नारदाद्ब्रह्मणः पुत्राद्भगवद्भक्तिमुत्तमाम्
जैमिनिरुवाच
नारदाद्ब्रह्मणः पुत्राद्भगवद्भक्तिमुत्तमाम् ॥
श्रुत्वेत्थं परमप्रीत इंद्रद्युम्नोऽप्युवाच तम्
॥१॥इंद्रद्युम्न उवाच
साधुसंगस्तु विद्वद्भिर्भवव्याधिविनाशनः ॥
ममोपदिष्टो भगवन्सोऽभूत्सांप्रतमेव मे
॥२॥येन साक्षात्कृतो विष्णुः परमात्मा परात्परः ॥
स त्वं यन्मंदिरायातस्त्वदन्यः साधुरत्र कः
॥३॥त्वत्संनिधानाद्भगवस्तमो मे नाशमभ्यगात् ॥
यन्मे त्वरयते चित्तमर्चितुं नीलमाधवम्
॥४॥वेत्सि ब्रह्मांडवृत्तांतं पर्यटन्सार्वलौकिकः ॥
तदावां रथमास्थाय पश्यावो नीलमाधवम्
॥५॥पुरुषोत्तमसंज्ञस्य क्षेत्रस्यालंकृतं शुभम् ॥
तत्र तीर्थानि संतीति बहुभिः कथितानि मे ॥
त्वद्वाक्याद्यदि जानामि भवेयुः सफलानि मे
॥६॥नारद उवाच
हंत ते दर्शयिष्यामि क्षेत्रं क्षेत्रस्थितानि च ॥
तीर्थानि शक्तिशंभूंश्च क्षेत्रमाहात्म्यमेव च
॥७॥साक्षाद्द्रक्ष्यसि देवेशं भक्तस्यात्मसमर्पकम् ॥
तवानुग्रहतः शीघ्रं चतुर्द्धा संव्यवस्थितम्
॥८॥यस्य संदर्शनान्मर्त्यो जायते भक्तिभाजनम् ॥
एवं कथांते तौ प्रीतावहःकृत्यं समाप्य च
॥९॥यात्रानुकूलं निर्णीय पंचम्यां बुधवासरे ॥
ज्येष्ठकृष्णेतरे पक्षे पुष्यर्क्षे लग्न उत्तमे ॥
एकत्र शयितौ रात्रिं निन्यतुर्नृपनारदौ
॥१०॥ततः प्रभाते विमल इंद्रद्युम्नो नृपोत्तमः ॥
घोषणां कारयामास राज्यस्य सह बंधुभिः
॥११॥यथाविभवतः सैन्यैर्नीलाद्रिगमनं प्रति ॥
यावज्जीवं तत्र वासं करिष्यामो विनिश्चितम्
॥१२॥या वृत्तिः कल्पिता यस्य स तया तत्र जीवतु ॥
राजानः सावरोधाश्च सामात्याः सपरिच्छदाः
॥१३॥रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः
॥१४॥व्रजंतु सज्जितास्तत्र ब्राह्मणाः साग्निहोत्रिणः ॥
वणिजः सह भांडैश्च सपण्याः पण्यजीविनः
॥१५॥राष्ट्रकर्मणि निष्णाता कुशला राजवर्त्मसु ॥
ज्योतिर्विदो नृत्यविदो दंडनीतौ प्रवीणकाः
॥१६॥नृत्यगायनवादित्रचतुर्विधसुबुद्धयः ॥
गजवाजिनराणां च भैषज्ये शास्त्र उत्तमे
॥१७॥कुशला दृष्टकर्माणो विद्यास्वष्टादशस्वपि ॥
उपांगविद्यासु तथा कुहकार्थकुतूहलाः
॥१८॥वाटसाहसिकाश्चोरास्तथान्ये पश्यतोहराः ॥
विचित्रकथनाजीवाश्चाटुकाराश्च मागधाः
॥१९॥शास्त्रोपजीविनश्चैव तथान्ये शल्यहारकाः ॥
द्यूतकाराश्च पुंश्चल्यो वेश्या वेशानुगा विटाः
