मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३४

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 34

अश्वमेधांगसरसो नृसिंहस्य च दक्षिणे

जैमिनिरुवाच

अश्वमेधांगसरसो नृसिंहस्य च दक्षिणे ॥

तत्रासीनश्च भगवान्पुनश्चावतरन्निव

॥१॥

बभासे दिव्यरूपोऽसौ दुर्विभाव्यः सुरासुरैः ॥

तदा पूजोपहारैश्च भक्ष्यभोज्यादिकैस्तथा

॥२॥

पूजयित्वा जगन्नाथं तोषयेद्गीतनृत्यकैः ॥

पुष्पोपहारैर्विविधैः सुगंधैरनुलेपनैः

॥३॥

कृष्णागुरुजधूपैश्च गंधतैलप्रदीपकैः ॥

तोषयेज्जगतां नाथमनेकैरुपहारकैः

॥४॥

बिन्दुतीर्थतटे तस्मिन्सप्ताहानि जनार्दनः ॥

तिष्ठेत्पुरा स्वयं राज्ञे वरमेतत्समादिशत्

॥५॥

त्वत्तीर्थतीरे राजेंद्र स्थास्यामि प्रतिवत्सरम् ॥

सर्वतीर्थानि तस्मिंश्च स्थास्यंति मयि तिष्ठति

॥६॥

तत्र स्नात्वा विधानेन तीर्थे तीर्थोघपावने ॥

सप्ताहं ये प्रपश्यंति गुंडिचामण्डपे स्थितम्

॥७॥

मां च रामं सुभद्रां च मत्सायुज्यमवाप्नुयुः ॥

ततस्तस्मिन्महापुण्ये सर्वपापप्रणाशने

॥८॥

सर्वतीर्थैकफलदे विष्णु प्रीतिकरे शुभे ॥

स्नात्वा संतर्प्य विधिवत्पितॄन्देवानतंद्रितः

॥९॥

तटस्थं नरसिंहं तं पूजयित्वा प्रणम्य च ॥

महावेदीं नरो गत्वा कृतशौचाचमक्रियः

॥१०॥

पूजयेत्पूर्ववद्विप्राः प्रणमेद्वापि भक्तितः ॥

सप्ताहं यो नरो नारी न सा प्राकृतमानुषी

॥११॥

विष्णुसायुज्यमाप्नोति शासनान्मुरवैरिणः ॥

दिवा तदृर्शनं पुण्यं रात्रौ दशगुणं भवेत्

॥१२॥

यत्किंचित्क्रियते कर्म संनिधौ जगदीशितुः ॥

स्वल्पं वाप्यथवा भूरि कोटिकोटिगुणं भवेत्

॥१३॥

तुलापुरुषदानानि महादानानि यो ददेत् ॥

एके प्रदत्ते दानेपि सर्वं दत्तं भवेद्द्विजाः

॥१४॥

सर्वं मेरुसमं दानं सर्वे व्याससमा द्विजाः ॥

महावेद्यां गते कृष्णे योगोऽयं खलु दुर्लभः

॥१५॥

अर्द्धोदयादिका योगाः स्कन्देन परिभाषिताः ॥

महावेद्याख्ययोगस्य कला नार्हंति षोडशीम्

॥१६॥

अतः परं प्रवक्ष्यामि पितॄणां कार्यमुत्तमम् ॥

यावज्जीवं गयाश्राद्धैरलभ्यं भुवि यत्फलम्

॥१७॥

दिविस्था नरकस्था वा तिर्यग्योनिगतास्तथा ॥

तथा मनुष्यजातिस्थाः सर्वे पितृपितामहाः

॥१८॥

शतं पुरुषविख्याता यं वांछंति सुतैः कृतम् ॥

तं वो विधिं प्रवक्ष्यामि शृणुध्वं मुनयो वरम्

॥१९॥

मघा वै पितृनक्षत्रं पितॄणा प्रीतिदं परम् ॥

तत्र श्राद्धं तु प्रीणाति दत्तं पुत्रैर्मुदान्वितैः

॥२०॥

पंचमी च तिथिः श्रेष्ठा श्राद्धेभ्युदयकारिणी ॥

उभयोर्यदि संयोगो महापुण्यतमा तिथिः

॥२१॥

यस्यां श्राद्धे कृते पुत्रैः पितॄणामुद्धृतिर्भवेत् ॥

सर्वतीर्थमये तस्मिन्संनिधौ मुरवैरिणः

॥२२॥

श्राद्धं चेच्छ्रद्धया कुर्यान्नीलकण्ठनृसिंहयोः ॥

मध्ये मेध्यतमे देशे योगे परमदुर्लभे

॥२३॥

पुरुषाञ्छतमुद्धृत्य ब्रह्मलोके महीयते ॥

