मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३३

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 33

गुंडिचायात्राकथनम्

जैमिनिरुवाच

अत ऊर्ध्वं प्रवक्ष्यामि महावेदीमहोत्सवम् ॥

अज्ञानतिमिरांधोऽपि येन भास्वत्पदं व्रजेत्

॥१॥

वैशाखस्यामले पक्षे तृतीया पापनाशिनी ॥

स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता

॥२॥

तस्यां संकल्प्य नृपतिराचार्यं वरयेच्छुचिः ॥

एकं त्रीनथ तक्षाणं दृष्टकर्माणमादरात्

॥३॥

वृणुयाद्वनयागाय वस्त्रालंकरणादिभिः ॥

तक्ष्णा सार्द्धं वनं गत्वा साधुवृक्षगणाकुलम्

॥४॥

तन्मध्ये वह्निमाधाय मंत्रराजेन मंत्रवित् ॥

अष्टोत्तरशतं हुत्वा संपाताज्यविमिश्रितम्

॥५॥

आज्यं तरूणां मूले तु प्रत्येकमभिघारयेत् ॥

दिक्पालेभ्यो बलिं दत्त्वा क्षेत्रपालपशूंस्तथा

॥६॥

वनस्पतये जुहुयात्क्षीरोदनशताहुतिम् ॥

ततः परशुमादाय वृक्षमूलेषु दिक्षु वै

॥७॥

आज्यसंस्कृतिदेशेषु आचार्यो मंत्रमुच्चरन् ॥

किंचित्किंचिच्छेदयेद्वै चिंतयन्गरुडध्वजम्

॥८॥

नदत्सु तूर्यघोषेषु गीतमंगलवादिषु ॥

नियोज्य वर्द्धकिं तत्र आचार्यः स्वगृहं व्रजेत्

॥९॥

अथवा स्थान लब्धानि दारूणि रथकर्मणि ॥

उक्तसंस्कारविधिना संस्कुर्यात्कल्पितेनले

॥१०॥

आरभेत रथं कृत्वा विघ्रराजमहोत्सवम् ॥

षोडशारैः षोडशभिश्चक्रैर्लोहमयैर्दृढैः

॥११॥

युक्तं विष्णो रथं कुर्याद्दृढाक्षं दृढकूबरम् ॥

विचित्रघटनाकक्षपुत्तलीपरिवेष्टितम्

॥१२॥

नानाविचित्रबहुलमिक्षुखण्डविराजितम् ॥

चतुस्तोरणसंयुक्तं चतुर्द्वारं सुशोभनम्

॥१३॥

नानाविचित्रबहुलं हेमपट्टविराजितम् ॥

द्वाविंशतिकरोच्छ्रायं पताकाभिरलंकृतम्

॥१४॥

गारुडं च ध्वजं कुर्याद्रक्तचंदननिर्मितम् ॥

दीर्घनासं स्थूलदेहं कुण्डलाभ्यां विभूषितम्

॥१५॥

चंच्वग्रदष्टभुजगं सर्वालंकारभूषितम् ॥

वितत्य पक्षती व्योम्नि उड्डीयंतमिवोदितम्

॥१६॥

दैत्यदानवसंघस्य बलदर्पविनाशनम् ॥

सर्वांगं तस्य कनकैराच्छाद्य परिशोभयेत्

॥१७॥

रथमेव हरेः कुर्यात्स्वासनं सुपरिष्कृतम् ॥

चतुर्दशरथांगैस्तं रथं कुर्याच्च सीरिणः

॥१८॥

चक्रैर्द्वादशभिः कुर्यात्सुभद्राया रथोत्तमम् ॥

सप्तच्छदमयं कुर्यात्सीरिणो लांगलध्वजम्

॥१९॥

देव्याः पद्मध्वजं कुर्यात्पद्मकाष्ठविनिर्मितम् ॥

विरचय्य रथान्राजा प्रतिष्ठां पूर्ववच्चरेत्

॥२०॥

यथामन्त्रं यथाशास्त्रं विश्वसेद्ब्राह्मणेषु च ॥

ब्राह्मणा जगदीशस्य जंगमास्तनवः स्मृताः

॥२१॥

इत्थं सुघटितं चक्रित्रयं देवत्रयस्य वै ॥

आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे

॥२२॥

