लिंगोपरिभागशोधनवर्णनम्
नंदिकेश्वर उवाच
ततस्तेजोमयं स्तंभमनुसृत्य पितामहः ॥
उत्पपातोन्मुखो वेगान्निरालंबे नभस्तले
॥१॥द्रुतमुत्पततस्तस्य पक्षावेगेन वारिताः ॥
व्यशीर्यत समुद्वर्ताः प्रणुन्ना इव वायुभिः
॥२॥स वेगादुत्पतन्दूरं नाक्ष्णोर्विषयतामगात् ॥
केवलं दीर्घदीर्घैव रेखा व्योम्नि व्यभाव्यत
॥३॥मायामरालो ददृशे तेजःस्तंभस्यपार्श्वतः ॥
संध्यापयोधराभ्यर्णचारीव रजनीकरः
॥४॥प्रागत्यगादुत्पततां ततोऽध्वानं पयोमुचाम् ॥
विमानपदवीं पश्चात्तारावर्तं ततः परम्
॥५॥तेजसां यानि धामानि ह्यत्युच्चान्यूर्ध्वचारिणाम् ॥
अतिचक्राम वेगेन तान्यसौ कुहनाखगः
॥६॥मरुतो मनसो वापि जवः सूक्ष्मतराकृतेः ॥
सोऽभूदधःकृतस्तेन हंसेन गमनादिना
॥७॥यथायथा चोत्पपात सुदूरं श्रमितच्छदः ॥
तथातथा च ददृशे तेजःस्तंभः समुन्नतः
॥८॥अतीत्य मरुतां स्कंधान्सप्त संप्राप्तविस्मयः ॥
बिभेदांडकटाहं च ज्वलंतं तमुदैक्षत
॥९॥कथं वाऽदृष्टमूलस्य स्थातव्यं पुरतो हरेः ॥
अविमोचयतः शौरेरसमासमशीर्षताम्
॥१०॥अनिर्व्यूढप्रतिज्ञस्य दीर्घैः किं वा ममासुभिः ॥
तदत्रौपयिकं किं स्यात्कार्यं का मा गतिर्मम
॥११॥अतिसंधित्सतो विष्णुं कस्सहायो भविष्यति ॥
आर्जवं नैव निर्जेतुं प्रतिवादिनमक्षमः
॥१२॥छद्मना वा तिरस्कुर्यान्माना हि महतां धनम् ॥
इति संचितयत्येव विरिंचौ व्याकुलात्मनि
॥१३॥आकाशे ददृशे नातिदूरे किमपि निर्मलम् ॥
ऐंदवी किमियं रेखा तस्याः कथमिहागमः
॥१४॥यद्वा मृणालं तत्सिंधौ वियत्यस्यां कुतस्तु सः ॥
इति तस्मिन्ससंदेहे नेदीयस्तं तदागतम्
॥१५॥अबोधि केतकीबर्हमिति राजीवजन्मना ॥
तत्पर्युषितमप्युद्यत्सौरभं वस्तुशक्तितः
॥१६॥हिरण्यगर्भो विमलमगृह्णात्केतकच्छदम् ॥
गृहीतमात्रं तेनैतत्सचैतन्यं किलाब्रवीत्
॥१७॥केतक उवाच
भो गृह्णासि किमर्थं त्वं मुंच मां विश्रमोद्यतम् ॥
वर्षाणां शतसाहस्रमुत्पत्यैवं विहायसा
॥१८॥नंदीश उवाच
तथा समेधमानं तं दृष्ट्वा श्रममखिद्यत ॥
अचिंतयत्पद्मसूतिरत्यंतं विहताशयः
॥१९॥अनिर्व्यूढप्रतिज्ञावान्नीचतामपि संश्रितः ॥
आक्रांतरोदोविवरः क्व राशिस्तेजसामसौ
॥२०॥अहमेतत्परीक्षायां क्व परिच्छिन्न पौरुषः ॥
भज्येते इव मे पक्षौ दृशा चांधायते इव ॥
प्रध्वंसंत इवांगानि पतामीवाहमप्यधः
॥२१॥किं वान्यद्बहुनोक्तेन सह निश्वासवायुभिः ॥
मम प्राणाश्च नियतं निर्गच्छंतीव सांप्रतम्
॥२२॥अहंकारमदग्रंथिरयं त्रुटतु चित्ततः ॥
मुकुंदेन सह स्पर्धा सा च शीघ्ं प्रणश्यतु
॥२३॥यदेष रोदःकुहरपरिणाहाधिकोद्यमः ॥
औन्नत्यमयतेऽद्यापि तेजस्तंभो यथा पुरा
॥२४॥तदस्य तेजसां राशेर्नाहं नारायणोऽथवा ॥
कारणं दूरतश्चान्ये महेंद्रप्रमुखाः सुराः
॥२५॥इतो नोत्पतितुं शक्तिरस्ति मे तन्निवर्त्तये ॥
इति निश्चित्य मनसा विधाता जातविस्मयः
॥२६॥प्रत्यभाषत तं कस्त्वं कुतो वा प्राप्तवानिति ॥
स च प्रत्यब्रवीदेनं वेधसं केतकच्छदः
॥२७॥केतकच्छद एवासं सचैतन्यः शिवाज्ञया ॥
तेजस्तंभात्मनः शंभोरस्य मूर्ध्नि चिरं स्थितः
॥२८॥भूलोक इच्छया वस्तुं ततः संप्राप्तवानहम्
॥२९॥इत्थं श्रुत्वा केतकीबर्हवाचं लब्ध्वाश्वासं तं किलांभोजभूतिः ॥
ब्रूहि त्वं मे तत्कियत्यंतरे वा तेजःस्तंभस्याग्रमित्यावभाषे
॥३०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणा लिंगोपरिभागशोधनवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