥१४॥तीर्थे ममज्ज तस्मिन्सा मुनीनामभ्यनुज्ञया ॥
तीर्थानां नवकं तत्र संजातं स्फटिकप्रभम्
॥१५॥अंतर्वसतितः कांत्या मेचकीकृतमंजसा ॥
वसंत्यां शैलकन्यायां तीर्थे त्रिंशद्दिनं त्वथ
॥१६॥शम्भोर्विरहसंतप्तं मनश्चंचलतां ययौ ॥
तत्र श्रिया सरोजानि चक्षुषोत्पलकाननम्
॥१७॥मंदस्मितेन कुमुदं ससर्ज सलिलस्य सा ॥
देव्यास्तेनोदवासेन लोकास्तु निरुपद्रवाः
॥१८॥कृतार्थास्सहसा जातास्तत्तत्कालफलान्विताः ॥
मासांते सा समुत्तीर्य कृत्वा देव्युत्सवं तथा
॥१९॥कार्तिके मासि नक्षत्रे कृत्तिकाख्ये निशोदये ॥
पूजयित्वा तपःसिद्धैरुपचारैर्बहूदयैः
॥२०॥अरुणाद्रिमयं लिंगं तुष्टाव जगदंबिका ॥
नमस्ते विश्वरूपाय शोणाचलवपुर्भृते
॥२१॥तेजोमयाद्रिलिंगाय सर्वपाततकनाशिने ॥
ब्रह्मणा विष्णुना च त्वं दुष्परिच्छेद्यवैभवः
॥२२॥अग्निरूपोऽपि सञ्छांतो लोकानुग्रहक्लृप्तये ॥
शक्त्या च तत्त्वसंघातकरः कालानलाकृतिः
॥२३॥अद्रिश्रेष्ठारुणाद्रीश रूपलावण्यवारिधे ॥
विचित्ररूपमेतत्ते वेदवेद्यसुरार्चितम्
॥२४॥तेजसां देव सर्वेषां बीजभूतं निगद्यसे ॥
दिव्यं हि परमं तेजस्तव देव महेश्वर
॥२५॥यत्पुरा ब्रह्मणा दृष्टं विष्णुना च विचिन्वता ॥
अद्य पूतास्मि देवेश तव संदर्शनादहम्
॥२६॥तेजो दर्शय मे दिव्यं सर्वदोषहरं परम् ॥
प्रार्थयंत्यां तदा देव्यामरुणाद्रिमयः शिवः
॥२७॥आविर्बभूव तेजोभिरापूर्य भुवनांतरम् ॥
कोटिसूर्योदयप्रख्यं तुल्यं पूर्णेंदुकोटिभिः
॥२८॥कालाग्निकोटिसंकाशं तेजः परमदृश्यत ॥
प्रणम्य परया भक्त्या मुनिभिः सार्धमंबिका
॥२९॥विस्मयाक्रांतहृदया ननंद नलिनेक्षणा ॥
अथ तेजोनिधेस्तस्मादरुणाद्रिः समुत्थितः
॥३०॥हिरण्मयोऽब्रवीद्वाचं पुरुषः कलकन्धरः ॥
प्रसन्नोऽस्मि तपोभिस्ते स्थानेषु मम कल्पितैः
॥३१॥तेजोमयमिदं रूपमीक्षितं च त्वयाधुना ॥
कारणैर्बहुभिर्लोकान्रक्षेथास्त्वं जगन्मयि
॥३२॥तपांसि कुरुषे भूमौ किमन्यत्प्रार्थितं तव ॥
मल्लोचनत्विषा तेद्य तमोराशिः समुत्थितः
॥३३॥अशेषो हि प्रशांतोऽभूत्तेजसोऽस्य निरीक्षणात् ॥
अयं तु महिषो दुष्टो मद्भक्तिं लिंगपूजकः
॥३४॥जग्राह सहसा ह्येतत्तस्य लिंगं गले स्थितम् ॥
अनेन भक्षितं तच्च नास्तिकस्योपदेशतः
॥३५॥अकरोन्मय्यविश्वासं लिंगरूपे गले स्थिते ॥
क्रमेण सोपि संप्राप्तो मुनिजन्म मनोहरम्
॥३६॥मामेवाभ्यर्चयन्ध्यायन्गणनाथत्वमावसन् ॥
पूर्वजन्मनि भक्तोऽयं महिषोपि त्वया हतः
॥३७॥चिरं मल्लिंगधृग्यस्मात्सिद्धिरस्यापि देव्यतः ॥
शिवलिंगेष्वविश्वासः शिवभक्तावमाननम्
॥३८॥न कर्त्तव्यं सदा भक्तैस्तस्माद्वै मुक्तिकांक्षिभिः ॥
दीक्षया रहितं लिगं येन संधार्यते बलात्