प्रतिष्ठाप्य समृद्धेन विधिना पूर्ववद्विजाः ॥

रक्षणीयं तथा तत्र नारोहेत्कश्चनाशुभः

॥२३॥

पक्षी वा मानुषो वापि मार्जारनकुलादयः ॥

ततो दिनत्रयादर्वाग्रथानामुत्तरे कृते

॥२४॥

मण्डपे उत्सवांगे वा प्रकुर्यादंकुरार्पणम् ॥

अद्भुतेष्वथ जातेषु शांतिं कुर्यात्पुरोदिताम्

॥२५॥

रथ्या सुसंस्कृता कार्या महावेदीं यथा व्रजेत् ॥

पार्श्वयोर्मंडलं कुर्यात्पथि गुल्मादिभिः फलैः

॥२६॥

सुमनस्तबकैर्माल्यैर्दुकूलैश्चामरैस्तथा ॥

यथा सुपुष्पितारण्यराजी तत्र विराजते

॥२७॥

भूमिः समा च कार्या वै निष्पंका सुखचारणा ॥

निर्मला च सुगन्धा च सुदूराद्वर्जितोत्करा

॥२८॥

धूपपात्राण्यनुपदं दिगामोदकराणि च ॥

चंदनांभः परिक्षेपो यंत्रपातोत्करस्तथा

॥२९॥

बहूनि ऋतुपुष्पाणि पुष्पवृष्ट्यर्थमेव हि ॥

नटनर्त्तकमुख्याश्च गायना बहवस्तथा

॥३०॥

वेश्या यौवनगर्वाढ्याः रूपालंकारभूषिताः ॥

मृदंगा पणवाश्चैव भेरीढक्कादयस्तथा

॥३१॥

बहवो बहुधा तत्र पताकाश्चित्रितांतराः ॥

ध्वजाश्च बहवस्तत्र स्वर्णराजतनिर्मिताः

॥३२॥

वैजयंत्यो बहुविधा भूमिगा वाहनास्तथा ॥

हस्तिनश्च हयाश्चैव सुसन्नद्धाः स्वलंकृताः

॥३३॥

एवं संभृतसंभारः क्षितिपालः शुचिव्रतः ॥

मुदा भक्त्या च परया युक्तः कुर्यान्महोत्सवम्

॥३४॥

आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ॥

अरुणोदयवेलायां तस्यां देवं प्रपूजयेत्

॥३५॥

ब्राह्मणैर्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ॥

विज्ञापयेद्देवदेवं यात्रायै संस्कृतांजलिः

॥३६॥

इन्द्रद्युम्नं क्षितिभुजं यथाज्ञासीः पुरा विभो ॥

विजयस्व रथे नाथ गुंडिचामण्डपं प्रति

॥३७॥

तवापांगविलोकेन प्रपुनंतु दिशो दश ॥

निःश्रेयसपदं यांतु स्थावराणि चराणि च

॥३८॥

अवतारः कृतो ह्येष लोकानुग्रहकाम्यया ॥

तदेहि भगवन्प्रीत्या चरणं न्यस्य भूतले

॥३९॥

ततः कर्पूरचूर्णैश्च सुमनोभिरवाकिरेत् ॥

पथि शाकुनसूक्तानि प्रपठंति द्विजातयः

॥४०॥

केचिन्मंगलगाथाश्च केचिज्जय जयेति च ॥

जितं त इति मन्त्रं वै केचिदुच्चैर्जपंति च

॥४१॥

सूतमागधमुख्याश्च कीर्तिं पुण्यां मुदा जगुः ॥

स्वर्णदंडप्रकीर्णानां श्रेणी चोभयपार्श्वयोः

॥४२॥

लीलयांदोलयंति स्म रणत्कंकणमंजुलम् ॥

स्वर्णपात्रपरिक्षिप्तकृष्णागुरुसुधूपितैः

॥४३॥

सुरभीकृतसर्वाशा मुखे व्योमांगणे तथा ॥

चर्चरीझर्झरीवेणुवीणामाधुरिकादयः ॥

शब्दायंते सुमधुरं गोविंदविजयांतरे

॥४४॥

एवं प्रवृत्ते समये कृष्णं रामपुरःसरम् ॥

नयंति विप्रा भद्रां च क्षत्रियाश्च विशस्तथा

॥४५॥

छत्रमाला समुदिता मुक्तास्रक्चीनतोरणा ॥

