अतः परं प्रवक्ष्यामि शयनोत्सवमुत्तमम्
जैमिनिरुवाच
अतः परं प्रवक्ष्यामि शयनोत्सवमुत्तमम् ॥
आषाढीमवधिं कृत्वा हरेः स्वापस्तु कर्कटे
॥१॥वार्षिकांश्चतुरो मासान्यावत्स्यात्कार्त्तिकी द्विजाः ॥
अयं पुण्यतमः कालो हरेराराधनं प्रति
॥२॥काश्यां बहुयुगं वासान्नियमव्रतसंस्थितेः ॥
फलं यदुक्तं तद्विद्यात्क्षेत्रे श्रीपुरुषोत्तमे
॥३॥चातुर्मास्यदिनैकेन वसतः सन्निधौ हरेः ॥
वार्षिकाणां चतुर्णां तु यान्यहानि वसन्नयेत्
॥४॥पुण्यक्षेत्रे जगन्नाथसन्निधौ निर्मलांतरे ॥
प्रत्यक्षं वाजिमेधस्य सहस्रस्य लभेत्फलम्
॥५॥स्नात्वा सिंधुजले पुण्ये दृष्ट्वा श्रीपुरुषोत्तमम् ॥
चातुर्मास्यव्रते तिष्ठन्न शोचति कुतश्चन
॥६॥चातुर्मास्ये निवसति क्षेत्रे श्रीपुरुषोत्तमे ॥
साक्षाद्दृष्टिर्भगवतस्तद्द्वयं मुक्तिसाधनम्
॥७॥तस्मात्सर्वाणि संत्यज्य श्रौतस्मार्त्तानि मानवः ॥
प्रयत्नान्निवसेत्पुण्ये क्षेत्रे श्रीपुरुषोत्तमे
॥८॥भोगिभोगासने सुप्तश्चातुर्मास्येषु वै प्रभुः ॥
सर्व क्षेत्रेषु सान्निध्यं न करोति जगद्गुरुः
॥९॥अत्र साक्षान्निवसति यथा वैकुण्ठवेश्मनि ॥
द्वादशस्वपि मासेषु भगवानत्र मूर्तिमान् ॥
मुक्तिदश्चक्षुषा दृष्टश्चातुर्मास्ये विशेषतः
॥१०॥अष्टमासनिवासेन दृष्ट्वा विष्णुं दिने दिने ॥
यदाप्नोति फलं तद्धि चातुर्मास्यदिनैकतः
॥११॥चातुर्मास्यनिवासेन क्षेत्रे श्रीपुरुषोत्तमे ॥
दिनं दिनं महापुण्यं सर्वक्षत्रनिवासजम् ॥
फलं ददाति भगवान्क्षेत्रे वर्षनिवासतः
॥१२॥सर्वपापप्रसक्तोऽपि सर्वाचारच्युतोऽपि च ॥
सर्वधर्मबहिर्भूतो निवसेत्पुरुषोत्तमे
॥१३॥चातुर्मास्यमथेकं यः कुर्याद्वै पापकृन्नरः ॥
विहाय सर्वपापानि बहिरंतश्च निर्मलः
॥१४॥नरसिंहप्रसादेन वैकुण्ठभवनं व्रजेत्
॥१५॥तस्मान्नरः सर्वभावैर्विष्णोः शयनभावितान् ॥
वार्षिकांश्चतुरो मासान्निवसेत्पुरुषोत्तमे
॥१६॥कुर्यादन्यन्न वा कुर्याज्जन्मसाफल्यमृच्छति
॥१७॥आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ॥
मण्डपं रचयेत्तत्र शयनागारमुत्तमम्
॥१८॥देवस्य पुरतः शय्यां रत्नपल्यंकिकोपरि ॥
स्वास्तीर्य सोपधानां तु मृदुचीनोत्तरच्छदाम्
॥१९॥कर्पूरधूलिविक्षिप्तां साधुचंद्रातपां शुभाम् ॥