॥३९॥न तादृशं फलं दत्ते वज्रवत्तं निहंति च ॥
न दोषस्तत्र किंचित्ते शोणाचलनिरीक्षणात्
॥४०॥सफला नयनावाप्तिः सर्वदोषविनाशनात् ॥
त्वत्पुत्रस्तन्यदानेन धात्र्योपकृतमात्मजे
॥४१॥त्वामपीतकुचां चक्रे वत्सलां भक्तरक्षिणीम् ॥
नक्षत्रे कृत्तिकाख्येऽत्र तव सन्निधिलोभतः
॥४२॥प्रायश्चित्ताभिधानेन भवापीतकुचाभिधा ॥
पूजाशेषं समाधाय भक्तानुग्रहहेतवे
॥४३॥भज मां करुणामूर्तिरपीतकुचनायिका ॥
इति देवस्य वचनमाकर्ण्यात्यंतशीतलम्
॥४४॥प्रणम्य प्रार्थितवती प्रोवाच च तमंबिका ॥
देवदेव प्रसादेन त्वयानुग्रहशालिना
॥४५॥एतत्ते दर्शितं तेजो दृष्टं देवैश्च मानवैः ॥
प्रत्यक्षं कृत्तिकामासि मद्व्रतांतमहोत्सवे
॥४६॥नक्षत्रे कृत्तिकाख्येऽस्मिंस्तेजस्ते दृश्यतां परम् ॥
तद्वीक्षितमिदं तेजः परमं प्रतिवत्सरम्
॥४७॥दृष्ट्वा समस्तैर्दुरितैर्मुच्यतां सर्वजंतवः ॥
तथेति देवदेवेन प्रोचेऽथांतर्दधे गिरौ
॥४८॥प्रदक्षिणं चकारैनं सखीभिः सा ततोंऽबिका ॥
घनश्यामलया कांत्या परितो जृंभमाणया
॥४९॥अरुणाद्रिमयं लिंगं चक्रे मरकतप्रभम् ॥
मंदं चरन्ती जाताभिः प्रभाभिः पादपद्मयोः
॥५०॥तस्तार परितो भूमिं पद्मपत्रैः सपल्लवैः ॥
प्रफुल्लकनकांभोजनीलोत्पलदलोत्करैः
॥५१॥अर्चयन्तीव शोणाद्रिमभितो दृष्टिकांतिभिः ॥
इन्द्रादिलोकपालानामंगनाभिर्निषेविता
॥५२॥प्रसादिता मातृगणैर्गंधदानविभूषणैः ॥
छत्रचामरभृंगारतालवृन्तफलाचिकाः
॥५३॥वहन्तीभिः सुरस्त्रीभिर्वृता मुनिवधूयुता ॥
प्रदक्षिणं चकारैनमरुणाद्रिं स्वयंप्रभम्
॥५४॥कांक्षन्ती शिवसायुज्यं विवाहाग्निमिवाद्रिजा ॥
तस्यां प्रदक्षिणं भक्त्या कुर्वाणायां पदेपदे
॥५५॥प्रेषिता शंभुना देवाः परिवव्रुः सुरेश्वराः ॥
सरस्वतीसमं धात्रा विष्णुना च समं रमा
॥५६॥सर्वदिक्पालकांताभिः समेता शैलबालिका ॥
निरुन्धतीव देवेन्द्रं सलिलैर्वरदानतः
॥५७॥अद्रिनाथस्वरूपस्य शीतत्वमिव कुर्वती ॥
तपस्ययाऽविनाभावाद्देवस्येव कृतस्मृतिः
॥५८॥दुष्करस्योदवासस्य बोधयन्तीव साधुताम् ॥
ऋषीणां देवमानानामुपदेष्टुमिव क्रमात्
॥५९॥क्रीडामिव पुराभ्यस्तां तपसापि च संगता ॥
आत्मानं विरहोत्तप्तामात्मस्थं तादृश शिवम्
॥६०॥संचिंत्य चोभयोः कर्तुं शीतलत्वं जले स्थिता ॥
तीर्थानामिव सर्वेषामुद्भूतानां शिलातले
॥६१॥आधिक्यमथ लोकस्य वक्तुकामा स्वयं स्थिता ॥
दुरितघ्नं च पंचाग्निमर्थावासं सुदुष्करम्
॥६२॥अधिगम्य तपस्तस्य शांतिं कर्तुमिव स्थिता ॥
महिषासुरकंठोत्थरक्तधारापरिप्लुतम्
॥६३॥क्षालयंतीव लिंगं तदमलैस्तीर्थवारिभिः ॥
अरुणाख्यं पुरं रम्यं निर्मितं विश्वकर्मणा
॥६४॥अपीतकुचनाथेशशोणाद्रीश्वरतुष्टये ॥
शृंगेषु यस्य सौधेषु वसन्त्यो वारयोषितः