॥२०॥कृषीवलाश्च गोमेपच्छागोष्ट्रखररक्षकाः ॥
शकुंतपालाश्च कपिव्याघ्रशार्दूलरक्षकाः
॥२१॥आहितुंडिकगोरक्ष्य शबरा म्लेच्छजातयः
॥२२॥अन्ये च ये मालवदेशजाता आज्ञां मदीयामनुपालयंति ॥
ते यांतु सर्वे वसतौ हि नीलाचले यथास्वं कृतवास्तुभागाः
॥२३॥एवमाज्ञाप्य नृपतिर्यात्रायां च कृतक्षणः ॥
नारदेन समागम्य दैवज्ञमिदमाह सः
॥२४॥सांवत्सर मुहूर्त्तं मे निर्णीतं ते यथा पुरा ॥
तावन्मांगलिकं वस्तुजातं सम्यगुपानय
॥२५॥पुरोहितमतेनास्मिन्क्षणे यावद्विमृग्यते ॥
तेनादिष्टः स गणकः पुरोहितसहायवान्
॥२६॥आजहार समस्तानि मांगल्यानि द्विजोत्तमाः ॥
अत्रांतरे स राजर्षिर्दिव्यसिंहासनस्थितः
॥२७॥यात्राभिषेकमांगल्यं विप्रैः प्रागनुभावितम् ॥
श्रीसूक्तवह्निसूक्ताभ्यां सूक्तेनाब्दैवतेन च
॥२८॥पावमान्याब्धिसूक्तेन पृथङ्मांगल्यवर्द्धकैः ॥
तीर्थाद्भिरौषधीभिश्च सर्वगन्धैः पृथक्पृथक्
॥२९॥अभिषिक्तस्ततो राजा चीनांशुकहृतांभसा ॥
रराज वपुषा दीप्तो निर्धूमः पावको यथा
॥३०॥आमुक्तशुक्लवसनः स्वाचांतः सपवित्रकः ॥
नांदीमुखान्पितृगणान्पूजयित्वा यथाविधि
॥३१॥जयाराष्ट्रभृतो हुत्वा गणहोमांश्च यत्नतः ॥
शंखध्वनिसुगंधाढयं श्वेतवर्णं विधूमकम्
॥३२॥वह्निं प्रदक्षिणं चक्रे दक्षिणावर्त्तगार्चिषा ॥
साक्षात्कारेण ददतं जयं राज्ञे जयार्थिने
॥३३॥नवग्रहमखांते च ग्रहकुंभेन सेवितः ॥
ग्र हाणां दौष्ट्यनाशाय सौस्थ्यस्यापि विवृद्धये
॥३४॥ज्योतिःशास्त्रोदितैर्मंत्रैर्दैवज्ञविधिचोदितैः ॥
ततो मांगल्यनेपथ्यविधानमुपचक्रमे
॥३५॥चीनांशुकप्रावरणे विधाय कवचं निजम् ॥
शिरोवेष्टनकं शुभ्रं सुरत्नमुकुटोज्ज्वलम्
॥३६॥सावतंसे श्रुतियुगे रत्नकुंडलभूषिते ॥
ग्रैवेयकं महार्घं तु हारं तरलभूषितम्
॥३७॥दधाराथ नृपश्रेष्ठः केयूरांगदमुद्रिकाः ॥
मध्येन त्रिवलीसक्तं स्वर्णसूत्रं त्रिवृद्दधौ
॥३८॥हिरण्यकिंकिणीयुक्त मुक्तातोरणमालिकम् ॥
नानारत्नैः सुघटितां दधाराथ सुमेखलाम्
॥३९॥अनर्घ्ये पादकटके पादयोः संन्यवेशयत् ॥
सम्मुखादर्शितादर्शे ददृशे स्वं विभूषितम्
॥४०॥मंगलारोपणार्थाय हैमपीठमुपाविशत् ॥
प्राङ्मुखः श्रीधरं देवं संस्मरन्मधुसूदनम्
॥४१॥मगलायतनं विष्णुं सर्वमांगल्यकारणम ॥
स्मरणादस्य नश्यंति पातकानि बहून्यपि
॥४२॥सौमनस्यामथो मालामार्त्तवीं गंधवर्णिताम् ॥
दधार प्रथमं राजा मंत्रितां स्वपुरोधसा
