मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १६

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 16

मंदिरवर्णनम्

ब्रह्मोवाच

देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ॥

विना भायैक्यसुलभं भवदीयमनुग्रहम्

॥१॥

अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ॥

न स्तोतुं शक्यते किं तु नमस्कुर्वंति दूरतः

॥२॥

को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ॥

त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः

॥३॥

पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ॥

बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे

॥४॥

षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ॥

कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः

॥५॥

किरातः किल देवस्त्वं सारमेयैः किलागमैः ॥

षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम्

॥६॥

देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ॥

कांकां शिक्षामकार्षीन्न इति कापि विडम्बना

॥७॥

तव कालाग्निरूपस्य सर्वब्रह्मांडदाहिनः ॥

पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी

॥८॥

कृतापराधः शूलेन त्वया दीर्णो जलंधरः ॥

अन्तकोंधकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते

॥९॥

अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ॥

कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम्

॥१०॥

देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ॥

प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा

॥११॥

अंघ्रिणाक्रांतवान्नो चेदत्युग्रां त्वमपस्मृतिम् ॥

तयाक्रांतमिदं कृत्स्नमंधकारायते जगत्

॥१२॥

अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ॥

प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम्

॥१३॥

भवता स्तंभितः शम्भो संरंभाज्जंभजिद्भुजः ॥

कियंतं हंत कालं ते जयस्तंभ इव स्थितः

॥१४॥

भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः ॥

शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय

॥१५॥

न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकंपया ॥

निर्वापयेत्कथं वैरं क्रुद्धोपि जमदग्निभूः

॥१६॥

नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ॥

स एव संहरेद्विश्वं हिरण्यकशिपोरपि

॥१७॥

त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ॥

हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम्

॥१८॥

एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ॥

शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुपः

॥१९॥

नंदिकेश्वर उवाच

स्तुत्यैवमस्य विष्णोश्च प्रार्थनेन प्रसेदिवान् ॥

धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत

॥२०॥

समँज्यासु द्विजानां च पूजनं चानुशिष्टवान् ॥

उभावप्यब्रवीदेतौ वात्सल्याच्चद्रशेखरः

॥२१॥

श्रीशिव उवाच

वत्सौ युवां न ज्ञात्वैवं भूयो भवतमुद्धतौ ॥

गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः

॥२२॥

इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः ॥

पुण्यक्षेत्रमिदं पुंसां ततो मोक्षाय कल्पताम्

॥२३॥

योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम् ॥

दीक्षादिकं विनाप्यस्तु मत्सायुज्यं ममाज्ञया

॥२४॥

यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम् ॥

अबुद्धिपूर्विका बुद्धिरपवर्गस्य जायताम्

॥२५॥

नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा ॥

अस्तु वेदांतविज्ञानं न साध्यं निष्प्रयासतः

॥२६॥

शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती ॥

अरुणाद्रिरिति ख्याता नित्यमेवात्र वर्त्तताम्

॥२७॥

युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः ॥

न चालयेयुर्मरुतो न दहेयुश्च वह्नयः

॥२८॥

ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित् ॥

क्रमंता निर्गमागत्या खेचराणि समंततः

॥२९॥

यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः ॥

देहांते कल्पतां मुक्त्यै विनौपनिषदीर्गिरः

॥३०॥

एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात् ॥

अपि पापात्मनां पुंसामस्तु निश्रेयसप्रदः

॥३१॥

अत्रैव नियतं वासाः संभवंति महात्मनाम् ॥

तस्मात्स्थलमिदं हित्वा न गंतव्यं कदाचन

॥३२॥

शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये ॥

