मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २५

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 25

इत्युक्ते नारदः सोऽथ यथाशास्त्रं विचार्य वै

जैमिनिरुवाच

इत्युक्ते नारदः सोऽथ यथाशास्त्रं विचार्य वै ॥

आलेख्य क्रमशः पत्रे राज्ञे तस्मै न्यवेदयत्

॥१॥

राजापि पत्रं तच्छुत्वा सोऽवधार्य पुनःपुनः ॥

प्रददौ पद्मनिधये लिखितान्यत्र यानि वै

॥२॥

संपादय पद्मनिधे शालां स्वर्णमयीं कुरु ॥

ब्रह्मणः सदनं दिव्यं ब्रह्मर्षीणां च निर्मलम्

॥३॥

इंद्रादीनां सुराणां च सिद्धानां मर्त्यवासिनाम् ॥

मुनींद्राणां निवासाय राज्ञां पातालवासिनाम्

॥४॥

तथा च नागराजानां निधे त्रैलोक्यवासिनाम् ॥

यथायोग्यासनैर्युक्तं गृहं गृहमतंद्रितः

॥५॥

कारयाशु निधे द्रव्यसंभारं यावदेव तु ॥

विश्वकर्मापि च तव साहाय्यं रचयिष्यति

॥६॥

इत्यादिशंतं स मुनिरिंद्रद्युम्नमुवाच वै ॥

संभारान्पृथगेतद्धि कर्त्तव्यं व्यवधानतः

॥७॥

स्वर्णैः सुघटितं साधुरथत्रयमलंकृतम् ॥

दुकूलरत्नमालाद्यैर्बहुमूल्यैर्दृढं महत्

॥८॥

श्रीवासुदेवस्य रथो गरुडध्वजचिह्नितः ॥

पद्मध्वजः सुभद्राया रथमूर्द्धनि धार्यताम्

॥९॥

रथः षोडशचक्रस्तु विष्णोः कार्यः प्रयत्नतः ॥

चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश

॥१०॥

हस्तषोडशविस्तारो रथश्चक्रधरस्य तु ॥

चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश

॥११॥

आसनं जगतां भूयः स्वयं स्वासनविग्रहः ॥

तद्याने जगतां नाशस्ततो यानं न विद्यते

॥१२॥

पश्येच्चराचरं विश्वं ज्ञानादश(थ?) सुनिर्मले ॥

स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः

॥१३॥

तलस्थत्वादसौ तालः सदा तेनांकितः प्रभुः ॥

ततः स एव शेषस्य बलभद्रावतारिणः

॥१४॥

अथवा सीरिणः कार्यं सीरमेव ध्वजोत्तमम् ॥

ध्वजः सुनिर्मलः कार्यस्तस्मात्तालध्वजो मतः

॥१५॥

न वासितव्यो देवोऽसावप्रतिष्ठे रथे नृप ॥

प्रासादे मंडपे वापि पुरे तन्निष्फलं भवेत्

॥१६॥

तस्मात्प्रतिष्ठा प्रथमं हरेः कार्या रथस्य वै ॥

संभारः क्रियतां तस्य ह्यनुष्ठेया मया तु सा

॥१७॥

इत्याज्ञां मत्पितुर्लब्ध्वा शीघ्रमायाम्यहं नृप ॥

तस्य तद्वचनं श्रुत्वा घटितं स्यंदनत्रयम्

॥१८॥

निधिसंपादितैर्द्रव्यैरेकाह्नाद्विश्वकर्मणा ॥

स्वक्षं सुचक्रं सुस्तंभं सुविस्तीर्णं सुतोरणम्

॥१९॥

सुध्वजं सुपताकं च नानाचित्रमनोहरम् ॥