सर्वतो वेष्टितां छिद्ररहितां चदनोक्षिताम्
॥२०॥साधुद्वारां समां स्निग्धां नानाचित्रोपशोभिताम् ॥
एकं स्वापगृहं कृत्वा निशीथे प्रतिमात्रयम्
॥२१॥सौवर्णं राजतं वापि रीतिजं दार्षदं तथा ॥
यथाश्रद्धं प्रकुर्वीत प्रशस्तं चोत्तरोत्तरम्
॥२२॥तत्त्रयाणां सुराणां वै पादमूले यथातथम् ॥
निधाय पूजूयेद्देवांस्तच्छेषं तेषु निक्षिपेत्
॥२३॥पूजांते भावयेदैक्य तेषां कृष्णादिभिः सह ॥
एह्येहि भगवन्देव सर्वलोकैकजीवन
॥२४॥स्वापार्थं चतुरो मासान्सर्वकल्याणवृद्धये ॥
इति संप्रार्थ्य देवेशांस्तदंगात्तत्स्रजां त्रयम्
॥२५॥प्रत्यर्चासु विनिक्षिप्य मांगल्यस्तुतिगीतिभिः ॥
नयेच्छय्यागृहद्द्वारं वासयेद्धटिकात्रये
॥२६॥पंचामृतैः स्नापयेत्तान्पृथक्पलशताधिकैः ॥
सुगन्धचंदनैर्लिप्तान्वस्त्रालंकरणादिभिः
॥२७॥पूजयित्वा यथान्यायं प्रांजलिर्मंत्रमुच्चरेत् ॥
जगद्वन्द्य जगन्नाथ जगत्त्राणपरायण
॥२८॥हिताय जगतामीश चातुर्मास्यान्घनागमान् ॥
सुप्त्वा प्रशमयारिष्टाञ्छक्रेण सह पूजितः
॥२९॥एह्येहि शयनागारं सुखमत्र स्वप प्रभो ॥
इति संप्रार्थ्य देवेशं स्वापयेत्पुरुषोत्तमम्
॥३०॥सुदृढं बन्धयेद्द्वारं विष्णोः शयनवेश्मनः ॥
स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम्
॥३१॥वार्षिकांश्चतुरो मासान्प्रसुप्ते वै जनार्दने ॥
व्रतैरनेकैर्नियमैर्मासान्वै चतुरः क्षिपेत्
॥३२॥कल्पस्थायी विष्णुलोके नरो भक्तो भवेद्ध्रुवम् ॥
नियमव्रतानि गदतः शृणुध्वं मुनयो मम
॥३३॥मंचखट्वादिशयनं वर्जयेद्भक्तिमान्नरः ॥
अनृतौ न व्रजेद्भार्यां मासं मधु परौदनम्
॥३४॥पटोलं मूलकं चैव वार्ताकं च न भक्षयेत् ॥
अभक्ष्यं वर्जयेद्दूरान्मसूरं सितसर्षपम्
॥३५॥राजमाषान्कुलत्थांश्च आशुधान्यं च संत्यजेत् ॥
शाकं दधि पयो माषाच्छ्रावणादौ क्रमादिमान्
॥३६॥राजगोपयतींस्त्यक्त्वा नारोहेच्चर्मपादुके ॥
वार्षिकांश्चतुरो मासानव्रतेन नयेद्यदि ॥
तस्य पापस्य शांत्यर्थं कार्तिके वा व्रती भवेत्
॥३७॥नमः कृष्णाय हरये केशवाय नमोनमः ॥
नमोऽस्तु नारसिंहाय विष्णवे पापजिष्णवे
॥३८॥सायं प्रातर्दिवामध्ये कर्मांतेषु च योजयेत्
॥३९॥तस्य पापानि घोराणि चितानि बहुजन्मसु ॥
निर्दहत्येव सर्वाणि तूलराशिमिवानलः
