मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १५

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 15

ब्रह्मकृतशिवस्तुत्युद्यमवर्णनम्

नंदिकेश्वर उवाच

तेजःस्तंभं विनिर्भिद्य संध्याभ्रमिव चंद्रमाः ॥

कैलासकूटधवलं वृषेन्द्रमधितस्थिवान्

॥१॥

जटाजूटवता बालचंद्रचूडेन मौलिना ॥

कपालमालिकां वैधीं स्रजं चारग्वधी दधत्

॥२॥

नागकुंडलिभिः फालफलकोद्भासिलोचनैः ॥

पंचभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकंधरैः

॥३॥

शूलं कपालं डमरुं सारंगं परशुं धनुः ॥

खट्वांगममलं खड्गं दोर्भिर्नागं च धारयन्

॥४॥

श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ॥

सर्वालंकारसंपन्नः सर्वदेवैरभिष्टुतः

॥५॥

परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ॥

रूपं दृष्ट्वा स आनंदं ननर्त्त नलिनेक्षणः

॥६॥

न किंचिदपि जानानो मुमोह च सरोजभूः

॥७॥

दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः ॥

अथोदतिष्ठिपच्च तं सहुंक्रियश्चतुर्मुखम्

॥८॥

जगाद चाधिकारितामदाद्युवां समुद्धतौ ॥

न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम्

॥९॥

परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ॥

अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान्

॥१०॥

अशासि पंचवक्त्रता यदोपहासितो ह्यहम् ॥

पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत्

॥११॥

तृतीय एष मंतुरप्यहो कथं नु सह्यते ॥

तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः

॥१२॥

अयं च केतकच्छदो यदाप कूटसाक्षिताम् ॥

अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम्

॥१३॥

शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत

॥१४॥

श्रीमहेश्वर उवाच

वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ॥

ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः ॥

माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा

॥१५॥

न तवातः परं जातु भक्तिहानिर्भवेन्मयि ॥

प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये

॥१६॥

इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ ॥

भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवंदनः

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनंनाम पञ्चदशोऽध्यायः ॥ १५ ॥