मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३२

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 32

ज्येष्ठपंचकव्रतवर्णनम्

जैमिनिरुवाच

अतः परं प्रवक्ष्यामि दक्षिणामूर्तिदर्शनम् ॥

पदेपदेश्वमेधस्य फलं यत्रोपलभ्यते

॥१॥

ततो नानाविधैर्दिव्यैर्भक्ष्यभोज्यादिकैस्तथा ॥

यथाशक्त्युपचारैस्तु गंधैर्माल्यैश्च पूजयेत्

॥२॥

रामं कृष्णं सुभद्रां च गीतनृत्यादिकैस्तथा ॥

प्रेक्षणीयैश्च विविधैः श्रद्धया चोपपादितैः

॥३॥

वस्त्रचंदनमाल्याद्यैः पूजयित्वा द्विजोत्तमान् ॥

भगवद्ब्राह्मणांश्चैतान्महाभागवतांस्तथा

॥४॥

ततो नयेद्दक्षिणाभिमुखांस्तांस्त्रिदशेश्वरान् ॥

उत्सवं च महत्कृत्वा पूर्वानयनवद्धरेः

॥५॥

तस्मिन्काले हरिं पश्येद्व्रजंतं दक्षिणामुखम् ॥

समं सुभद्रां यो मर्त्यो न स प्राकृतमानुषः

॥६॥

स्नानार्थमागता देवाः स्नापयित्वा जगद्गुरुम् ॥

आकाशेऽपि ससंबाधास्तावत्कालं स्थिता हरिम् ॥

द्रष्टुं व्रजंतं याम्याशावदनं भवनाशनम्

॥७॥

धर्मशास्त्रेषु यावंति धर्मकर्माणि संति वै ॥

तानि सर्वाणि संद्रष्टुं व्रजंतं दक्षिणामुखम्

॥८॥

स्नानदर्शनजं पुण्यं समग्रं लभते तु सः ॥

स्नातं मुरारिं यः पश्येद्व्रजंतं दक्षिणामुखम्

॥९॥

नीराजयित्वा देवेशं रामेण सह भद्रया ॥

प्रासादांतः प्रवेश्याथ न पश्येद्वै कथंचन

॥१०॥

एतत्तु विस्तरेणोक्तं पूर्वमेव मया द्विजाः

॥११॥

मुनय ऊचुः

भगवन्यत्त्वया प्रोक्तं ज्येष्ठास्नानप्रदर्शनात् ॥

फलं प्राप्नोति नियतं तन्नो बूहि विदांवर

॥१२॥

जैमिनिरुवाच

हंत वः कथयिष्यामि तद्व्रतं ज्येष्ठपंचकम् ॥

नातः परतरं प्रोक्तमृषिभिः शास्त्रपारगैः

॥१३॥

श्रौतस्मार्तपुराणोक्त व्रतानामिदमुत्तमम् ॥

इदं प्रथमतः प्रोक्तं ब्रह्मणा परमेष्ठिना

॥१४॥

ज्येष्ठत्वाद्व्रतमुख्यानां ख्यातं तज्जयेष्ठपंचकम् ॥

समुद्रो ज्येष्ठफलदः प्रभुर्ज्येष्ठफलप्रदः

॥१५॥

वर्षसंदर्शनात्पुण्यं मञ्चकेनैव लभ्यते ॥

मंचकेन तु यल्लभ्यं महाज्यैष्ठ्यां तु तल्लभेत्

॥१६॥

यन्मयोक्तं पुरा विप्राः स्नानदर्शनजं फलम् ॥

समग्रं तदवाप्नोति महाज्यैष्ठ्यां न संशयः

॥१७॥

मुनय ऊचुः

महाज्यैष्ठीं समाचक्ष्व यत्र स्नानं महाफलम् ॥