॥४३॥मृदं दीपं फलं दूर्वा दधि गोरोचनां ततः ॥
मन्त्राभिमंत्रितान्सर्वान्सिद्धार्थैरभिरक्षितः
॥४४॥आत्मानं ददृशे राजा सौरभेये हविष्यथ ॥
मुकुरे मंत्रिते पश्चात्स्वं दृष्ट्वा नृपकेसरी
॥४५॥बह्वृचैः शांतिघोषेण समुदीर्णशुभायतिः ॥
याजुष्कैः पथिसूक्तेन व्रजन्मार्गेऽभिरक्षितः
॥४६॥पौराणैर्मंगलैर्वाक्यैः कृतवीर्यधृतिर्नृपः ॥
मागधैः स्तुतिपाठेन प्रादुर्भूतपराक्रमः
॥४७॥पारिजातहरं सत्यासहितं गरुडध्वजम् ॥
ध्यायन्हृत्पंकजे राजा दक्षिणं पादमुद्दधौ
॥४८॥प्रदक्षिणीकृत्य मुनिं नारदं पुरतः स्थितम् ॥
मध्यद्वारमुपागच्छद्वेत्रपाणिभिरावृतः
॥४९॥आदिष्टपदमार्गोऽसावग्निहोत्रपुरःसरः ॥
तत्रापश्यत्स्थितान्विप्रानात्मनो दक्षिणेन वै
॥५०॥मांगल्यसूक्तंऽ पठतः शुभ्राभान्पांडुरांशुकान् ॥
लाजाः सपुष्पा राजाग्रे क्षिपतः शंसतः शुभम्
॥५१॥वामपार्श्वस्थिता वेश्याश्चामरव्यग्रपाणयः ॥
शुभ्रालंकारवसनाः स्मेरपद्मानना शुभाः
॥५२॥ब्राह्मणान्पूजयामास भक्तिनम्रो द्विजोत्तमाः ॥
वस्त्रालंकारमाल्यैश्च सुगन्धैरनुलेपनैः
॥५३॥तोषयामास तान्विप्रान्भगवद्बुद्धि भावितान् ॥
वेश्याभ्यो मागधेभ्यश्च दीनानाथेभ्य एव च
॥८४॥राजानुमत्या सचिवो यथार्हं प्रददौ धनम् ॥
श्वेतान्पारावतान्हंसाञ्छ्वेताश्वं श्वेतकुंजरम्
॥५५॥सचूतपल्लवं श्वेतमालाफलविभूषितम् ॥
कदलीकांडसन्नद्धतोरणाधः स्थितं नृपः ॥
पूर्णकुंभं स पश्यन्वै मंगलानि बहून्यपि ॥
सितातपत्रेण शिरःप्रदेशे वारितातपः
॥५६॥युगपत्पूर्यमाणैस्तु कंबुभिः शतसंख्यकेः ॥
संमिश्रितानि शुश्राव वादित्राणि बहूनि सः
॥५७॥तथा मंगलगीतानि जयशब्दांश्च भूपतिः ॥
ततो विवेश प्रासादं नृसिंहमवलोकितुम्
॥५८॥यं स्मृत्वा जायते मर्त्यः सर्वकल्याणभाजनम् ॥
दृष्ट्वा स दूरान्नृहरिं दिव्यसिंहासनस्थितम्
॥५९॥प्रणम्य साष्टावयवं सन्तोष्योपनिषद्गिरा ॥
दक्षपार्श्वस्थितां दुर्गां सर्वदुर्गतिमोचिनीम्
॥६०॥ववंदे चरणाभ्याशे पश्यतीं कृपया नृपः ॥
ततः पुरोधा देवांगादवरोप्य शुभा स्रजम्
॥६१॥आसञ्जयामाम गले सुगंधेनान्वलेपयत् ॥
नीराजयामास राज्ञः शिरश्चावेष्टयन्मुदा
॥५२॥पुनः प्रदक्षिणीकृत्य तौ देवौ नृपसत्तमः ॥
शिबिकायां समारोप्य प्रतस्थे च पुरस्कृतौ
॥६३॥प्रादुर्भूय बहिर्द्वारे रथं दृष्ट्वा सुसज्जितम् ॥
तुरंगमैर्वातजवैर्दशभिः परयोजितम्
