उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनम्
मार्कंडेय उवाच
भगवन्वंचनेनालं त्वदेकप्रवणे मयि ॥
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी
॥१॥स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ॥
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो
॥२॥चराचराणां भूतानां जानतामप्यजानताम् ॥
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक
॥३॥पश्यैतेन मयैकेन भगवान्नानुराध्यसे ॥
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे
॥४॥पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ॥
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा
॥५॥जाबालिना जैमिनिना धौम्येन जमदग्निना ॥
उपयाजेन याजेन भरतेनार्वरीवता
॥६॥पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ॥
कुमुदाक्षेण कुत्सेन वत्सेन वरतंतुना
॥७॥विभांडकेन व्यासेन कण्वरीषेण कंडुना ॥
मांडव्येन मतंगेन कुक्षिणा मांडकर्णिना
॥८॥चंडकौशिकशांडिल्यशाकटायनकौशिकैः ॥
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः
॥९॥आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः ॥
भारद्वाजेन दाल्भ्येन दांतेन श्वेतकेतुना
॥१०॥कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ॥
वाल्मीकिना नारदेन वह्निना दृढमन्युना
॥११॥बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ॥
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना
॥१२॥कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना ॥
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता
॥१३॥लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना ॥
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः
॥१४॥ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः ॥
अंगिरोवामदेवौर्वपतंजलिकपिंजलैः
॥१५॥सनत्कुमारसनकसनंदनसनातनैः ॥
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः
॥१६॥मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ॥
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः
॥१७॥वैशंपायनकौशल्यशारद्वतकपिध्वजैः ॥
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः
॥१८॥कृष्णातपोत्तमानंतकरुणामलकप्रियैः ॥
चरकेण पवित्रेण कपिलेन कणाशिना
॥१९॥नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ॥
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे
॥२०॥माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ॥
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः
॥२१॥त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ॥
पूर्वमेव त्वया देव किं वान्यदुपपद्यते
॥२२॥दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ॥
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान्
॥२३॥त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ॥
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि
॥२४॥इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ॥
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम्
॥२५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