॥४०॥एकाहारो यताहारो विष्णुनिर्माल्यभोजनः ॥
आषाढीमवधिं कृत्वा कार्तिक्यवधि यो भवेत् ॥
नक्तभोजी भवेद्वापि स्वर्गस्तस्याल्पकं फलम्
॥४१॥तैलाभ्यंगं दिवास्वापं मृषावादं च वर्जयेत् ॥
आषाढशुक्लैकादश्यां संक्रांतौ कर्कटस्य वा
॥४२॥आषाढ्यां वा नरो भक्त्या गृह्णीयान्नियमं व्रती ॥
सर्वपापहरं देवं प्रपूज्य मधुसूदनम्
॥४३॥तदग्रे प्रतिसंकल्प्य व्रतार्चनजपादिकम् ॥
प्रार्थयेत्परमानन्दं कृतांजलिपुटो व्रती
॥४४॥चातुर्मास्यव्रतं देव गृहीतं त्वत्प्रसादतः ॥
तव प्रसादान्निर्विघ्नं सिद्धिमायातु केशव
॥४५॥व्रतेस्मिन्यद्यसंपूर्णे परलोकगतिर्भवेत् ॥
तन्मे भवतुसंपूर्णं त्वत्प्रसादादधोक्षज
॥४६॥इति संप्रार्थ्य देवेशं पूर्वोक्तनियमे स्थितः ॥
यापयेच्चतुरो मासान्विष्ण्वर्पित मतिर्व्रती
॥४७॥पारणं प्रतिमासांते प्रीत्यै कृष्णस्य कारयेत्
॥४८॥मिष्टान्नैर्भोजयेद्विप्रान्पूजयित्वा जगत्पतिम् ॥
असमर्थस्तु कार्तिक्यां पारयेद्व्रतमुत्तमम्
॥४९॥तस्यां पूज्य जगन्नाथं वह्निस्थं तर्पयेत्ततः ॥
द्विजाग्र्यान्पायसैर्मिष्टैर्विष्णुभक्त्या प्रपूजयेत्
॥५०॥यथाशक्त्या प्रदद्याद्वै कनकं वस्त्रमेव च ॥
अशक्तः कार्तिके मासि व्रतं कुर्यात्पुरोदितम्
॥५१॥व्रतं च विविधं विष्णोः कृच्छ्रचांद्रायणं तथा
॥५२॥पयः पीत्वा नयेद्यस्तु शाकाहारेण वा पुनः ॥
भुक्त्वात्र विपुलान्भोगान्परं निर्वाणमृच्छति
॥५३॥तत्रापि चेदशक्तः स्याद्भीष्मपंचकमुत्तमम् ॥
प्रीतये देवदेवस्य वन्यवृत्तिर्भवेद्व्रती
॥५४॥एतद्व्रतं समाख्यातं भगवत्प्रीतिकारकम् ॥
सर्वपापप्रशमनं विष्णुलोकगतिप्रदम् ॥
धन्यं यशस्यमायुष्यं सर्वकामप्रसाधनम्
॥५५॥मुनयः प्रोक्तमेतद्वो रहस्यं शृणुतापरम् ॥
एतद्व्रतानि चान्यानि व्रतानि सबहूनि च
॥५६॥भगवद्भक्तिहीनानां जानीध्वं विफलानि वै ॥
फलं महाक्रतूनां यत्तीर्थानां फलमुत्तमम्
॥५७॥दानानां तपसां चैव सात्त्विकानां च यत्फलम् ॥
एकया विष्णुभक्त्या तत्समग्रं फलमश्नुते
॥५८॥ये पश्यंति महात्मानः शयनोप्सवमुत्तमम् ॥
मातुर्गर्भे न स्वपंति कारयंति च ये महम्
॥५९॥उत्सवांते व्रतं चेदं प्रतिज्ञाय तदग्रतः ॥
पर्याप्तं पारयित्वा तु ब्रह्मलोके महीयते
॥६०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