मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ७

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 7

काम्यकर्मवर्णनम्

नंदिकेश्वर उवाच

रक्तोत्पलैरर्कवारे यः शोणाद्रीशमर्चयेत् ॥

अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः

॥१॥

सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः ॥

यः पूजयति तस्य स्यात्सत्यलोके सुखासिका

॥२॥

गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः ॥

जनलोके चिरं वासः सिद्धैः सह भविष्यति

॥३॥

चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत् ॥

तपोलोकं प्रपद्येत ब्रह्मर्षिभिरभिष्टुतः

॥४॥

सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम् ॥

न जातु यमलोकानां पापीयानपि कल्पते

॥५॥

प्रथमायां तिथौ देवस्योपहारं समर्पयेत् ॥

यः पायसेन स भवेद्धनधान्यसमृद्धिमान्

॥६॥

द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत् ॥

स भवेद्भाग्यवाञ्छ्रेष्ठः सोमपाश्च भवेद्ध्रुवम्

॥७॥

तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत् ॥

तस्या व्याहतमारोग्यमाशरीरं भविष्यति

॥८॥

चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम् ॥

निवेदयति यस्तस्य भवेत्पूर्णमनोरथः

॥९॥

मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत ॥

शोणेश्वराय भक्त्या यः स स्यादक्षय्यवैभवः

॥१०॥

षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे ॥

भक्त्या यस्तस्य सन्तानो न कदाचित्प्रहीयते

॥११॥

तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत् ॥

स दीनोऽप्यधमर्णत्वमयत्नेन व्यपोहति

॥१२॥

अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे ॥

तस्य सेवां विनापि स्याद्राजलोको वशीकृतः

॥१३॥

गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत् ॥

राजयक्ष्मादयस्तस्य न भविष्यंति जातु च

॥१४॥

दशम्यां शोणनाथाय यः करंभं निवेदयेत् ॥

स भवेत्सर्वलोकानां सदैव प्रीतिभाजनम्

॥१५॥

पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत् ॥

अरुणाचलनाथस्य स भवेदकुतोभयः

॥१६॥

द्वादश्यां शोणनाथाय सूपौदननिवेदनम् ॥

यः करोति भवेत्तस्य निर्विघातो मनोरथः

॥१७॥

यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत् ॥

तस्या व्याकुलचित्त्वमश्रांतमपि जायते

॥१८॥

अर्पयेच्छोणनाथाय फलानि विविधानि यः ॥

चतुर्दश्यां स मूढोऽपि सिद्धसारस्वतो भवेत्

॥१९॥

यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् ॥

पनसस्य फलं तस्य चक्षूरोगो न जायते

॥२०॥

कुह्वां च संगमे भक्त्या कंदमूलादि योऽर्पयेत् ॥

शोणाचलेश्वरायास्य तुष्यंति पितरः किल

॥२१॥

अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान् ॥

भरण्यामरुणेशाय दद्यादाभरणान्यपि

॥२२॥

कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत् ॥

मृगशीर्षे मलयजमार्द्रायां हरिचंदनम्

॥२३॥

पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत् ॥

काश्मीरोद्भवमाश्लेषे मघायां तुहिनोदकम्

॥२४॥

तांबूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने ॥

कालागुरूंश्च हस्तर्क्षे चित्रायां यक्षकर्दमम्

॥२५॥

स्वात्यां सुवासिनीवृंदं विशाखायां प्रकीर्णकम् ॥

मैत्रे मुक्तातपत्रं च ज्येष्ठायां धैनुकान्यपि

॥२६॥

मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत् ॥

रत्नानि चोत्तराषाढे श्रवणे भद्रपीठिकाम्

॥२७॥

अष्टापदं धनिष्ठायां वासः शतभिषज्यपि ॥

पूर्वाभाद्रपदे भोगानुत्तरायां तुरंगमान्

॥२८॥

रेवत्यां च रथं हैमं प्रदद्याच्छोणशंभवे ॥

दद्यात्कृत्वा महापूजां तत एवार्पयेन्नरः

॥२९॥

पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः ॥

सिंदुवारैः कुरबकैः ककुभैः पाटलैः क्रमात्

॥३०॥

कुटजैर्नीपकुसुमैर्जीवंतीमल्लिकादिभिः ॥

सरोरुहैर्दमनकैर्नद्यावर्तसरोरुहैः

॥३१॥

पंचामृतेन स्नपयन्नुभयोरुपरागयोः ॥

पंचाक्षरेण कुर्वीत शोणनाथस्य भक्तितः

॥३२॥

स्नपनं पञ्चगव्येन द्वयोरयनयोरपि ॥

षडक्षरेण कुर्वीत गव्येन स्नपनक्रियाम्

॥३३॥

प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् ॥

अरुणाचलनाथस्य भक्त्या विषुवयोर्द्वयोः

॥३४॥

प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम् ॥

अपराह्णे मल्लिका च शोणाद्रीशस्य शस्यते

॥३५॥

अद्धोदये च स्नपयेत्सहस्रकलशोदकैः ॥

शतरुद्रीयमुच्चार्य श्रीशोणाचलशंभवे

॥३६॥

शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः ॥

कमलैः कर्णिकारैश्च जागरूको यतेंद्रियः

॥३७॥

गीतवादित्रनृत्यैश्च दिव्यागमविधानतः ॥

पूजयेदपवर्गार्थं शोणशैले महेश्वरम्

॥३८॥

मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् ॥

नवान्नैरुपदंशाद्यैर्व्याहृतीरुच्चरन्बुधः

॥३९॥

वैशाखे च विशाखायां शिवतंत्रानुसारतः ॥

शोणाचलेश्वरस्यास्य कुर्याद्दमनकोत्सवम्

॥४०॥

प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः ॥

महापूजां प्रकुर्वीत शोणशैलस्य भक्तिमान्

॥४१॥

शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु ॥

सोमार्कवारयोश्चार्चेच्छोणाद्रीशं यथागमम

॥४२॥

दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि ॥

विशेषपूजां कुर्वीत शोणनाथस्य भक्तिमान्

॥४३॥

अपि स्वजन्मनक्षत्रे संपत्स्वापत्सु भीतिषु ॥

प्रवेशनिर्गमनयोश्चार्चनीयोऽरुणेश्वरः

॥४४॥

व्रतिचक्रागमे पादबंधने नववैभवे ॥

अरुणेशार्चनं कुर्यादभियानेषु च द्विषाम्

॥४५॥

स्मरेदतिदवीयांश्चेत्पश्येत्पर्यंतगो यदि ॥

स्थितश्चेदरुणक्षेत्रे त्रिकालं पूजयेच्छिवम्

॥४६॥

किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते ॥

अरुणक्षेत्रतो नान्यदलं स्वर्गापवर्गयोः

॥४७॥

स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः ॥

जिह्वां च कीर्त्तनाच्छोणक्षेत्रं सद्यः पुनात्यलम्

॥४८॥

अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः ॥

जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः

॥४९॥

अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा ॥

अपि पापात्मनां पुंसामपवर्गो भविष्यति

॥५०॥

अयोध्यां मथुरां मायां काशीं कांचीमवंतिकाम् ॥

द्वारकां चारुणक्षेत्रमतिशेते न संशयः

॥५१॥

इत्युक्तवंतं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच

माहात्म्यमेतन्महनीयकीर्ते भूयोपि पृच्छामि वदस्व मह्यम्

॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे काम्यकर्मवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