॥६४॥प्रदक्षिणीकृत्य नृपो नारदेन समाविशत् ॥
ढक्कामृदंगनिःसाणभेरीपणव गोमुखाः
॥६५॥मधुरीचर्चरीशंखा अवाद्यंत सहस्रशः ॥
स्यन्दनाः कोटिशस्तत्र नृपाणामनुजीविनाम्
॥६६॥चकाशिरे श्रेणिकृता इन्द्रद्युम्नरथाभितः ॥
नानाप्रहरणोपेताः पताकाभिरलंकृताः
॥६७॥ध्वजोच्छ्रिताः स्वर्णरौप्यैः किंकिणीजालदर्पणैः ॥
यन्त्रैर्नानाविधैर्युक्ता गंभीर स्निग्धनिःस्वनाः
॥६८॥पदातीनां कुञ्जराणां हयानां वातरंहसाम् ॥
पत्तिसंस्फोटनैर्हस्तिबृंहितैर्हयहेषितैः
॥६९॥बहुलै रथनिर्घोषैर्मिश्रिता वाद्यनिःस्वनाः ॥
युगांतार्णवनिस्वानतुल्याः शुश्रुविरे जनैः
॥७०॥तस्मिन्क्षणे पौरजनाः स्वस्वसंभारसज्जिताः ॥
अश्वकै रासभैरुष्ट्रैर्वाहकैः प्रतितस्थिरे
॥७१॥आंदोलिकाश्च पल्यंकाः कोटिशश्च तुरंगकाः ॥
श्रेणीभूताश्च दृश्यंते राष्ट्रप्रस्थानसंकुले
॥७२॥राजावरोधाः शतशो वृता वर्षवरैस्ततः ॥
नानायानसमारूढाः पालिताश्चाधिकारिभिः
॥७३॥महासैन्यैश्च संरुद्धा राजागाराद्विनिर्ययुः ॥
यज्वानश्चाग्निहोत्राणि शम्यारूढानि वृन्दशः
॥७४॥शकटेषु समारोप्य सपत्नीकाः प्रतस्थिरे ॥
तथा पुस्तकभारांश्च देवतार्चाकरंडकान्
॥७५॥इध्मबर्हिकुशान्पात्रीः संभारान्होमसंभृतान् ॥
वाहयामासुरन्यैश्च शकटावाहकद्विजैः
॥७६॥सामन्तामात्यभृत्याश्च पुरोधा ऋत्विजश्च ये ॥
राज्ञः प्रकृतद(?)साश्च उपचारनियोगिनः
॥७७॥सर्वोपचारसंभारानासतेऽन्ये प्रयायिनः ॥
कोषागारनियुक्ताश्च कोषजातमशेषतः
॥७८॥समादाय ययुस्तूर्णं राज्ञोऽवसरसेवकाः ॥
मालाकारादयः सर्वे पण्यजीवादयस्तथा
॥७९॥स्वं स्वं पण्यं समादाय ययू राजनियोगिनः ॥
श्रेष्ठश्रेण्यादयः सर्वे पुरखर्वटवासिभिः
॥८०॥समं विनिर्ययुः स्वस्वव्यवहारविलासकाः ॥
इन्द्रद्युम्नस्य नृपतेर्यात्रासमयवादितान्
॥८१॥भेरीमृदंगपटहान्व्यश्नुवानान्दिगंतरम् ॥
श्रुत्वा जनपदावासिजनाः सर्वे ससंभ्रमाः
॥८२॥राजाज्ञां मूर्ध्नि संमान्य निर्गता नीलपर्वतम् ॥
यस्य यश्च ऋजुः पंथाः स च तेनैव जग्मिवान्
॥८३॥न राजमार्गं प्रजवाद्व्यमृग्यंत नृपाज्ञया ॥
नीलाद्रिप्राप्तिमार्गेण दुर्गमेणापि ते ययुः
॥८४॥इन्द्रद्युम्नोऽपि राजेन्द्रः समस्तपुरवासिभिः ॥
चतुरंगानीकिनीभिः सहर्षाभिश्च वेष्टितः
॥८५॥श्रेणीभूतक्षितिपतिस्यन्दनावलिमध्यगे ॥
रथे रराज राजर्षिः शक्रतुल्य परिच्छदः