रत्नध्वजा हेमदंडाः पार्श्वयोर्मुरवैरिणः

॥४६॥

राजा चतुर्विधा वर्णा अन्ये ये च पृथग्जनाः ॥

दीना महांतश्च तदा समानास्तत्र भांति वै

॥४७॥

सलीलचरणन्यासं तूलिकास्तरणेषु तान् ॥

वासयंतः क्वचित्छांता देवांस्ते रथमन्वियुः

॥४८॥

महोत्सवं समासाद्य गीतकोलाहलानि च ॥

करे कृत्वा जगन्नाथं भ्रामयित्वा रथोत्तमम्

॥४९॥

रामं कृष्णं सुभद्रां च रथमध्ये निवेशयेत् ॥

चारुचंद्रातपाढ्येन मंडपेन विराजिते

॥५०॥

किंकिणीमालिकाभिश्च माल्यचामरभूषिते ॥

ससारकृष्णागुरुजधूपपूरितगर्भके

॥५१॥

ततस्तान्वासयित्वा तु तूलिकासु सुरोत्तमान् ॥

भूषयेद्विविधैर्भक्त्या वस्त्रालंकार माल्यकैः

॥५२॥

पूजयेदुपचारैस्तैः समृद्धैर्भक्तिभावितैः ॥

नातः परतरं विष्णोर्यात्रांतरमवेक्ष्यते

॥५३॥

यत्र स्वयं त्रिलोकेशः स्यंदनेन कुतूहलात् ॥

मानयन्पूर्वमाज्ञां तां वर्षे वर्षे व्रजेदसौ

॥५४॥

रथस्थितं व्रजंतं तं महावेदीमहोत्सवे ॥

ये पश्यंति मुदा भक्त्या वासस्तेषां हरेः पदे

॥५५॥

सत्यं सत्यं पुनः सत्यं प्रतिजाने द्विजोत्तमाः ॥

नातः श्रेयः परं विष्णोरुत्सवः शास्त्रसंमतः

॥५६॥

यथा रथविहारोऽयं महावेदीमहोत्सवः ॥

यत्रागत्य दिवो देवाः स्वर्गं यांत्यधिकारिणः

॥५७॥

किं वच्मि तस्य माहात्म्यमुत्सवस्य मुरद्विषः ॥

यस्य संकीर्तनात्पापं नश्येज्जन्म शतोद्भवम्

॥५८॥

महावेदीं व्रजंतं तं रथस्थं पुरुषोत्तमम् ॥

बलभद्रं सुभद्रां च जन्मकोटिसमुद्भवम्

॥५९॥

दृष्ट्वा पापं नाशयति नात्र कार्या विचारणा ॥

रथच्छायां समाक्रम्य ब्रह्महत्या व्यपोहति

॥६०॥

तद्रेणुसंसक्तवपुस्त्रिविधां पापसंहतिम् ॥

नाशयेत्स्वर्गगंगायाः स्नानजं फलमाप्नुयात्

॥६१॥

घनांबुवृष्टियोगेन रथमार्गे तु पंकिले ॥

दिव्यदृष्ट्या च कृष्णस्य समस्तमलहारिणि

॥६२॥

तत्र ये प्रणिपातांस्तु कुर्वते वैष्णवोत्तमाः ॥

अनादिव्यूढपंकांस्ते हित्वा मोक्षमवाप्नुयुः

॥६३॥

गवां कोटिप्रदानस्य कन्यानामयुतस्य च ॥

वाजिमेधसहस्रस्य फलं प्राप्नोत्यसंशयः

॥६४॥

अनुगच्छंति कृष्णं ये यात्राकौतूहलादपि ॥

अनुव्रजंति नित्यं वै देवाः शक्रपुरोगमाः

॥६५॥

पश्यंति ये रथं यांतं दारुब्रह्म सनातनम् ॥

पदे पदेऽश्वमेधस्य फलं तेषां प्रकीर्तितम्

॥६६॥

वेदैः स्तुवंति वेदानां वक्तारो मोक्षदायिनम् ॥

इतिहासपुराणाद्यैः स्तोत्रैर्वापि स्वयंकृतैः

॥६७॥

स्तुवंति पुंडरीकाक्षं ये वै विगतकल्मषाः ॥

वैष्णवं योगमास्थाय मोदंते नारदादिभिः

॥६८॥

कुर्वंति वासुदेवाग्रे जयशब्देन वा स्तुतिम् ॥

ते वै जयंति पापानि विविधानि न संशयः

॥६९॥

लयतालानभिज्ञोपि गीतमाधुर्यवर्जितः ॥

