मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय १९

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 19

तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः

नंदिकेश्वर उवाच

तावत्कुतश्चिदाकर्ण्य तत्रस्थां महिषासुरः ॥

अवज्ञातसुरारातिर्विध्वंसितपुरंदरः

॥१॥

सर्वलोकजयी सिद्धविद्याधरभयावहः ॥

दुर्निग्रहो वरादासीच्छस्त्रास्त्रैरखिलैरपि

॥२॥

तीक्ष्णानामपि शापानामप्यगोचरतां गतः ॥

दर्पद्भिर्दानवैदैत्यैः कौणपैश्च निषेवितः

॥३॥

दूषको मुनिपत्नीनां धर्ममार्गोपघातकः ॥

बलात्पुलोम्नो नमुचेर्वृत्रादपि बलाधिकः

॥४॥

हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः ॥

तां विलोभयितुं कांचित्प्राहिणोत्किल दूतिकाम्

॥५॥

ततः सा तापसीवेषधारिणी गिरिजां प्रति ॥

सखीसमक्ष एवेदमुवाचानुचितं वचः

॥६॥

अरारु भीषणे भीरो निवसस्यत्र किं वने ॥

विहर्तुमुचिता रम्येष्ववरोधनवेश्मसु

॥७॥

किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम् ॥

निवेशितं तपसि च दैवतैरपि दुष्करे

॥८॥

हंसतूलमयीं शय्यां मुक्तामयवितानिकाम् ॥

हित्वा किमिति मृद्वंगि सुप्यते परुषाश्मसु

॥९॥

तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः ॥

तवानुरूपो नैवान्यो विद्यते दिविषत्सु च

॥१०॥

किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः ॥

यदि द्रक्ष्यसि तं सुभ्र त्यक्ष्यस्येव क्षणात्तपः

॥११॥

किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः ॥

स प्राहिणोदुपानेतुं दूतिकां मां स्मरातुरः

॥१२॥

इत्यत्यंतविरुद्धं तां ब्रुवाणामसमंजसम् ॥

देव्याश्चित्तस्थितिं ज्ञात्वा विजया निरकासयत्

॥१३॥

सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका ॥

गत्वा विदितवृत्तांतमकरोन्महिषासुरम्

॥१४॥

सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः ॥

देवीं जिघृक्षुरभ्यागाद्वृतो दैतेयकोटिभिः

॥१५॥

स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समंततः ॥

भुवमाच्छादयामास ध्वजैश्च गगनांतरम्

॥१६॥

क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत् ॥

पादाघातैश्च दैत्यानां विदद्रे वसुधातलम्

॥१७॥

करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः ॥

बाष्कलो दुर्मुखश्चंडः प्रचंडश्चामरासुरः

॥१८॥

महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः ॥

ज्वालास्यो दहनश्चेमे सेनान्योपि प्रतस्थिरे

॥१९॥

कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः ॥

शंकिता दैत्यसंहृत्यै दुर्गामादिशति स्म सा

॥२०॥

सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम् ॥

दीप्तायुधधरैर्दोर्भिः कालिकेव महीं गता

॥२१॥

घनाघनरवोदग्रं सिंहनादमचीकरत् ॥

स्फुरद्दंतच्छदोपांतं वल्गदंगुलिपल्लवा

॥२२॥

स्वांगेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा ॥

देव्याः प्रियाय दैतेयसंहारार्हाः सहस्रशः

॥२३॥

काश्चित्तत्रारुणच्छाया दंडिन्यो हंसवाहनाः ॥

मुखैश्चतुर्भिराजग्मुः कोपप्रस्फुरिताधरैः

॥२४॥

निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः ॥

निस्वनद्भूषणाः पंसल्ललाटा वृषवाहनाः

॥२५॥

निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः ॥

शक्तिदंडाभयकराः शतशः षड्भिराननैः

॥२६॥

निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा ॥