॥८६॥पुरस्त्रीमङ्गलाचारगीतलाजप्रसूनकैः ॥
मङ्गलाचारशोभाभिः प्रसन्नशुभचेतनः
॥८७॥वातरंहैर्हयैर्युक्तरथेन प्रययौ मुदा ॥
अनुकूलानिलप्रोद्यद्घनच्छायसुशीतले
॥८८॥नीरजस्के महीपृष्ठे समीकृतचतुष्पथे ॥
देशाध्वनीनैः पुरुषैः काननांतरवेदिभिः
॥८९॥आदिष्टवर्त्मा नृपतिर्मार्गस्योभयपार्श्वगान् ॥
देशानरण्यानि मुहुःपश्यन्नानन्दलोचनः
॥९०॥सीमामुत्कलदेशस्य विभजंतीं वनांतरे ॥
मार्गस्थां चर्चिकां प्राप चर्चितां मुंडमालया
॥९१॥अवतीर्य रथाद्राजा विनतो नारदाज्ञया ॥
साष्टांगपातं तां नत्वा तुष्टावानंदचेतनः
॥९२॥इन्द्रद्युम्न उवाच
नमस्ते त्रिदशेशानि सर्वापद्विनिवारिणि ॥
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरिते
॥९३॥कारणं जगतामाद्ये प्रसीद परमेश्वरि ॥
त्वया विना जगन्नैतत्क्षणमुत्सहते शिवे
॥९४॥सिद्धयः सर्वकार्याणां मंगलानि च शाश्वते ॥
त्वत्पादाराधनफलं मर्त्यलोके हि नान्यथा
॥९५॥चराचरपतेर्विष्णोः शक्तिस्त्वं परमेश्वरि ॥
यया सृजत्यवति च जगत्संहरते विभुः
॥९६॥चराचरगुरुं देवं नीलाचलनिवासिनम् ॥
अनुगृह्णीष्व मां देवि यथा पश्ये स्वचक्षुषा
॥९७॥जैमिनिरुवाच
नारदस्योपदेशेन स्तुत्वा देवीं नराधिपः ॥
आरुरोह रथं तूर्णं विवस्वानुदयं यथा
॥९८॥ततः प्रतस्थे तरसा स राजा श्रांतवाहनः ॥
चित्रोत्पलमहानद्यास्तीरे विरलकानने
॥९९॥धातुकन्दरविख्याते न्यवेशयदनीकिनीम् ॥
अपराह्णक्रियां कर्तुं यावदाह्निकमादृतः ॥
जलावतरणे नद्यां विवेश स्वपुरोधसा ॥
पूर्वं संशोधिते प्राज्ञैर्विषकण्टकवर्जिते
॥१॥स्नात्वा संतर्प्य देवांश्च पितॄनथ विशांपतिः ॥
संपूज्य विधिवद्विष्णुं नृपतीन्प्रकृतीस्ततः
॥२॥संमानयामास नृपः संनिवेशासनादिभिः ॥
नारदेन सह श्रीमान्प्रविश्यांतःपुरं ततः
॥३॥सुधारसानि भोज्यानि बुभुजे प्रीतमानसः ॥
पश्चिमाद्रिं ततो याते विवस्वति विशांपतिः
॥४॥सायं विधिं समाप्याशु शीतभानौ समुद्यते ॥
अनुजीविविशां नाथः सभामध्य उपाविशत्
॥५॥तत्र तस्मिन्नरपतिर्बभौ सात्राज्यलक्षणः ॥
संपूर्णमंडलश्चन्द्रो ज्योतिषामिव शारदः
॥६॥कवयः कवयांचकुः कीर्तिं तस्य सुधामलाम् ॥
जगुर्गाथां सुग्रथितां गायकाः कलसुस्वराः
॥७॥रूपयौवनलावण्यगर्विता गणिकास्ततः ॥
लयतानांगहारैश्च सुशुद्धैर्ननृतुः पुरः
॥८॥मागधास्तुष्टुवुश्चैनं लोकोत्तरशुभाकृतिम् ॥
