मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय २२

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 22

वृत्तांतवर्णनम्

मार्कंडेय उवाच

स्वामिन्नित्यशिवानन्द भगवन्नंदिकेश्वर ॥

आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया

॥१॥

कथं वज्रांगदः पांड्यराजः शोणव्यतिक्रमम् ॥

चक्रे कथं तद्भक्त्यैव प्राप्तवान्संपदं पुनः

॥२॥

कथं विद्याधराधीशौ कांतिशालिकलाधरौ ॥

दुर्वासःशापनिर्विद्धाववितौ शोणशंभुना

॥३॥

नंदिकेश्वर उवाच

दीर्घायुष्यत्वसाफल्यं लब्धवांस्त्वं मृकण्डुज ॥

यदियं स्थेयसी भक्तिर्भवतो भूतनायके

॥४॥

वक्ष्ये वज्रांगदोदंतं वृत्तं विद्याभृतोरपि ॥

यतोऽभून्महितो लोके शोणाद्रीश्वरवैभवः

॥५॥

आसीद्वज्रांगदोनाम पुरा पांड्येषु पार्थिवः ॥

आस्ते यस्य भुजस्तम्भे वसुधा सालभंजिका

॥६॥

धार्मिको न्यायविज्ज्ञाता गंभीरो दक्षिणम् क्षमः ॥

शांतो विनयवान्धीमानेकदारव्रतः कृती

॥७॥

शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः ॥

पृथ्वीमासेतुकेदाराच्छशास जितशात्रवः

॥८॥

कदाचिन्मृगयाव्याजात्स चरन्सुतुरंगमः ॥

अरुणाचलपर्यंतं कांतारं समगाहत

॥९॥

स तत्र बहलामोदं कंचित्कस्तूरिकामृगम् ॥

दृष्ट्वा तमन्वक्तुरगं प्रावर्तयत कौतुकात्

॥१०॥

स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम् ॥

प्रादक्षिण्यात्परीयाय पपात च मनोजवः

॥११॥

ततः स भग्नसारोपि राजा जातश्रमश्चरन् ॥

पपात वाहाद्विच्छायः क्षीणपुण्य इव द्युतः

॥१२॥

अज्ञातकारणेनैवं मातंगेनेव पीडितः ॥

नाज्ञासीत्क्षणमात्मानं राजा ग्रहगृहीतवत्

॥१३॥

अचिंतयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः ॥

क्व गतः स ह्यकस्मान्मे उपवाह्यस्तुरंगमः

॥१४॥

इति चिंताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि ॥

तडित्तटजटालेव सहसा द्यौरदृश्यत

॥१५॥

निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम् ॥

तूर्णं तुरंगसारंगौ खेचरत्वमुपागतौ

॥१६॥

किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ ॥

क्षौमांतरीयोत्तरीयौ स्रग्विणौ च विरेजतुः

॥१७॥

अवोचतां च नृपतिमाश्चर्याकृष्टमानसम् ॥

हरंताविव दन्तांशुजालैस्त्वस्यार्त्तिजं तमः

॥१८॥

राजन्नलं विषादेन शोणाद्रीशप्रभावतः ॥

एतां जानीहि संजातां नवां नौ चेदृशी दशाम्

॥१९॥

तदोवाच तयोः किंचिदाश्वस्तइव पार्थिवः ॥

कृतांजलिरभाषिष्ट तावुभौ विनयान्वितः

॥२०॥

कौ युवां निर्मितो याभ्यामभिषंगो ममेदृशः ॥

भद्रौ भणतमार्त्तानां त्राणं हि महतां गुणः

॥२१॥

इति तेन कृते प्रश्ने तमुवाच कलाधरः ॥

राजानं जनिताश्चर्यं निर्दिष्टः कांतिशालिना

॥२२॥

अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ ॥

परस्परातिसौहार्दौ वसंतमदनाविव

॥२३॥

एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः ॥

तपोवनमगच्छाव मनसोऽपि दुरासदम्

॥२४॥

क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम् ॥

पुष्पोज्ज्वलामपश्याव पुण्यामारामवाटिकाम्

॥२५॥

विनीतावप्यसंजातौ तत्त्वोचितसुधीगणौ ॥

प्राविशाव तदुद्यानं प्रसूनावचयोत्सुकौ

॥२६॥

स्थलस्य तस्य सौहार्दात्कांतिशाल्यतिगर्वितः ॥

संचचार मुहुः पादन्यासैराघट्टयन्महीम्

॥२७॥

अहं तु तत्र पुष्पाणां गंधातिशयमोहितः ॥

विकस्वरेषु पुष्पेषु न्यस्तहस्तो दुराशयः

॥२८॥