विचित्रबंधमिथुनपुत्तलीवलयान्वितम्

॥२०॥

अर्द्धहाटकनिर्व्यूढं साक्षाद्रविरथोपमम् ॥

मेघगंभीरनिर्घोषं दृष्ट्वा कर्षगुणैर्युतम् ॥

वातरंहोहयैर्युक्तं शतसंख्यैः सितप्रभैः

॥२१॥

यथाशास्त्रविधानेन नारदेन प्रतिष्ठितम् ॥

सुलग्ने सुमुहूर्ते च सुतिथौ ज्योतिषोदिते

॥२२॥

मुनय ऊचुः

भगवञ्जैमिने ब्रूहि सर्वज्ञोसि मतो हि नः

॥२३॥

विधिना केन हि रथः प्रतिष्ठाप्यो हरेरयम् ॥

यथावद्वद नो येन जानीमो विधिविस्तरम्

॥२४॥

जैमिनिरुवाच

यथा प्रतिष्ठितं तेन नारदेन महात्मना ॥

तद्वो वदिष्यामि विधिं यथा दृष्टं पुरा मया

॥२५॥

रथस्येशानदिग्भागे शालां कृत्वा सुशोभनाम् ॥

तन्मध्ये मण्डपं कृत्वा वेदिं तत्र सुनिर्मलाम्

॥२६॥

चतुरस्रा चतुर्हस्तमितां हस्तोच्छ्रितां द्विजाः ॥

प्रतिष्ठापूर्वदिवसे रात्रावुत्तरतः शुभे

॥२७॥

मुहूर्ते स्वस्ति वाच्याथ कारयेदंकुरार्पणम् ॥

द्वात्रिंशद्देवताभ्यश्च बलिं दत्त्वा यथाविधि

॥२८॥

प्रातस्ततो वेदिकायां मध्ये मण्डलमालिखेत् ॥

पद्मं वा स्वस्तिकं वापि कुम्भं तत्र निधापयेत्

॥२९॥

पञ्चद्रुमकषायं च तन्मध्ये पूरयेत्सुधीः ॥

गंगादिपुण्यतोयानि पल्लवान्स समृत्तिकाः

॥३०॥

सर्वगंधान्पञ्चरत्नसर्वौषधिगणं तथा ॥

पूरयित्वा विधानेन आचार्यः प्राङ्मुखः शुचिः

॥३१॥

विष्णुं स्मरन्पंचगव्यं पश्चादपि प्रपूरयेत् ॥

दुकूलवेष्टितं कण्ठे माल्यैर्गंधैः सुशोभनैः

॥३२॥

फलपल्लवसंयुक्तं कृतकौतुकमंगलम् ॥

पूरयेत्तत्र देवेशं नरसिंहमनामयम्

॥३३॥

मंत्रराजेनविधिवदुपचारैस्तथांतरैः ॥

प्रार्थयित्वा प्रसादाय तस्मिन्नावाह्य तं हरिम्

॥३४॥

बाह्योपचारैर्विविधैः पूजयेद्विधिवद्द्विजाः ॥

वायव्यां तस्य कुम्भस्य समिदाज्यचरुं तथा

॥३५॥

अष्टोत्तरसहस्रं च जुहुयाद्विधिवद्गुरुः ॥

संपातान्प्रापयेत्तत्र कुम्भमध्ये तदन्ततः

॥३६॥

रथं सुशोभनं कृत्वा पताकागंधमाल्यकैः ॥

सर्वांगं सेचयेत्तस्य गंधचन्दनवारिभिः

॥३७॥

धूपयेत्कालागुरुणा शंखकाहालनिस्वनैः ॥

ध्वजे तस्य नृसिंहस्य प्रतिष्ठाप्य समीरणम्

॥३८॥

पूजयित्वा विधानेन रक्तस्रग्गंधमाल्यकैः ॥

इमं मंत्रं समुच्चार्य सुपर्णं प्रार्थयेत्ततः

॥३९॥

यो विश्वप्राणहेतुस्तनुरपि च हरेर्यानकेतुस्वरूपोयं संचित्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतंति ॥

चंचच्चण्डोरुतुंडत्रुटित फणिवसारक्तपंकांकितास्यं वन्दे छन्दोमयं तं खगपतिममलं स्वर्णवर्णं सुपर्णम्

