मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ९

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 9

शिवविष्णुविवादवर्णनम्

नंदिकेश्वर उवाच

अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः ॥

विरंच्यप्युतयोरासीद्विवादो मोहसंभवः

॥१॥

रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः ॥

विश्वसृष्टिकरो विष्णुं विरंच्योऽब्रूत गर्वतः

॥२॥

ब्रह्मोवाच

कथं त्वमधिकश्चासि विष्णो जनयितुर्मम ॥

पितामहस्य लोकानां किमेवमतिमोहितः

॥३॥

त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ ॥

दैत्यारिरिति मुग्ध त्वं गर्वं वहसि केशव

॥४॥

त्वामेव सृजतो नित्यं बहुधा मम वेधसः ॥

अद्याप्यायासजां पीडां न परित्यजतः करौ

॥५॥

मम श्रमांभसोद्भूते महांभोधौ निमज्जतः ॥

नैयग्रोधं न चोत्पन्नं कुतस्तेऽस्त्ववलंबनम्

॥६॥

मदुपज्ञे महांभोधौ स्रवते कोऽपि पन्नगः ॥

तदाश्रयस्त्वमूर्ध्वं ते पद्मं तच्चासनं मम

॥७॥

कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः ॥

स वेत्सि किं त्वं प्रकृतिं निद्राजडिमनिर्भरः

॥८॥

जलाशये प्रस्वपता दैत्यभीत्या जनार्दन ॥

कथं त्वया रक्षितासौ मदधीना जगत्त्रयी

॥९॥

चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः ॥

चैतन्यरूपिणी शक्तिः कलत्रं मे सरस्वती

॥१०॥

मया हि सृज्यते विश्वमिदं स्थावरजंगमम् ॥

रक्ष्यते च तदिन्द्राद्यैर्मामकैःपुत्रपौत्रकैः

॥११॥

ततः कथय वैकुंठ मन्नियोज्येषु कश्चन ॥

जगतामीश्वरान्मत्तः कथं नामातिरिच्यसे

॥१२॥

नंदिकेश्वर उवाच

इत्थं सरोषसंरंभे विधौ पौरुषभाषिणि ॥

नारायणोऽपि सासूयं स्मित्वैवं समभाषत

॥१३॥

विष्णुरुवाच

विरंचे मुंच संरंभं वृथा खलु विकत्थसे ॥

नाभीसरोजसंजातो मम त्वमवधारय

॥१४॥

योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ ॥

न चेद्यन्मथितौ ताभ्यां तथैव स्याः प्रणाशितः

॥१५॥

सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम ॥

धृतमत्स्यादिरूपस्य को वान्यः सृष्टिकारणम्

॥१६॥

न किंचिदपि पश्यंति रजसारूढदृष्टयः ॥

रजोमयेन भवता किं निरूपयितुं क्षमम्

॥१७॥

अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी ॥

यस्याः कटाक्षमात्रेण जगवितयमेधते

॥१८॥

भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि ॥

मया विरहितं कि वा त्रिषु लोकेषु विद्यते

॥१९॥

प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् ॥

भूर्भुवःस्वस्त्रयीमेनां मदधीनां विचिंतय

॥२०॥

ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता ॥

तन्मे त्रैलोक्यनाथस्यकि त्वंज्येष्ठः समोऽथवा

॥२१॥

नंदिकेश्वर उवाच

एवं मोहांधमनसोरन्योन्यं प्रतिगर्जतोः ॥

ययावनल्पसमयःसवर्तसदृशस्तयो.

॥२२॥

उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः ॥

नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणतां ययुः

॥२३॥

नाववुर्मरुतो वा न जज्वलुर्जातवेदसः ॥

नांतरिक्षं न च क्षोणी न दिशोऽपि चकाशिरे

॥२४॥

समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे ॥

औषध्यः शोषमासेदुरवसेदुश्च जंतवः

॥२५॥

पक्षमासर्तुवर्षादिकालस्य नियमो गतः ॥

अहोरात्रव्यवस्थापि प्रणाश समुपाययौ

॥२६॥

इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः ॥

सर्वेप्यकाले संप्राप्तं कल्पांतं मेनिरे तदा

॥२७॥

एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः ॥

भूतनाथो जगज्जातमविद्यायामबुध्यत

॥२८॥

व्यचिंतयच्च विश्वात्मा विश्वसंरक्षणोद्यतः ॥

अवाह्यया दृशाऽपश्यदनयोमोहकारणम्

॥२९॥

स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ ॥

विस्मृत्य स्वं स्वमेवैतावमंसेतां जगत्प्रभू

॥३०॥

अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ ॥

जानानावपि मां सम्यगभूतामेवमुद्धतौ

॥३१॥

अज्ञानतिमिरोद्भूति दूषिताशयलोचनः ॥

जनः प्राप्तं स्तुतमपि प्रायो वस्तु न पश्यति

॥३२॥

कृतापराधावप्येतौ निमग्नौ मोहसागरे ॥

मया नोपेक्षणीयौ हि लोकानां हितकाम्यया

॥३३॥

इति निश्चित्य मनसा माया वैवश्यमेतयोः ॥

देवो दयामहांभोधिर्व्यपोहयितुमैहत

॥३४॥

अहोऽनुकम्पा तरुणेंदुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् ॥

असौ प्रमोहांबुधिमध्यतोभूदाविर्निरस्तावपि धातृविष्णू

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवविष्णुविवादवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