तस्माद्युवां विधिहरी वसतं चात्र नित्यशः

॥३३॥

नंदिकेश्वर उवाच

इत्युक्तवंतं कामारिं प्रणम्य विधिमाधवौ ॥

तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ

॥३४॥

विधिमाधवावूचतुः

एवमेतज्जगदाधार जगदाधारतां गतः ॥

आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम्

॥३५॥

अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत् ॥

तिष्ठत्वभेद्यमहिमा निश्रेयसमहाखनिः

॥३६॥

विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये ॥

प्रत्यब्दं कार्त्तिके मासि कृत्तिकासु दिनात्यये

॥३७॥

शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात् ॥

महत्त्वादर्चितुं शक्यो न स्याद्भक्तस्य कस्यचित्

॥३८॥

एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात् ॥

देवेन सन्निधातव्यमवन्यां लिंगरूपिणा

॥३९॥

तच्चारुणगिरीशानमावामाराधयावहे ॥

अभिषेकानुलेपाद्यैरुपचारैर्यथाविधि

॥४०॥

संत्यत्र केशराश्चूता नागपुंनागकेसराः ॥

आरग्वधाः कुरबका मालूराः पाटला अपि

॥४१॥

अत्रैव सन्निधातव्यं देवदेव दयानिधे ॥

यतस्त्वद्भक्तिदार्ढ्यं नौ भवतात्त्वदुपासनात्

॥४२॥

नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि ॥

अनाद्यविद्यावृतये यो भविष्यति नित्यशः

॥४३॥

शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः ॥

स एवालं निवासाय देवस्य हृदयंगमः

॥४४॥

सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः ॥

कृत्वा च सकलाः प्रोक्ता भवतैव भवावयोः

॥४५॥

निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा ॥

अष्टाविंशतिराख्याता आगमाः शैवसंज्ञिताः

॥४६॥

तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम् ॥

कदाप्यज्ञानजामार्तिं नाधिगच्छाव शंकर

॥४७॥

नंदिकेश्वर उवाच

इति तौ धातृगोविंदौ पादपद्मावलंबिनौ ॥

जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः

॥४८॥

श्रीमहादेव उवाच

युक्तमुक्तमिदं भद्रौ मयाप्येवं मनीषितम् ॥

कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः

॥४९॥

मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता ॥

अधुना मत्प्रसादेन पुनरुद्भासतां हृदि

॥५०॥

नन्दीश उवाच

इत्युक्त्वा श्रीशवागीशौ गिरिशोऽन्तरधादथ ॥

तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम्

॥५१॥

तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ ॥

मुहुः प्रणम्य सानंदं प्रार्च्य तुष्टुवतुश्चिरम्

॥५२॥

तावकारयतां शोणगिरिनाथस्य चालयम् ॥

नानाशिल्पाद्भुतं विश्वकर्मणा प्रचयेन च

॥५३॥

खानयामासतुस्तत्र सरः किमपि पावनम् ॥

अभिषेकाय देवस्य सर्वतीर्थमयं नवम्

॥५४॥

अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम् ॥

सिद्ध्यै नोत्कंठते लब्ध्वा कैलासायापि धूर्जटिः

॥५५॥

तस्यां ब्रह्मर्षयो देवा गंधर्वा दिव्ययोषितः ॥

सिद्धविद्याधरा यक्षाः पौरत्वं समुपाययुः

॥५६॥

तीर्थानि धार्य कूपत्वं गंगाद्याः सरितस्तथा ॥

नंदनादीनि च वनान्यभवन्निष्कुटत्वतः

॥५७॥

गोलोको गोगोष्ठतया नैगमत्वं किलागमाः ॥

शैलाश्च गोपुरादित्वं स्मृतयो विधितां ययुः

॥५८॥

भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः ॥

प्रपन्ना मानुषं देहं तस्यां किल पृथग्जनाः

॥५९॥

देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् ॥

योगित्वं समुपास्थाय मात्राकौपीनमुण्डधृक्

॥६०॥

न केनचिदविज्ञातः सदा सर्वत्र दीप्यति ॥

तौ च केशवलोकेशौ जटिलौ भस्मगुण्ठितौ

॥६१॥

दांतौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम् ॥

तत्रत्यानां च सर्वेषां वर्णानामानुगुण्यतः

॥६२॥

दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ ॥

क्रमेण हृतनिर्माल्यौ सर्वागमरहोविदौ

॥६३॥

प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम् ॥

मंत्रं चारुणनाथस्य तत एव रहः श्रुतम्

॥६४॥

जंजल्पाकौ जजपतुः सर्वमंत्राधिकं सदा ॥

धूपप्रदीपनैवेद्यैर्गीतवादित्रनर्तनैः

॥६५॥

प्रदक्षिणानमस्कारैर्मुद्राबंधैर्नवैर्नवैः ॥

आसनेन च मूर्त्त्या च मूलेन च यथाविधि

॥६६॥

पंचब्रह्मषडंगाद्यैरर्चयामासतुः शिवम् ॥

एवं वर्षसहस्राणि षोडशारुणशंकरम्

॥६७॥

वेधोविष्णू समाराध्य शिवज्ञानमवापतुः

॥६८॥

इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत् ॥

निवेदितं चाद्य तदेव तुभ्यं किमन्यदाकर्णयितुं मनीषा

॥६९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणाचलेश मंदिरवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