मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १८

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 18

गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः

नंदिकेश्वर उवाच

गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः ॥

पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः

॥१॥

जातु संध्यानुसंधानमुकुलीकृतलोचनम् ॥

बद्धांजलिपुटं देवमद्राक्षीदद्रिनंदिनी

॥२॥

ध्यायते नूनमधुना कापि सौभाग्यशालिनी ॥

क्रियते यन्मयि प्रेम तन्मन्ये वचनं महत्

॥३॥

कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः ॥

मिथ्योपचाराद्दक्षेण वंचितास्म्यमुना भृशम्

॥४॥

मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः ॥

जनः सौभाग्यवान्यस्माद्भवति स्नेहभाजनम्

॥५॥

अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि ॥

मुग्धेंदुशेखरेणास्मि विप्रलब्धा स्मरारिणा

॥६॥

असमानानुरागेषु नारीणां मूढचेतसाम् ॥

सौभाग्यगर्वो लोकेषु परिहासाय केवलम्

॥७॥

इति प्रणयरोषेण देव्याः कलुषचेतसः ॥

हव्यवाहातपालीढमिवाननमलक्ष्यत

॥८॥

वाष्पवारिप्लवे तस्या आताम्रे च विलोचने ॥

नीलोत्पले जलापूर्णे इव भूम्ना विरेजतुः

॥९॥

यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत ॥

द्वेधाकृतमिवादर्शि मन्मथस्य शरासनम्

॥१०॥

अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः ॥

मुहुः प्रवालस्थायीव रक्ताशोकस्य पल्लवः

॥११॥

अतीव रज्यमाने तत्पार्वत्या गंडमंडलम् ॥

शाणावघर्षमाणिक्यदर्पणप्रतिमं बभौ

॥१२॥

अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ ॥

पद्मकोशाविवांतःस्थ चंचरीकप्रचालितौ

॥१३॥

अचिंतयच्च संभूय सौभाग्याभावतो ननु ॥

ममायमन्यस्त्रीचिंतां कुरुते चंद्रभूषणः

॥१४॥

तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम ॥

तपस्यते च सौभाग्यमर्जनीयं मयाधुना

॥१५॥

निमीलिताक्षिण्येवास्य गंतव्यं निभृतं मया ॥

न चेन्मां वारयत्येष कंठादुपरि भाषितैः

॥१६॥

वत्सौ तु वर्धयत्येव गंगेयमतिवत्सला ॥

देवस्तु न स्मरत्येव मामन्यस्त्रीपरायणः

॥१७॥

इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा ॥

अनिर्दिश्य दिशं कांचिद्यातुं व्यग्रा प्रचक्रमे

॥१८॥

चलावती माल्यवती मालिनी विजया जया ॥

वारिता अपि संरंभात्स्वामिनीमन्वयुः स्वयम्

॥१९॥

तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च ॥

सरांसि सरितश्चैषा विचचार समंततः

॥२०॥

भ्रमंती सह्यपादेषु द्राविडाख्ये सुनीवृति ॥

तीर्त्वा शक्त्यापगां देवी विजयां समभाषत

॥२१॥

दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः ॥

शृंगैस्संलक्ष्यतेऽष्टाभिर्नूनं माहात्म्यवान्गिरिः

॥२२॥

उपत्यकासु चैतस्य दृश्यंते तापसाश्रमाः ॥

अतीव पावनाः शांताः पुण्यारण्यमनोहराः

॥२३॥

गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम् ॥

प्रसीदतितरां चेत एषां संदर्शनेन मे

॥२४॥

एवमाह्रादयत्यालि क्रमेण गिरिनंदिनी ॥

तस्याद्रेर्जग्मुषी पार्श्वमपश्यत्कंचिदाश्रमम्

॥२५॥

लूतास्तंतून्नयंत्यत्र कुम्भीराः शैवलान्यपि ॥