गद्यपद्यप्रबन्धाद्यैश्चित्रैः पदकदम्बकैः
॥९॥ततः स राजा प्रानर्च वैष्णवाग्र्यान्सभासदः ॥
सुसंमतैर्गंधमाल्यतांबूलैरतिशोभनैः
॥११०॥नृपांश्च शतशस्तत्र सुखासीनान्नृपाज्ञया ॥
संभावयामास यथायोग्यं नृपतिभाजनैः
॥११॥अथापृच्छन्मुनिवरं नारदं भगवत्प्रियम् ॥
सिंहासनार्हे स्वासीनं बहुमानपुरःसरम् ॥
भगवच्चरितं श्रोतुं सर्वपापापनोदनम्
॥१२॥इन्द्रद्युम्न उवाच
भगवन्वेदवेदांगनिधान भगवत्प्रिय ॥
त्वमेव चरितं विष्णोर्जानासि ज्ञानचक्षुषा
॥१३॥हरेश्चारित्रसुधया दृढपंकमलीमसम् ॥
क्षालयांतर्मम मुने यद्यनुक्रोशको मयि
॥१४॥इत्थमालापसंमिश्रे मुनिराज्ञोः कथांतरे ॥
प्रविवेश नृपं द्वाःस्थ उत्कलेशप्रसेवकः
॥१५॥उवाच देवद्वारांते तिष्ठत्युत्कलभूमिपः ॥
सोपायनो देवपादपद्मं द्रष्टुं समौलिकः
॥१६॥विज्ञापितः स राजर्षि द्वास्थेनैवं ससंभ्रमः ॥
उवाच तं हि भो विप्राः श्रुत्वा तद्देशमण्डनम्
॥१७॥क्षेत्रं श्रीपुरुषेशस्य तद्वार्त्ताकर्णनोत्सुकः ॥
प्रवेशयाविलंबं तं श्रीमदोढ्रमहीपतिम्
॥१८॥स हि नीलगिरौ विष्णुं समाराध्य सुनिर्मलः ॥
यस्य संदर्शनात्सर्वे भविष्यामो हतांहसः
॥१९॥श्रुत्वा तद्वचनं सद्यो द्वारपालो महीपतिम् ॥
प्रवेशयामास सभामिंद्रद्युम्नस्य भूपतेः
॥१२०॥विवेशोढ्रपतिस्तूर्णं सचिवैवैर्ष्णवैः सह ॥
ननामांघ्रियुगं वन्द्यमिन्द्रद्युम्नस्य सादरम्
॥२१॥युगं वन्द्यमिन्द्रद्युम्नस्य सादरम्
॥२१॥तमुत्थाप्य च राजेंद्रः पुरस्कृत्य स वैष्णवम् ॥
स्वासनांते निवेश्याथ प्रोचे सप्रश्रयं वचः
॥२२॥राजन्सर्वत्र कुशली भवानोढ्रपते किल ॥
अपि देवो विजयते नीलाद्रिशिखरालयः
॥२३॥कच्चित्ते निर्मला बुद्धिर्भगवत्पादपद्मयोः ॥
उपैति समचित्तस्य सर्वभूतेषु ते हरौ
॥२४॥ओढ्राधीशस्तदा तस्य वचः श्रुत्वा कृतांजलिः ॥
उवाच प्रश्रितं वाक्यं हर्षविस्मयचंचुकः
॥२५॥स्वामिन्सर्वत्र कुशलं त्वत्पादानुग्रहान्मम ॥
सूर्ये तपत्यंधकारः कथं वा प्रभविष्यति
॥२६॥निसर्गगुणसंसर्गवशीकृतमहीभुजा ॥
त्वया सनाथा पृथिवी जिष्णुनेवामरावती
॥२७॥सदा धर्मश्चतुष्पादस्त्वयि शासति मेदिनीम् ॥
निषेधाचरण राजन्केवलं श्रूयते श्रुतौ
॥२८॥राजनीतिषु ये राज्ञां गुणाः समुदितास्त्वयि ॥
त एकैकं क्षितिभुजां गता दार्ष्टांतिकं विभो
॥२९॥एतावदपि साम्राज्यं दुर्लभं ते नृपोत्तम ॥
अष्टादशद्वीपवती क्षितिरेकगृहोपमा
