मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय २१

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 21

तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया

नंदिकेश्वर उवाच

तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया ॥

शक्रः पुलोमसुतया परे दिक्पालका अपि

॥१॥

गंधर्वाप्सरसां संघा वसवोऽपि सुरा अपि ॥

त्रयस्त्रिंशत्कोटिगणाः परे मुनि गणा अपि

॥२॥

एकादशमहारुद्रा आदित्या द्वादशापि च ॥

भैरवाश्च पिशाचाश्च वेतालाः कटपूतनाः

॥३॥

यक्षरक्षोरगा भूता ये चान्ये शिवकिंकराः ॥

संतोषभाजः सर्वेऽपि विकटाकारवेष्टिताः

॥४॥

परिवार्य महेशानं समाजग्मुः सहस्रशः ॥

तद्वीराशंसनं दृष्ट्वा योगिनीदानवैः कृतम्

॥५॥

अतीव विस्मयं भेजुः सर्वे कल्पांतभीषणम् ॥

कृतसांनिध्यमालोक्य देवमानंदयंत्युमा

॥६॥

चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ ॥

रोमांचिता स्विन्नमुखी वेपमाना घनस्तनी

॥७॥

पादांगुलीषु नयने विनिवेशयति स्म सा ॥

वृषभादवरुह्याथ गृहीत्वैनां करे शिवः ॥

स्मितशरीरकंठश्रीप्रणयेनैवमब्रवीत्

॥८॥

शिव उवाच

व्याकुलीक्रियते देवि किमेवं कारणं विना

॥९॥

सर्वैराराधनीयेति मयापि घटितोंजलिः ॥

किं न वेत्स्यावयोरैक्यं ज्योत्स्नाचंद्रमसोरिव

॥१०॥

अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम् ॥

क्वेदं शिरीषमृद्वंगि शरीरं ते गिरीन्द्रजे

॥११॥

तपः समाधयश्चेति क्व कर्कशजनोचिताः ।

नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती

॥१२॥

वारुणी त्वं फणींद्रोहं रोहिणी त्वमहं शशी ॥

स्वाहा त्वं हव्यवाहोऽहं सूर्योऽहं त्वं सुवर्चला

॥१३॥

जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा ॥

पुलोमजा त्वं शक्रोहं त्वं रतिश्चित्तभूरहम्

॥१४॥

बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण ॥

पाथोधिपोऽहं वीचिस्त्वं प्रकृतिस्त्वं पुमानहम्

॥१५॥

विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती ॥

ईश्वरोऽहं मदंशासि त्वयैवाज्ञास्वरूपया

॥१६॥

सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे ॥

न भेदोऽतस्त्वया कार्यः पृथग्जनवदावयोः

॥१७॥

चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया ॥

व्याकुलीकुरुषे शश्वद्वृथैवेर्ष्यायसे हि माम्

॥१८॥

दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया ॥

इत्युक्त्वेशो निषण्णस्तां पार्श्वदेशे न्यवेशयत्

॥१९॥

गौरीं स्वकीय एवांगे गूहमानामिव ह्रिया ॥

अंगद्वयं तयोरैक्यमगात्प्रेम्णा च लीनयोः

॥२०॥

अर्थद्वयमिवाह्नाय संनिकर्षोपलंभतः ॥

अर्धे कर्पूरधवलमर्धे सिंधूरपाटलम्

॥२१॥

तद्विचित्रमभूदंगं शिवयोरेकतां गतम् ॥

अर्धे कुंतलदामार्धहारमध्ये तु कुंचिका

॥२२॥

अंगादर्धेंदुचूडस्य वपुरर्धेन्दुकूलितम् ॥

एकनूपुरताटंकपरिहार्यमनोहरम्

॥२३॥

एकपिंगलसध्रीचो गात्रमेकस्तनं बभौ ॥

देव्यै दत्त्वा च धामार्थं वामदेवो जगाद ताम्

॥२४॥

अवकाशो रुषो देवि मा भूरतः परं तव ॥

स्तन्यार्थिनं गुहं हित्वा यातासि तपसे यतः

॥२५॥

तदपीतस्तनीनाम्ना निवसात्र ममांतिके ॥

त्वामपीतस्तनीं देवीं शोणाद्रीशं च मामपि

॥२६॥

जनाः सर्वे समाराध्य रमंतां भोगमोक्षयोः ॥

इयं त्वदंशजा देवी दुर्गा महिषसूदिनी

॥२७॥

अत्रैव सन्निधत्तां तु मंत्रसिद्धिप्रदा नृणाम् ॥

खड्गतीर्थमिदं पुण्यं सकृदेव निमज्जनात्

॥२८॥

सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम् ॥

प्रवालगिरिनाथश्च देवोऽयं पापनाशनः

॥२९॥

भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम् ॥

अयं च गौतमो देवि त्वदनुग्रहभाजनम्

॥३०॥

तपोनुरूपं भजतां लोकेष्वाचंद्रतारकम् ॥

इमाश्च मातरः सप्त सप्तलोकैकमातरः

॥३१॥

अद्यप्रभृति कुर्वंतु सान्निध्यं जगतां श्रियै ॥

शास्तारो भैरवाः क्षेत्रपालका बटुका अपि

॥३२॥

अरुणक्षेत्र एवात्र नित्यं कुर्वंतु संनिधिम् ॥

अत्राहमरुणक्षेत्रे निवसाम्यरुणाह्वयः

॥३३॥

त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया ॥

ईप्सिनामरुणादेवौ सान्निध्यं कुरुतो यतः

॥३४॥

तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः

॥३५॥

इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य ॥

शृणोति यः स द्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात्

॥३६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवकृतपार्वतीप्रशंसावर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