॥६५॥अधःकृताभ्रतडितो जिगीषंतीव चामरीः ॥
यत्तुंगसौधशृंगाग्रे गायंतीर्वारयोषितः
॥६६॥सिद्धचारणगंधर्वविद्याधरविराजितम् ॥
अष्टापदरथाक्रांतमष्टवीथिविराजितम्
॥६७॥अष्टापदपथाकारमष्टदिक्पालपूजितम् ॥
अष्टसिद्धियुतैः सिद्धैरष्टमूर्तिपदाश्रयैः
॥६८॥अष्टांगभक्तियुक्तैस्तैर्युक्तमष्टांगबुद्धिभिः ॥
चातुर्वर्ण्यगुणोपेतमुपवर्णं परिष्कृतम्
॥६९॥लसत्सुवर्णदुवर्णशालामालासमास्थितम् ॥
शंखदुंदुभिनिस्साणमृदंगमुरजादिभिः
॥७०॥वीणावेणुमुखैस्तालैः सालापैरुपरंजितम् ॥
ब्रह्मघोषनिनादेन महर्षीणां शिवात्मनाम्
॥७१॥सेवितव्यं दिने दिव्यसमदर्शवृषध्वजम् ॥
नवरत्नप्रभाजालैर्नवग्रहसमोदयैः
॥७२॥निशादिवसयोरेवं दर्शयन्निव सर्वदा ॥
विष्णुः स्थितश्च तं प्रीत्या सिषेवे पुरतो विभुम्
॥७३॥शक्रः सुरगणैः सार्धं सहस्राक्षः समाययौ ॥
पपात दिव्यगंधाढ्या पुष्पवृष्टिः समंततः
॥७४॥व्योमगंगाजलोत्संगशीतलो मरुदाववौ ॥
अतीव सौरभामोदवासिताखिलदिङ्मुखः
॥७५॥कनकांकितशृंगाग्रपरिधूतवनावलिः ॥
दर्पसंभ्रमसंनद्धो ननाद वृषभो मुहुः
॥७६॥वसंतप्रमुखाः सर्वे सहर्षमृतवः पुरः ॥
असेवंत प्रियकरैः पुष्पैः स्वयमथोचितैः
॥७७॥गणैश्च विविधाकाराः सिद्धाश्च परमर्षयः ॥
सुराश्च कुतुकोपेताः समागच्छन्दिदृक्षवः
॥७८॥कुंकुमक्षोदसंमिश्रकर्पूररजसान्वितः ॥
चर्यामुष्टिमहासारः समकीर्यत सर्वतः
॥७९॥अथ मृदंगकमर्दलझल्लरीपटहदुंदुभितालसमन्वितैः ॥
जलजकीचककाहलनिस्वनैः सुरकृतैर्भुवन समपूरयन्
॥८०॥सुरवधूजननृत्तनिरंतरोल्लुलिततुंबरुगायनगीतिभिः ॥
अभिवृतो मुनिदेवगणान्वितो वृषगतः समदर्शि वृषध्वजः
॥८१॥सरसमेत्य शिवः करुणानिधिर्नतमुखीमपि तामपलज्जया ॥
ललितमंकमनंगरिपुः शिवां धृतिमहानधिरोप्य जहर्ष सः
॥८२॥ललितया निजया प्रिययान्वितः सुरमुनींद्रसमाजसमावृतः ॥
ललितमप्सरसां मुहुरादरान्नटनमैक्षत गीतिसमन्वितम्
॥८३॥अथ शिवः सुरराजसमर्पिताञ्छुभपटीरमुखानिलसौरभान् ॥
हिमगिरिप्रहितांश्च समग्रहीन्मृगमदैः सह गंधसमुच्चयान्
॥८४॥समनुलेपितहारसुमंडितावभिगतौ सिततां समलंकृतौ ॥
स्वयमपीतकुचाकुचकुड्मलावरणरंभणचञ्चलसत्करौ
॥८५॥कठिनतुंगघनस्तनकोरकस्थगितमंगलगंधमनोहराम् ॥
गिरिसुतामधिगम्य शिवः स्वयं विरहतापमशेषमपाकरोत्
॥८६॥अथ विनोदशतैरुपलक्षितां निजवियोगजताप कृशान्विताम् ॥
अरुणशैलपतिः स्वयमद्रिजां वरमभीप्सितमर्थय चेत्यशात्
॥८७॥सकुतुकं प्रणिपत्य नगात्मजा पुररिपुं भुवनत्रयगुप्तये ॥
इममयाचत शोणगिरीश्वरं वरमुदारमनुग्रहसंमुदम्
॥८८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्याः शिवसमागमवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