नर्त्तनं कुरुते वापि गायत्यथ नरोत्तमः ॥

वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयः

॥७०॥

नामानि कीर्तयन्नस्य तेन याति सहैव यः ॥

अनुव्रज्यात्तत्फलं वै प्राप्नोत्यत्र न संशयः

॥७१॥

जय कृष्ण जय कृष्ण जय कृष्णेति यो वदेत् ॥

गुंडिचानगरं यांतं कृष्णं भक्तिसमन्वितः ॥

न मातृगर्भवासस्य स च दुःखमवाप्नुयात्

॥७२॥

चामरैर्व्यजनैः पुष्पस्तबकैर्नीलचोलकैः ॥

रथस्याग्रस्थितो यो वै वीजयेत्पुरुषोत्तमम्

॥७३॥

स वीज्यमानोप्सरोभिर्गंधर्वैरुपशोभितः ॥

अनुव्रजद्भिस्त्रिदशैर्महेंद्रासनसंस्थितः

॥७४॥

भुनक्ति भोगानतुलान्यावदाभूतसंप्लवम् ॥

तदंते च ब्रह्मलोकं प्राप्य मुक्तिमवाप्नुयात्

॥७५॥

कृष्णस्य पुरतो ये वै पुष्पवृष्टिं प्रकुर्वते ॥

ते वै मनोगतान्सर्वान्प्राप्नुवंति मनोरथान्

॥७६॥

सहस्रनामभिः पुण्यैः पर्यटंति रथं तु ये ॥

तेषां प्रदक्षिणं कुर्युस्त्रिदशानतकंधराः

॥७७॥

वसंति वैकुण्ठगृहे विष्णुतुल्यपराक्रमाः

॥७८॥

तस्मिन्काले महापुण्ये देवर्षिपितृसेविते ॥

एकं ब्रह्म त्रिधाभूतं माययानुगतं स्वया

॥७९॥

साक्षाद्दारुस्वरूपेण महावेदीमहोत्सवम्

॥८०॥

रथारूढः कौतुकवान्यत्रयाति जगत्प्रभुः ॥

तस्मिन्काले पृथिव्यां तु चरेत्तत्र महोत्सवम्

॥८१॥

देवा अप्युत्सवे तस्मिन्पुरुहूतपुरोगमाः ॥

अभिमानं परित्यज्य श्रेणीभूता हि पार्श्वयोः

॥८२॥

प्रकुर्वते महायात्रां तैस्तैर्दिव्यैः परिच्छदैः

॥८३॥

तेषामग्रेसरस्तत्र देवोपि प्रपितामहः ॥

चतुर्दशानां जगतां कर्त्ता यः परमेश्वरः

॥८४॥

सोऽपि तत्र जगन्नाथं रथे यांतं महोत्सवे ॥

ब्रह्मलोकात्परावृत्य स्तुवन्वेदमयैः स्तवैः ॥

पदे पदे प्रणमति भगवंतं सनातनम्

॥८५॥

यद्यप्यब्जनिधेः कृष्णान्न भेदोऽस्ति तथाप्ययम् ॥

महोत्सवस्य महिमा यत्र सर्वेऽनुयायिनः

॥८६॥

नातः परतरो लोके महावेदीमहोत्सवात् ॥

सर्वपापहरो योगः सर्वतीर्थफलप्रदः

॥८७॥

कृष्णमुद्दिश्य यस्तत्र दानं ददाति वै नरः ॥

यत्किंचिदक्षयफलं मेरुदानेन तत्समम्

॥८८॥

तस्याग्रे देवदेवस्य व्रजतो गुंडिचालयम् ॥

यत्किंचित्कुरुते कर्म तत्तदक्षयमश्नुते

॥८९॥

उपायनानि नाना वै भक्ष्यभोज्यानि चैव हि ॥

समर्पयंति देवाय तत्प्रीत्यै वा द्विजन्मने ॥

तेषामक्षयपुण्यानि सर्वकामप्रदानि च

॥९०॥

हरेरग्रेसरा ये वै पश्यंतस्तन्मुखांबुजम् ॥

पदे पदे नमंतश्च पंकधूलिपरिप्लुताः

॥९१॥

विहाय पाप कवचमभेद्यं कोटिजन्मभिः ॥

क्षणान्मुक्तिफलं प्राप्य यांति विष्णोः शुभालयम्

॥९२॥

सर्वक्रतूनां तीर्थानां दानानां यांति ते फलम् ॥

भगवद्भक्तिभावानां नातः पुण्यतमो महः