प्रशस्यः कुतपः कालो मन्दीभूतदिवाकरः

॥२४॥

पितॄनुद्दिश्य वा दद्यादशक्तः कनकं शुचिः ॥

तर्पयित्वा तिलैः सम्यक्पैतृकीं प्रीतिमुत्तमाम्

॥२५॥

अथवा भोजयैद्विप्रान्भोज्यमूल्यानि वा ददेत् ॥

एकस्मै वा गुणवते सहस्रं भोजनं ददेत्

॥२६॥

गुणागुणविवेकस्तु नात्र योगे विधीयते ॥

तस्मिन्सुदुर्लभे योगे सर्वे मुनिसमा द्विजाः

॥२७॥

आषाढस्य सिते पक्षे पंचमी पितृदैवतम् ॥

नक्षत्रं जगदीशस्य महावेदीसमागमः

॥२८॥

एते यदा त्रयः स्युश्चेदिंद्रद्युम्नसरोवरे ॥

चतुष्पादः स्मृतो योगः पितॄणामक्षयप्रदः

॥२९॥

पितृकार्ये न सीदंति निरूप्य श्राद्धमत्र वै ॥

शृणुध्वमन्यद्विप्रा वै प्रसंगाच्च ब्रवीमि वः

॥३०॥

नभस्य दर्शे यः कुर्याच्चतुर्ष्वपि युगादिषु ॥

श्राद्धं पितॄन्समुद्दिश्याऽश्वमेधांगसंभवे

॥३१॥

गयाश्राद्धसहस्रस्य श्रद्धया विहितस्य वै ॥

फलं यद्धि समं त्वस्य नात्र कार्या विचारणा

॥३२॥

दानं होमो जपश्चापि सर्वपापापनोदनः ॥

दिनानि सप्त यान्यत्र कृष्णे वसति मंडपे

॥३३॥

एकस्मादुत्तरं श्रेयो यत्तस्मादुत्तरोत्तरम् ॥

आषाढशुक्ल तृतीयायां प्रातःस्नानं समाचरेत्

॥३४॥

इंद्रद्युम्नतटे देशे नृसिंहक्षेत्र उत्तमे ॥

व्रतमेतत्तु गृह्णीयात्संकल्प्य विधिवन्नरः

॥३५॥

वनजागरणं नाम भगवत्प्रीतिवर्द्धनम् ॥

सर्वपापप्रशमनं सर्वव्रतफलप्रदम्

॥३६॥

दिनानि सप्त मौनी स्यात्कृतत्रिषवणक्रियः ॥

कुंभे च पूजयेद्देवं त्रिसंध्यं भक्तिभावितः

॥३७॥

गोघृतेनाथ तैलेन तिलजेन प्रदीपयेत् ॥

अहर्निशं हरेरग्रे रक्षेत्तं यत्नतो व्रती

॥३८॥

दिवा दिवा वसेन्मौनी रात्रौ रात्रौ च जागृयात् ॥

मंत्रं भागवतं जप्यान्नित्यकृत्यांतरे व्रती

॥३९॥

उपवासपरो भूत्वा सप्ताहानि नयेद्व्रती ॥

अष्टमे प्रातरुत्थाय प्रतिष्ठां कारयेद्दिने

॥४०॥

तस्मिन्नेव तीर्थवरे स्नात्वागत्य गृहं पुनः ॥

मंडले सर्वतोभद्रे पूर्वे कुंभं निवेशयेत

॥४१॥

तत्रावाह्य हृषीकेशं पूजयेदुपचारकैः ॥

तस्य पश्चिमदेशे च स्थंडिले विधिसंस्कृते

॥४२॥

अग्निं प्रणीय गृह्योक्तविधिना ब्राह्मणावृतः ॥

अग्निकार्यं प्रकुर्वीत समिदाज्यचरूंस्तथा

॥४३॥

सहस्रं जुहुयादग्नौ प्रत्येकं वा शतं शतम् ॥

गायत्री वैष्णवी या वै तया होमविधिः स्मृतः

॥४४॥

संप्राश्य दक्षिणां दयाद्धेनुं वस्त्रं हिरण्यकम् ॥

विप्रांश्च भोजयेदंते प्रीतये विश्वसाक्षिणः

॥४५॥

व्रतराजमिमं कृत्वा विधिनानेन भो द्विजाः ॥

चतुर्वर्गानवाप्नोति यो यः कामानभीप्सति

॥४६॥

नारी वा श्रद्धया युक्ता कुर्याद्वेदीमहोत्सवम् ॥

सापि तत्फलमाप्नोति या कुर्याद्व्रतमुत्तमम्

॥४७॥

यात्राकर्तुः फलं यादृग्व्रतकर्तुश्च तत्फलम् ॥

भवते वै द्विजश्रेष्ठाः कथितं वो मुदान्विताः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