शिशून्पुष्णंति नीवारैः सफरान्भूरिमायवः

॥२६॥

हरंत्यवकरान्वालैश्चमराः स्फीतरोमभिः ॥

समीकुर्वंति चोद्भूतैर्विषाणैर्यत्र सैरिभाः

॥२७॥

वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः ॥

क्रोडाः स्नानीयमृत्स्नां च यत्रर्षिभ्यो नयंत्यहो

॥२८॥

काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः ॥

कलापिसर्पैर्यत्रासुमार्जारैः सौहृदं श्रितम्

॥२९॥

हूयमानपुराडाशद्रव्यसौरभ्यहारिणी ॥

यत्र द्रुमांतरालेभ्यो धूम्या निर्याति पावनी

॥३०॥

पठंति शतरुद्रीयं यत्र वायसवैरिणः ॥

गृणंति काकाः स्तोत्राणि साम गायंति सारिकाः

॥३१॥

शाकशालिषु शार्दूलाश्चरंति च तथैव गाः ॥

सिंचंति पुष्करांभोभिः कुंभिनी यत्र पादपान्

॥३२॥

क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ॥

ददर्श सा तपस्यन्तं यं कंचिद्दृषिसत्तमम्

॥३३॥

अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने ॥

बद्धवीरासनं सम्यक्पावने कुशविष्टरे

॥३४॥

शालिशूकारुणाभाभिर्जटाभिर्भस्मपांडुरम् ॥

अचंचलाभिर्विद्युद्भिरिव शारदवारिदम्

॥३५॥

नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम् ॥

आवर्त्तयन्तं रुद्राक्षमालिकामग्रपाणिना

॥३६॥

प्रत्यग्रनिर्णेजनतो ह्यंत्यश्यानदशांचले ॥

वसानं वल्कलयुगे संध्याभ्रे भूभृतां यथा

॥३७॥

षड्वर्गहिंस्रबंधाय स्थापितां वागुरामिव ॥

उपवीतत्रयीमारादुरोगर्तस्य बिभ्रतम् ॥

कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम्

॥३८॥

पार्वत्युवाच

कस्त्वं कोऽयं गिरिवरो यत्र त्वं कुरुषे तपः

॥३९॥

स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः ॥

गौतमोऽहं मुनिर्मुक्त्यै तपसाराधये शिवम्

॥४०॥

इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन् ॥

प्रणम्य भक्त्या बहुशो नीतवानुटजं निजम्

॥४१॥

कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः ॥

जगन्मंगलमूलाय तपसे चान्वमन्यत

॥४२॥

ज्योतिःस्तम्भस्य संभूतिमारभ्यानुक्रमेण सः ॥

जगाद चास्यै शोणाद्रेर्महिमानमशेषतः

॥४३॥

शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम् ॥

यत्र संनिहितः शंभुर्ज्योतिर्लिंगात्मतां गतः

॥४४॥

वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते ॥

न तत्र मे तपः कर्तुमव्याक्षेपेण शक्यते

॥४५॥

अयं शोणगिरेः पादः प्रवालाचलनामवान् ॥

पुण्यारण्योपरुद्धत्वाद्रहस्यत्वं विगाहते

॥४६॥

तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् ॥

आराधये यथाशक्ति तपोभिः कल्पितात्मभिः

॥४७॥

ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत् ॥

क्रियतामाश्रमो देव्या कर्त्तव्यं हि तपश्चिरम्

॥४८॥

मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा ॥

उदयुंक्त तपः कर्त्तुं सुमहत्पर्वतात्मजा

॥४९॥

आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् ॥

शुभगां धुंधुमारिं च प्रागाद्याशास्वतिष्ठिपत्

॥५०॥

तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत् ॥

दुर्गामनर्गलस्फूर्तिमाज्ञानिर्वाहणक्षमाम्

॥५१॥

अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम् ॥