॥१३०॥यदि त्वां नासृजद्ब्रह्मा वत्सलं सर्वजंतुषु ॥
कथं शोकविहीनाः स्युर्मृतेष्वात्मजबंधुषु
॥३१॥साधारणा नृपतयो विष्णोरंशा इति श्रुतिः ॥
भवान्साक्षात्तु भगवान्कोऽन्य ईदृग्गुणाकरः
॥३२॥दक्षिणोदधि तीरेऽस्ति नीलाद्रिः काननावृतः ॥
न तत्र लोकसंचारस्तत्रास्ते साऽपि देवता
॥३३॥वात्यया वालुकाकीर्णः सांप्रतं श्रूयते तु सः ॥
तद्वशान्मम राज्येऽपि दुर्भिक्षमरकादिकम्
॥३४॥त्वय्यागते तु सर्वस्मिन्कुशलं मे भविष्यति ॥
इत्युक्तवंतं नृपतिरुत्कलेशं द्विजोत्तमाः
॥३५॥विसर्जयामास तदा संनिवेशाय मानयन् ॥
नारदं प्रेक्ष्य निर्विण्णः किमेतदिति भो मुने
॥३६॥यदर्थं मे श्रमस्तं च विफलं हि वितर्कये ॥
इत्युक्तवंतं तं प्राह नारदस्तु त्रिकालवित्
॥३७॥न कार्यो विस्मयस्तेऽत्र भाग्यवान्वैष्णवोत्तमः ॥
वैष्णवानां न वांछा हि विफला जायते क्वचित्
॥३८॥अवश्यं प्रेक्षसे राजन्बिभ्रतं पार्थिवं वपुः ॥
कारणं जगतामादिं नारायणमनामयम्
॥३९॥त्वदनुग्रहहेतोर्वै क्षिताववतरिष्यति ॥
जगच्चराचरं सर्वं विष्णोर्वशमुपागतम्
॥१४०॥न कस्यापि वशे सोऽपि परमात्मा सनातनः ॥
केवलं भक्तिवशगो भगवान्भक्तवत्सलः
॥४१॥ब्रह्मादिकीटपर्यंतं सुगुप्तं यस्य मायया ॥
स कथं परतंत्रः स्यादृते भक्तजनान्नृप
॥४२॥धर्मार्थकाममोक्षाणां मूलं भक्तिर्मुरद्विषः ॥
सैव तद्ग्रहणोपायस्तामृते नास्ति किंचन
॥४३॥एक एव यदा विष्णुर्बहुधा स्वस्य मायया ॥
तमृते परमात्मानं सुखहेतुर्न विद्यते
॥४४॥येऽप्यन्ये शिवदुर्गाद्यास्तैस्तैः कर्मभिरावृताः ॥
यच्छंति पूजिताः कामं तेऽपि विष्णुपरायणाः
॥४५॥अन्तर्यामी स भगवान्देवानामपि हृत्स्थितः ॥
यावत्फलं प्रेरयति तावदेव ददत्यमी
॥४६॥वैष्णवस्त्वं च राजेंद्र पद्मयोनेश्च पंचमः ॥
अष्टादशानां विद्यानां पारगो वृत्तसंस्थितः
॥४७॥न्यायेन रक्षिता पृथ्वीं विशेषाद्ब्राह्मणार्चकः ॥
अवश्यं द्रक्ष्यसि क्षेत्रे वैकुण्ठं चर्मचक्षुषा
॥४८॥पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥
सर्वं ते कथयिष्यामि प्राप्ते क्षेत्रोत्तमे नृप
॥४९॥सांप्रतं रात्रिशेषो हि तृतीयं याममृच्छति ॥
स्वान्तान्निवेशान्निर्गंतुं राज्ञ आज्ञापयाधुना
॥१५०॥त्वमप्यंतर्गृहं याहि निद्राया वशमागतः
॥१५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषि संवाद एकादशोऽध्यायः ॥ ११ ॥