मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १७

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 17

शिवपार्वतीविहारवर्णनम्

सूत उवाच

इति श्रुत्वास्य वचनं मार्कंडेयोऽभ्यभाषत ॥

मार्कंडेय उवाच ॥

श्रुतमेव मया देव श्रोतव्यं भवतो मुखात्

॥१॥

तथापि कौतुकेनाहमाक्रांतो मुनयोऽप्यमी ॥

गौर्या कथं तपस्तप्तं महादेव्यात्र कथ्यताम्

॥२॥

नंदिकेश्वर उवाच

कथयामि तदप्येतद्यथाऽधिगतमात्मना ॥

शृणु त्वमवधानेन मार्कंडेय महामते

॥३॥

ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः ॥

उपयेमे सतीं नाम सतीनामधिदेवताम्

॥४॥

यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ ॥

योगादहासीदात्मीयं वपुरित्यपि ते श्रुतम्

॥५॥

तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम् ॥

अध्वरध्वंसनं दक्षस्यापि ते विदितं महत्

॥६॥

अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखंडनम् ॥

ब्रह्माच्युतेंद्रमुख्यानां देवानामपि शिक्षणम्

॥७॥

दंतघातं रवेः पाणिपाटनं जातवेदसः ॥

अदितिप्रभृतीनां च दिव्यस्त्रीणां पराभवम्

॥८॥

सा च देवी पुनर्जन्म लेभे हिमवतो गृहे ॥

उमेति पार्वतीत्याख्यां द्वितीयां विभ्रती पुनः

॥९॥

देवः स्थाणुवने तां च परिचर्यापरं रहः ॥

अरुरोचयिषुः काममधाक्षीत्कालवह्निना

॥१०॥

जितेंद्रियं च तं देवं क्वापि यातं गणैः सह ॥

तपोभिस्तोषयामास गौरी शिखरवासिनी

॥११॥

उपयम्याथ तां देवो वृत्तांतैश्चित्तखंडिभिः ॥

रमयामास चैकांते मोदस्वेति विलासिनीम्

॥१२॥

वैधव्यखिन्नया रत्या प्रार्थिता शैलनंदिनी ॥

कामपीठे तपस्यंती कामं प्रत्युददीपयत्

॥१३॥

पुनश्च मेनया मात्रा पित्रा च हिमभूभृता ॥

आनीता भवनं भर्त्रा साकं चिरमरंस्त सा

॥१४॥

तदा शुंभनिशुंभाख्यौ लेभाते वेधसो वरम् ॥

देवदानवमर्त्येषु मास्तु नौ पुरुषान्मृतिः

॥१५॥

इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः ॥

अभ्यर्थितोऽवदद्देवो रहश्चक्रधरादिभिः

॥१६॥

माभैष्ट भद्र कालेन तथा प्रतिविधीयते ॥

यथा निषूदितौ स्यातां तादृशौ दानवाविति

॥१७॥

दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः ॥

अंतःपुरगतो रेमे देव्या सह यथा पुरा

॥१८॥

कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता ॥

तस्य प्रीत्यै कालिका च त्वचमेवाजहान्निजाम्

॥१९॥

यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी ॥

महाकाशीप्रपाताख्यं तदभूत्क्षेत्रमुत्तमम्

॥२०॥

सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी ॥

तपस्यंती वृषस्यंतौ तो जघान महासुरौ

॥२१॥

देवी च गौरी शिखरे तस्मिन्नेव मनोहरे ॥

तपोभिर्लब्धगौरीत्वाद्भर्त्तारं समतोषयत्

॥२२॥

क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती ॥

गजाननं च हेरंबं सेनान्यं च षडाननम्

॥२३॥

तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ ॥

पूर्वापराधशुद्ध्यर्थं देवीगर्भसमुद्भवौ

॥२४॥

वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः ॥

मग्नयोरिव वर्षाब्धौ प्रेमग्रंथिरभूद्दृढा

॥२५॥

जातु वीणानिनादेन कदाचिच्चित्रलेखनैः ॥

विजह्रतुश्शिवौ स्वैरमेकदा मंडनैर्मिथः

॥२६॥

जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः ॥

एकदा लोकवृत्तांतैर्दंपतिभ्यां विनोदितम्

॥२७॥

पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः ॥

अदीव्यतां च रागार्द्रौ दोलाकेलिभिरेकदा

॥२८॥

मैनाकेनार्चितौ जातु मेनया जातु पूजितौ ॥

जात्वर्हितौ हिमवता दंपती तौ विनोदितौ

॥२९॥

जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन ॥

एकदा दानलीलाभिः शिवौ चिक्रीडतुश्चिरम्

॥३०॥

द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम् ॥

वलयीकृतमेणांकं ताटंकीकृतवत्युमा

॥३१॥

इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु ॥

रुचिरेषु पदेषु कामभोगानतिहृद्यान्सुचिरं किलान्वभूताम्

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवपार्वतीविहारवर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