॥४०॥

ब्रह्मघोषैः शंखनादैर्नानावाद्यसुविस्तरैः ॥

रथमूर्ध्नि स्थापयेत्तं चारुसूक्तं समुच्चरन्

॥४१॥

तस्योपरिष्टात्तं कुम्भं समंतात्प्लावयन्रथम् ॥

त्रिरुच्चरन्मंत्रराजं सेचयेद्ब्रह्मणा सह

॥४२॥

ततः पूर्णाहुतिं दत्त्वा ब्रह्मणे दक्षिणां ददेत् ॥

आचार्यं दक्षिणां दद्याद्येन तुष्यति तद्गुरुः

॥४३॥

ब्राह्मणान्भोजयेदन्ते पायसैर्मधुसर्पिषा ॥

द्वादशाक्षरमंत्रेण बलभद्रस्य कारयेत्

॥४४॥

लांगलं च पविरवन्मंत्रः स्याल्लांगलध्वजे ॥

अथवा द्विषड्वर्णोपि मूलमन्त्रः प्रकीर्तितः

॥४५॥

लक्ष्मीसूक्तेन भद्रायाः प्रतिष्ठाप्यो रथस्तथा ॥

नाभिह्रदान्मुरारेस्त्वं ब्रह्मांडावलिरूपधृक्

॥४६॥

आसनं चतुरास्यस्य श्रियो वास स्थिरो भव ॥

इम मन्त्रं समुच्चार्य ध्वजपद्मं समुच्छ्रयेत्

॥४७॥

इयान्विशेषो हविषा त्रयाणां च पृथक्पृथक् ॥

पंचपंचभिर्होतव्यमेकैकं तु विभागशः

॥४८॥

इत्थं रथान्प्रतिष्ठाप्य सुवर्णं गां च वस्त्रकम् ॥

धान्यं च दक्षिणां दद्यात्सम्यग्देवस्य भक्तितः

॥४९॥

एवं प्रतिष्ठिते तत्र स्यंदनेऽथ सुभूषिते ॥

आरोप्य देवं विधिवद्ब्रह्मघोषपुरःसरम्

॥५०॥

जयमंगलशब्दैश्च नानावाद्यपुरःसरैः ॥

चामरांदोलनैर्धूपैः पुष्पवृष्टिभिरेव च

॥५१॥

ब्राह्मणैः क्षत्रियैर्वैश्यैर्नीयते स्म रथं प्रति ॥

हयैः सुलक्षणैर्दांतैर्बलीवर्दैरथापि वा

॥५२॥

पुरुषैर्विष्णुभक्तैर्वा नेतव्या ह्यप्रमादतः ॥

प्रीणयित्वा जनं सर्वं भक्ष्यभोज्यादिलेपनैः

॥५३॥

रथस्योपरि देवेभ्यो बलिमन्त्रेण भो द्विजाः ॥

बलिं गृह्णन्तु भो देवा आदित्या वसवस्तथा

॥५४॥

मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥

असुरा यातुधानाश्च रथस्थाश्चैव देवताः

॥५५॥

दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥

जगतः स्वस्ति कुर्वंतु दिव्या महर्षयस्तथा

॥५६॥

अविघ्नमाचरंत्वेते मा संतु परिपंथिनः ॥

सौम्या भवंतु तृप्ताश्च दैत्या भूतगणास्तथा

॥५७॥

ततस्तु नीयते देवः समभूमौ समुच्चरन् ॥

मंत्रं वैष्णवगायत्रीं विष्णोः सूक्तं पवित्रकम्

॥५८॥

वामदेव्यैः पवित्रैश्च मानस्तोक्यै रथंतरैः ॥

ततः पुण्याहघोषेण कृतवादित्रनिःस्वनम्

॥५९॥

शनैः शनैरथो नेयो रथः स्नेहात्तु चक्रिणः ॥

तत्रोत्पातान्प्रवक्ष्यामि रथेत्र द्विजसत्तमाः

॥६०॥

ईषाभंगे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ॥

तुलाभंगे वैश्यनाशः शम्या शूद्रभयं भवेत्

॥६१॥

धुराभंगे त्वनावृष्टिः पीठभंगे प्रजाभयम् ॥

परचक्रागमं विद्याच्चक्रभंगे रथस्य तु

॥६२॥

ध्वजस्य पतने विप्रा नृपोऽन्यो जायते धुवम् ॥

प्रतिमाभंगतायां तु राज्ञो मरणमादिशेत्

॥६३॥

पर्यस्ते तु रथे विप्राः सर्वजानपदक्षयः ॥

उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च

॥६४॥

बलिकर्म पुनः कुर्याच्छांतिहोमं तथैव च ॥

ब्राह्मणान्भोजयेद्भूयो दद्याद्वान्नानि चैव हि

॥६५॥

पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत ॥

समिद्भिर्घृतमध्वाज्यमूलाग्राभिश्च होमयेत्

॥६६॥

पालाशाभिर्द्विजश्रेष्ठा मंत्रराजेन दीक्षितः ॥

सोमायाग्नये प्रजाभ्यः प्रजानां पतये तथा

॥६७॥

ग्रहेभ्यश्च ब्रह्मणे च दिक्पालेभ्यस्तदंततः ॥

यत्र यत्र रथे दोषास्तत्र तत्र च दीक्षितः

॥६८॥

जुहुयात्प्रतिष्ठामंत्रेण विशेषः सर्वतो भवेत् ॥

ब्राह्मणैः सहितः कुर्याद्धोमांते शांतिवाचनम्

॥६९॥

स्वस्ति भवतु विप्रेभ्यः स्वस्तिराज्ञेऽस्तु नित्यशः ॥

गोभ्यः स्वस्ति प्रजाभ्यस्तु जगतः शांतिरस्तु वै

॥७०॥

स्वस्त्यस्तु द्विपदे नित्यं शांतिरस्तु चतुष्पदे ॥

शं प्रजाभ्यस्तथैवास्तु शं तथात्मनि चास्तु नः

॥७१॥

शांतिरस्तु च देवस्य भूर्भुवः स्वः शिवं तथा ॥

शांतिरस्तु शिवं चास्तु सर्वतः स्वस्तिरस्तु नः

॥७२॥

त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि ॥

प्रजाः पालय देवेश शांतिं कुरु जगत्पते

॥७३॥

यात्राकारणभूतस्य पुरुषस्य च भूपते ॥

दुष्टान्ग्रहांस्तु विज्ञाय ग्रहशांतिं समाचरेत्

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चविंशोऽध्यायः ॥ २५ ॥