शंखचक्रधराः सूर्यचंद्रमोभ्यां दिवो यथा

॥२७॥

प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः ॥

पोत्रैः सद्घर्घरारावैर्बिभ्रत्यो मुसलं हलम्

॥२८॥

रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः ॥

प्रतस्थिरे शातकोटिशतकोटिधराः पराः

॥२९॥

अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ॥

खड्गखेटकधारिण्यः कोपेन कपिलाननाः

॥३०॥

ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः ॥

अरुन्धन्प्रसभं ध्वांतराशीनिव रवेस्त्विषः

॥३१॥

ततश्च योगिनीचक्रदानवानीकयोर्मिथः ॥

प्रावर्त्तत रणं घोरं मुष्टामुष्टि कचाकचि

॥३२॥

सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः ॥

आच्छादयन्महीपृष्ठं स्थलजानीव सर्वतः

॥३३॥

प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः ॥

लुठद्विपाठपाठीनाः स्मरैर्देवीमुखांबुजैः

॥३४॥

वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः ॥

प्रचण्ड तांडवाः पीतरक्तमद्याश्चकाशिरे

॥३५॥

कपालैर्दैत्यवीराणामघासुरसृगासवान् ॥

क्रीडड्डमरुकाकारैर्डामरैर्योगिनीगणाः

॥३६॥

परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया ॥

क्षुधिता अपि मांसानि सशल्यान्यजहुः शिवाः

॥३७॥

सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः ॥

इयाय शांतिं भूरेणुः संग्रामे क्षोभसम्भवः

॥३८॥

विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः ॥

अमर्षातिशयोत्क्षिप्तैः शल्यैः शल्यमृगा इव

॥३९॥

दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः ॥

चक्रैरन्ये हलैरेके कतिचिच्छतकोटिभिः

॥४०॥

योगिनीनां परे खड्गैर्दलिता दानवेश्वराः ॥

निःशेषतामुपाजग्मुर्विना सेनाधिपान्निजान्

॥४१॥

ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत् ॥

करालं विकरालेन दण्डेन ज्वलिता चिरात्

॥४२॥

माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा ॥

चकर्त दुर्द्धरस्याशु मूर्द्धानमतिरोषणा

॥४३॥

शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम् ॥

चक्रेण चालुनान्मौलिं विकरालस्य वैष्णवी

॥४४॥

बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः ॥

दुर्मुखं चाशु वज्रेण व्यधादैंद्री गतायुषम्

॥४५॥

ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात् ॥

चामुण्डा चण्डमुण्डौ च मण्डलाग्रेण चिच्छिदे

॥४६॥

प्रचण्डचामरौ वीरौ महामौलिं महाहनुम् ॥

उग्रास्यविकटाक्षौ च ज्वालास्यदहनावपि

॥४७॥

अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम् ॥

कालनेमिप्रभृतयो विप्रचित्तिमिवासुराः

॥४८॥

शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः ॥

उद्भूतकटकाः प्रापुर्युद्धभूमिं चलद्ध्वजाः

॥४९॥

समंतात्पूरितदिशः सिंहनादैर्भयंकरैः ॥

पृषत्कवर्षिणो मातृमंडलान्यभिदुद्रुवुः

॥५०॥

ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः ॥

दुर्गां प्रपेदिरे देवीं शरणं सिंहवाहनाम्

॥५१॥

उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः ॥

देवी तां तुष्टुवुर्दुर्गामेवं सप्तापि मातरः

॥५२॥

योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः ॥

त्वया निलीयते देवि मधुकार्येव लीलया

॥५३॥

अमूमुहस्तं न तथा मातश्च मधुकैटभौ ॥

कथं जघान तौ विष्णुस्तयोरेवाभ्यनुज्ञया

॥५४॥

