मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ५

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 5

शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान्

नंदिकेश्वर उवाच

शुद्धसत्त्वगुणोपेतो लोकेऽस्मिन्दुर्लभः पुमान् ॥

रजस्तमोगुणोपेता भवंति सुलभा नराः

॥१॥

सात्त्विकः पुण्यशीलत्वान्निःश्रेयसमवाप्नुयात् ॥

वैचित्र्यात्कर्मणामेषामनुभोगाय वेधसा

॥२॥

वैचित्र्याण्येव सृष्टानि नरकाण्यत्र तत्र च ॥

महारौरवभाग्भूत्वा खरः श्वा शूकरोऽपि वा

॥३॥

चंडालो वा भवेत्प्रेत्य पुरुषो ब्रह्महत्यया ॥

चिरं रौरवसंरुद्धः कृमिकीटपतंगताम्

॥४॥

प्राप्नुयात्कर्मकर्तृत्वं सुरापानेन च द्विजः ॥

ब्रह्मस्वहरणाद्ब्रह्मराक्षसत्वमवाप्नुयात्

॥५॥

यद्यत्तु चोरयेत्तत्तच्छून्यं स्यादन्यजन्मनि ॥

असिपत्रवने पीडामवाप्य सुचिरं पुनः

॥६॥

नपुंसकत्वं संगच्छेत्पुरुषो गुरुतल्पगः ॥

तप्तैः कालायसैर्दंडैः पीडितो यमकिंकरैः

॥७॥

नरके कालसूत्राख्ये निवसेत्परदारगः ॥

अग्निदो निवसेद्घोरे सुघोरे गरदायकः

॥८॥

महाघोरे च पिशुनोऽवीच्यां धर्मविनिंदकः ॥

वसेत्कराले मित्रध्रुग्भीमे हिंसैकतत्परः

॥९॥

संहारे छन्नपापिष्ठो मृषावादी भयानके ॥

असिघोरे वसेद्वापि कूपक्षेत्रनरादिहृत्

॥१०॥

वज्रे परद्रोहरतो मांसाशी तरले द्विज ॥

तीक्ष्णे मातृपितृद्रोही तापने जपदूषकः

॥११॥

अश्वघ्नोपि निरुच्छ्वासे वसेद्गोघ्नश्च दारुणे ॥

भ्रूणहा निवसेच्चंडे स्त्रीहत्याकृत्कुकूलके

॥१२॥

देवस्वहारी दहने घोरघोरे परस्वहृत् ॥

कृतांतदूता नरके सर्वानेव हि पापिनः

॥१३॥

बध्नंति पाशैर्निघ्नंति दंडैर्विध्यंति शंकुभिः ॥

तीक्ष्णायश्चंचवः कंकाः क्रूरदंष्ट्रा महोरगाः

॥१४॥

कालेयकाश्च व्याघ्राश्च हिंस्राश्चान्ये दशंत्यमून् ॥

शकलीकुर्वते शस्त्रैर्दहंतिदेहमेव च

॥१५॥

खनंति गहने श्वभ्रे कशाभिस्ताडयंति च ॥

तैलद्रोण्यां विपच्यंते तुद्यंते सूक्ष्मसूचिभिः

॥१६॥

बाह्यन्ते दुर्वहान्भारान्यमदूतैर्हि पापिनः ॥

ब्रह्महा क्षयरोगी स्यत्सुरापः श्यावदंतकः

॥१७॥

स्वर्णापहारी कुनखी दुश्चर्मा गुरुतल्पगः ॥

अपस्मारी गुरुद्रोही चंडालो वेददूषकः

॥१८॥

कूटसाक्षी चाक्षिरोगी मंदाग्निश्चाग्रभोजनः ॥

विद्यापहारी मूकः स्यादंधः पुस्तकचोरकः

॥१९॥

परदाररतः पंगु बधिरः परनिंदकः ॥

विड्वराहो निराचारो जिह्वारोगी च तस्करः

॥२०॥

अभ्यागतातिथित्यागी कपोलकंटको भवेत् ॥

पर्वसु स्त्रीरतो मेही पूत्यास्योऽभक्ष्यभक्षकः

॥२१॥

मर्यादाभेदको दासस्तटाकारामहृत्खरः ॥

प्रतिश्रुताप्रदाता स्यादल्पायुः श्वा विकत्थनः

॥२२॥

विष्णुद्रोही च सरठः शिवद्रोही च मूषकः ॥

एवं पापफलं ज्ञात्वा प्रायश्चित्तं समाचरेत्

॥२३॥

तच्चास्मिन्नरुणक्षेत्रे कर्तव्यः सम्यगास्तिकैः

॥२४॥

इति निशम्य स दुष्कृतकारिणां बहुविधां नरकेषु नृणां व्यथाम् ॥

चरणयोः पतितश्च तदा पुनःपुनरयाचत तच्छमनक्रियाम्

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे कर्मविपाकवर्णनं नाम पंचमोध्यायः ॥ ५ ॥