ततः शांडिल्यमूलस्थो व्याघ्रचर्मासने स्थितः ॥

दुर्वासास्तपसां राशिर्ज्वलन्निव हुताशनः

॥२९॥

अमर्षोत्कर्षनीरंध्रस्पंदमानाधरच्छदः ॥

कराल भृकुटीबंधसारालितविशालभूः

॥३०॥

सरोषोऽभूत्तेजसाढ्यो घर्मदंतुरविग्रहः ॥

दहन्निव दृशा पश्यन्नभर्त्सयत नौ मुनिः

॥३१॥

आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ ॥

ज्वलतः कोपवह्नेर्मे शलभत्वमुपागतौ

॥३२॥

तपोवनमिदं मत्कं पावनं भूतभावनम् ॥

पादैर्न स्पृशतः क्वापि सूर्याचंद्रमसावपि

॥३३॥

पुरवैरिसपर्यायाः पर्यायकमिदं वनम् ॥

न स्पंदतेऽत्र वातोपि न लिप्यंतेऽत्र षटपदाः

॥३४॥

तदेतत्पादसंचारैर्दूषयन्नेष पातकी ॥

हयो भवतु भूलोके परवाह्यत्वपीडितः

॥३५॥

अपरोप्ययमत्युग्रे पतत्वचलकंदरे।

प्रसूनगंधलोभाद्यो गंधसारंगतां गतः

॥३६॥

इति तेनोग्ररोषेण शापवज्रे निपातिते ॥

तत्क्षणाद्विगलद्गर्वावावां तं शरणं गतौ

॥३७॥

अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः ॥

अमोघ एष त्वच्छापस्तदस्यांतो निवेद्यताम्

॥३८॥

अथातिदीनमनसावावामालोक्य पार्थिव ॥

सानुग्रहोऽभून्मुनिराट् कारुण्यादतिशीतलः

॥३९॥

अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः ॥

शापस्य भविता शांतिररुणाद्रेः प्रदक्षिणात्

॥४०॥

पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम् ॥

पर्युपास्यत दिक्पालैरिंद्रोपेंद्रयमादिभिः

॥४१॥

तदा च देवदेवाय नंदनारण्यदेवता ॥

उपायनीकृतवती फलं किमपि पाटलम्

॥४२॥

बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ ॥

पितरं तदयाचेतां लोभनीयतरं फलम्

॥४३॥

अथ ताववदद्देवस्तनयौ फलतर्षितौ ॥

गोपयित्वा फलं पाणिसंपुटेन कुमारकौ

॥४४॥

इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् ॥

यो वां प्रदक्षिणीकर्तुमीष्टे तस्मै ददाम्यहम्

॥४५॥

इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना ॥

स्कंदः प्रदक्षिणीकर्तुं मेदिनीमुपचक्रमे

॥४६॥

लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः ॥

प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणात्

॥४७॥

तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः ॥

फलं वितीर्णवानस्मै प्रणयाघ्रातमस्तकः

॥४८॥

अद्यप्रभृति सर्वेषां फलानामधिनायकः ॥

भवेत्यस्मै वरं दत्त्वा ह्येकदंताय शंकरः

॥४९॥

बभाषे च सभास्तारान्सर्वानपि सुरासुरान् ॥

प्रसरद्दशनज्योत्स्नाकर्बुरीकृतमंदिरः

॥५०॥

स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः ॥

प्रदक्षिणां वितनुते स मे सारूप्यभाग्भवेत्

॥५१॥

गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम् ॥

स सम्राट्सकलोत्कृष्टं लभते शाश्वतं पदम्

॥५२॥

इति शासनतः शंभोः शोणशैलप्रदक्षिणम् ॥

विधाय सर्वगीर्वाणा लेभिरे स्वं स्वमीप्सितम्

॥५३॥

युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया ॥

प्रदक्षिणेन शोणाद्रेः शापांतो वां भविष्यति

॥५४॥

तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा ॥

वज्रांगदस्य पांड्यस्य नृपतेरनुबंधतः

॥५५॥

इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ ॥

पातितौ बहुलपातकभारात्क्षिप्रमश्वमृगजातिषु जातौ

॥५६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ऽरुणाचलप्रदक्षिणामाहात्म्ये वज्रांगद वृत्तांतवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