॥९३॥

एवं स भगवान्कृष्णः सुभद्रारामसंगतः ॥

व्रजन्स्यंदनश्रेष्ठस्थो द्योतयंश्च चतुर्दिशः

॥९४॥

श्रीमदंगोपसृष्टेन मरुता सर्वदेहिनाम् ॥

पापानि नाशयञ्छ्रीमान्दयालुर्भक्तभावनः

॥९५॥

अज्ञानामप्यविश्वासभाजां विश्वासहेतवे ॥

निसर्गमुक्तिदोऽप्येष यात्रारंभान्करोति वै

॥९६॥

व्रजन्समृद्ध्या देवानां मर्त्यानां च जनार्दनः ॥

सूर्ये ललाटं तपति मध्याह्ने मार्गमध्यतः

॥९७॥

श्रांता कर्षजनस्तस्थौ म्लायन्वै तद्रजोवृतः ॥

तत्रातपस्य शांत्यर्थं दर्पणेष्वभिषेचयेत्

॥९८॥

पंचामृतैः शीततोयैः पुष्पकर्पूरवासितैः ॥

चामरैश्च जलार्द्रांतैः शीतलैर्व्यजनैस्तथा

॥९९॥

वीजयेत्पुण्डरीकाक्षं सुभद्रां राममेव च ॥

शीतैश्च पानकैर्हद्यैस्तथा खण्डविकारकैः

॥१००॥

खर्जूरैर्नारिकेलैश्च नानारंभाफलैस्तथा ॥

तथा क्षीरविकारैश्च पनसैस्तृणराजकैः

॥१॥

इक्षुभिः स्वादुहृद्यैश्च फलैर्नानाविधैस्तथा ॥

वासितैः शीततोयैश्च पक्वतांबूलपत्रकैः

॥२॥

सकर्पूरलवंगाद्यैः पूजयेत्पुरुषोत्तमम्

॥३॥

तस्मिन्काले द्विजश्रेष्ठा ये पश्यंति जनार्दनम् ॥

पूजयंति यथाशक्ति न ते संसारजं श्रमम्

॥४॥

प्राप्नुवंति द्विजश्रेष्ठा ब्रह्मलोकनिवासिनः

॥५॥

रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ॥

प्रदक्षिणं प्रकुर्वंति त्रिश्चतुः सप्त एव वा

॥६॥

दशप्रणामान्कृत्वांते स्थिताः प्रांजलयोऽग्रतः ॥

पुरारथस्थितान्ब्रह्मा स्तुतिभिर्याभिरब्जभूः

॥७॥

तुष्टाव ताभिर्देवेशं स्तुवंति परमेश्वरम् ॥

ये नरा ब्रह्मलोकं ते प्रयांति नियतं द्विजाः

॥८॥

ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ॥

शनैः शनैर्नयेद्गीतैवेंणुवीणादिनादितैः

॥९॥

बंदिनः स्तुतिपाठैश्च कलैर्मधुरिकास्वनैः ॥

निरंतरैः पुष्पवर्षैश्चामरांदोलनैस्तथा

॥११०॥

एवं व्रजति देवेशे सूर्यश्चास्तंगतो भवेत् ॥

दीपिकानां सहस्राणि ज्वालितानि सहस्रशः

॥१११॥

तदालोकप्रकाशेन मार्गशेषश्च नीयते ॥

रथावरोहणेनैषां मण्डपारोहणेन च

॥११२॥

संमर्दः सुमहांस्तत्र दिदृक्षूणां कुतूहलात् ॥

मण्डपे वासयेद्देवं गुण्डिचाख्ये मनोहरे

॥११३॥

चारुचंद्रातपे चारुमाल्यचामरभूषिते ॥

रत्नस्तंभमये स्वर्णवेदिकोपस्कृतांतरे

॥११४॥

प्राचीरवलयावीते सुधालेपसमुज्ज्वले ॥

साधुसोपानघटिते चतुर्द्वारोपशोभिते

॥११५॥

त्रैलोक्यांडबरयुते महावेद्यां महाक्रतोः ॥

प्रादुर्भावो महेशस्य यत्राभूद्दारुवर्ष्मणः

॥११६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये गुंडिचायात्राकथनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