जटाभरत्वं तपसे गमयामास पार्वती

॥५२॥

हंसचिह्नदशं हित्वा दुकूलं मिहकालघु ॥

परुषं सुकुमारांगी परिधत्तेस्म वल्कलम्

॥५३॥

अपि प्रसूनावचयनिस्सहांगुलिपल्लवा ॥

अलावीदतितीक्ष्णाग्राण्यविकारं कुशानि सा

॥५४॥

वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः ॥

शिरीषमृद्वी शांडिल्यपल्लवान्युच्चिकाय या

॥५५॥

पावन्यां कमलानद्यां प्रातर्विहितमज्जना ॥

अर्चयामास रक्ताब्जैर्यथाविधि विभाकरम्

॥५६॥

दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः ॥

देवी निर्वर्तयामास देवर्षिपितृतर्पणम्

॥५७॥

वालुकामंडले सूर्यमावाह्याभ्यर्च्य पंकजैः ॥

कृतप्रदक्षिणा गौरी प्रणनाम सहस्रशः

॥५८॥

स्वयमेव प्रतिष्ठाप्य लिंगं किमपि शंकरम् ॥

आगमोक्तेन विधिना पूजयामास पार्वती

॥५९॥

आसनेन च मूर्त्या च मूलेनांगैश्च सा रविम् ॥

दंडिपिंगलमुख्यांश्च शक्तीर्दीप्तादिका अपि

॥६०॥

तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया ॥

तेजश्चंडे चार्चयित्वा निर्माल्यं च न्यवेदयत्

॥६१॥

अर्घेणातीव शुद्धेन संप्रोक्ष्य च समंततः ॥

द्वारवास्तु समभ्यर्च्य न्यासानपि चकार सा

॥६२॥

भूतशुद्धिं विधायान्वगंतर्यागं चकार सा ॥

हृदि पद्मासने चार्च्य ज्ञानधर्मादिकान्क्रमात्

॥६३॥

शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ ॥

केसराग्रे सोमविष्णू कर्णिकाग्रेऽग्निधूर्जटी

॥६४॥

तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपंचका ॥

अंगैर्दत्त्वा च पाद्यादीनुपचर्याभिषिच्य सा

॥६५॥

प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी ॥

भूयोपि पंचब्रह्माणि षडंगान्यप्यपूजयत्

॥६६॥

तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः ॥

कृत्वा सर्वोपचारांश्च वितताराष्टपुष्पिकाम्

॥६७॥

पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना ॥

प्रदक्षिणा प्रणामाद्यैर्नित्यं शिवमपूजयत्

॥६८॥

शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः ॥

सा जुहाव च पूजांते प्रणीते जातवेदसि

॥६९॥

परिकल्पितोपचारा च कंदमूलफलादिकैः ॥

स्वयं कृतोपचारेयमतिथीनभ्यपूजयत्

॥७०॥

अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः ॥

ह्रदे च शिशिरे चंद्रपीयूषाप्यायिताऽभवत्

॥७१॥

वर्षरात्रीषु धाराभिः सह वारिधरा पुनः ॥

सौदामिनीव ददृशे तमसि स्तिमिता कृतिः

॥७२॥

पाणिपादेन पद्मानि मुखेन च कलानिधिम् ॥

प्रदर्शयत्यनायासान्निन्ये सा हैमनीर्निशाः

॥७३॥

नीवारबीजदानेन सा मृगानप्यपोषयत् ॥

अज्ञातहिंसाभिभवानाश्रमोपांतवर्तिनः

॥७४॥

कृतालवालसलिलैः सुवालाकलशाहृतैः ॥

वात्सल्याद्वर्द्धयामास पूर्णानाश्रमपादपान्

॥७५॥

प्रदक्षिणां कृतवती शोणशैलं गिरींद्रजा ॥

सा मनोरथसंसिद्ध्यै नित्यं सह सखीजनैः

॥७६॥

पंचाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत् ॥

दध्यौ च देवं मनसा शोणपर्वतरूपिणम्

॥७७॥

अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः ॥

शिवनिगमविधानवेदिनी सा व्यरचयदद्रिसुता चिरं तपस्याम्

॥७८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनंनामाऽष्टादशोऽध्यायः ॥ १८ ॥