मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय २३

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 23

कलाधरकांतिशालिवृत्तांतवर्णनम्

कलाधर उवाच

कांबोजेषु हयो भूत्वा कांतिशाली सुहृन्मम ॥

अयासीदौपवाह्यत्वं भवतो राजपुंगव

॥१॥

अहं च गंधमृगतां गतः स्वांगप्रसूतिना ॥

सुगंधिना मदेनास्य संचारं चाचरं गिरेः

॥२॥

धर्मात्मन्मृगयाव्याजादागतेन त्वयाधुना ॥

आवां शोणाद्रिनाथस्य प्रापितौ हि प्रदक्षिणाम्

॥३॥

वाहारोहणदोषेण तवासीदीदृशी दशा ॥

पादप्रचारपुण्येन प्राप्तं नौ प्राक्तनं पदम्

॥४॥

राजेंद्र तव संबंधादस्मात्तिर्यक्त्वबंधनात् ॥

मुक्तावावां स्वकं धाम प्राप्तौ स्वस्त्यस्तु ते सदा

॥५॥

इत्युदीर्य निजं धाम यियासंतं कलाधरम् ॥

कांतिशालिनं च राजा जगाद रचितांजलिः

॥६॥

एवं युवां शोणशैलशंकरस्य प्रभावतः ॥

शापार्णवं समुत्तीर्णौ कथं मे पुनरुच्छ्रयः

॥७॥

भ्राम्यतीव मम स्वांतमाधाय तदवेक्षणम् ॥

निर्यांतीव मम प्राणास्तत्र दैवं बलोत्तरम्

॥८॥

कलाधरकांतिशालिनावूचतुः

अवधारय निस्तारं कथयाव तवास्यदम् ॥

समाहितेन मनसा निर्धूतनिखिलाधिना

॥९॥

जगत्सर्गस्थितिध्वंसविधानानुग्रहेश्वरे ॥

अरुणाद्रीश्वरे चित्तं निधेहि करुणानिधौ

॥१०॥

प्रत्यक्षितं त्वयेदानीमस्य देवस्य वैभवम् ॥

तिरश्चोरावयोरेतदीदृशत्वं वितन्वतः

॥११॥

कुरु प्रदक्षिणां पादचारी मृगमदादृतैः ॥

कल्हारैः पूजयेशानं देवं मृगमदप्रियम्

॥१२॥

यावती तव संपत्तिस्तावतीमखिलां विभो ॥

प्राकारगोपुरागारनवीकाराय कल्पय

॥१३॥

अचिरादेव सिद्धिस्ते भविष्यति गरीयसी ॥

मनुमांधातृनाभागभगीरथवदाधिका

॥१४॥

नंदिकेश्वर उवाच

इत्थं निशम्य च तयोर्निजमेव धाम विद्याभृतोः सपदि संश्रुतयोर्नरेन्द्रः ॥

निःसंशयेन मनसा निरतस्तदानीं भक्तिं बबंध भगवत्यरुणाद्रिनाथे

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कलाधरकांतिशालिवृत्तांतवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