त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः ॥

कथं तु लोकपालानामैश्वर्यं देवि एष्यति

॥५५॥

विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः ॥

यत्र मैत्री किरातीभिरपि लभ्या त्वया समम्

॥५६॥

कापिशायनमापीतं धनदोपायनीकृतम् ॥

त्वयांब नीतं दैत्यानां रसैर्नियतमानवैः

॥५७॥

ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः ॥

अंब संहारशक्तिश्च रुद्रस्यापि प्रगल्भसे

॥५८॥

यशोदानंदजाता त्वमेकानंशेति नामतः ॥

कंसाद्यसुरसंहारे हरेः साह्यं करिष्यसि

॥५९॥

त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती ॥

त्वं देवी पार्वतीशापि दुर्गे किं वा न जायसे

॥६०॥

नन्दिकेश्वर उवाच

स्तोत्रेणानेन मातृभ्यो दुर्गा दत्ताभया स्वयम् ॥

महिषासुरयुद्धाय संतुष्टा निर्ययौ तदा

॥६१॥

प्रचंडमंडलाग्रेण भिंडिपालेन चामरम् ॥

महामौलिं क्षुरिकया कर्परेण महाहनुम्

॥६२॥

उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम् ॥

ज्वालामुखं मुद्गरेण दहनं मुसलेन च

॥६३॥

निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम् ॥

सिंहनादं महाघोरं चक्रेण मुदिताशया

॥६४॥

अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः ॥

विव्याध फालफलके स्तनयोर्गडयोरपि

॥६५॥

ततो दुर्गाथ संरंभात्प्रजहारासुरेश्वरम् ॥

बाह्वोर्वक्षसि वक्त्रे च क्षुरप्रैः प्रज्वलत्फलैः

॥६६॥

ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे ॥

पंचभिः पंचभिर्बाह्वोर्द्वाभ्यां द्वाभ्यां च नेत्रयोः

॥६७॥

एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः ॥

चतुर्भिश्च ध्वजं तस्य दुर्गा चिच्छेद सायकैः

॥६८॥

पदातिरथ दैत्येंद्रः शतघ्नीं ज्वलदाकृतिम् ॥

कालदंडप्रतीकाशां दुर्गां प्रति विमुक्तवान्

॥६९॥

हाहाकुर्वस्तु देवेषु विद्राणे मातृमंडले ॥

तामापतंतीमादाय दुर्गा जग्राह लीलया

॥७०॥

कृपाणमंकुशं पाशं भुशुंडीं करवालिकाम् ॥

शंकुं शक्तिं गदां चक्रं तोमरं फलकं सृणिम्

॥७१॥

परश्वधं भिंडिपालं पट्टिशं लगुडं च सः ॥

दुर्गां प्रति विचिक्षेप क्षयांभोद इवाशनिम्

॥७२॥

आपतंत्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम् ॥

बभंज पाणिभिः स्वैरं करिणीवेक्षुकांडकम्

॥७३॥

दुर्गोपवाह्यः सिंहोऽपि लांगूलाग्रेण मुद्रितम् ॥

दंष्ट्रया दारयामास प्रहरन्नखपंकजैः

॥७४॥

क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः ॥

क्षणं च महिषो भूत्वा दैत्यो दुर्गामयोधयत्

॥७५॥

महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः ॥

ताडयामास सिंहं च देवीमपि मुहुर्मुहुः

॥७६॥

क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले ॥

क्षणं दिक्षु भ्रमन्प्राप्तः क्षणं चादृश्यतां गतः

॥७७॥

प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम् ॥

अमोघेन त्रिशूलेन दारयामास सस्मिता

॥७८॥

मुक्तघर्घरनिर्घोषो यावत्पतति दानवः ॥

तावदस्य हठेनांघ्रिं स्कंधपीठे न्यवेशयत्

॥७९॥

कंठपीडनतो यातजीवितस्यामरद्रुहः ॥

छिन्नमूर्द्धानमादाय पाणिनाथ ननर्त्त सा

॥८०॥

इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककंटके ॥

ननृतुः सुराः प्रजहृषुर्महर्षयो ववृषुश्च दिव्यकुमुमानि वारिदाः

॥८१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्यउत्तरार्धे देव्यास्तपश्चर्यायां दुर्गाकृतमहिषासुरवधवर्णननामैकोनविंशोऽध्यायः ॥ १९ ॥