तत्र नः कौतुकं ब्रह्मन्महद्वै संप्रवर्त्तते

॥१८॥

जैमिनिरुवाच

ज्येष्ठस्य विमले पक्षे या वै पंचदशी भवेत् ॥

शक्रर्क्षैकांशगौ चन्द्रगुरू च गुरुवासरे

॥१९॥

शुभे योगे महाज्यैष्ठी सर्वपापप्रणाशिनी ॥

सर्वक्षेत्रं सर्वतीर्थं सप्त वै सागरास्तथा

॥२०॥

क्रतवश्च महादानसमूहश्च तपांसि च ॥

विद्याश्चाष्टादशविधा व्रतानि विविधानि च

॥२१॥

शांतिपौष्टिककर्माणि सांख्ययोगस्तथैव च ॥

सर्वे संभूय गच्छंति क्षेत्रं श्रीपुरुषोत्तमम्

॥२२॥

वृन्दशः प्रविभक्तास्त एकैकं क्षेत्रगं प्रति ॥

कस्मै वयं भाग्यवते ज्येष्ठस्नानावलोकने

॥२३॥

महाज्यैष्ठ्यां प्रवेक्ष्यामः परस्परमहंमया ॥

तत्र यांति महायोगे भगवत्क्षेत्रमुत्तमम्

॥२४॥

महाज्यैष्ठी महापुण्या भगवत्प्रीतिवर्द्धनी ॥

तस्यां संपूज्य देवेशं जगन्नाथं कृपार्णवम् ॥

दृष्ट्वा च स्नाप्यमानं तं पापकोशाद्विमुच्यते

॥२५॥

अत ऊर्ध्वं प्रवक्ष्यामि व्रतं तज्ज्येष्ठपञ्चकम् ॥

व्रतेनानेन लभ्यं यत्तत्तदेव ब्रवीमि वः

॥२६॥

दशम्यां नियमं कुर्यात्प्रातः स्नात्वा यथाविधि ॥

आचार्यं वृणुयात्तत्र वैष्णवं द्विजपुंगवम्

॥२७॥

इत्थं संकल्पममलं गृह्णीयाद्व्रतमुत्तमम्

॥२८॥

देवदेवजगन्नाथ संसारार्णवतारक ॥

अद्यारभ्य व्रतं देव यावज्ज्यैष्ठी च सा तिथिः ॥

तावद्व्रतं करिष्यामि प्रीतये तव केशव

॥२९॥

सर्वतीर्थाभिषेकं च प्रत्यहं व्रतभोजनम् ॥

मूर्तीनां तव पंचानामेकस्यापि प्रपूजनम्

॥३०॥

एकस्मिन्दिवसे देव त्रिसंध्यं त्वत्प्रसादतः ॥

समाप्यतां व्रतमिदं सफलं चास्तु ते प्रभो

॥३१॥

ततः पंचसु तीर्थेषु स्नात्वा च गृहमेत्य च ॥

स्थंडिले विलिखेत्पद्ममष्टपत्रं सकर्णिकम्

॥३२॥

तन्मध्ये स्थापयेत्कुंभं तीर्थांभोभिः प्रपूरितम् ॥

सचंदनफलैर्युक्तं तन्मुखे ताम्रभाजनम्

॥३३॥

वाससा वेष्टितं कण्ठे पात्रं चाक्षतपूरितम् ॥

तन्मध्ये स्थापयेद्देवं सौवर्णं मधुसूदनम्

॥३४॥

शुभांगावयवं शांतं वामे श्रीयुतमीश्वरम्

॥३५॥

दक्षिणे च गरुत्मंतं स्पृशंतं पृष्ठदेशतः ॥

शंखचक्रधरं चोर्ध्वे पद्मासनगतं विभुम्

॥३६॥

पूजयेदुपचारैस्तमाचार्यो वापि भो द्विजाः ॥

नीलोत्पलानां मालां तु भक्त्या देवाय दापयेत्

॥३७॥

दशम्यां पूजयित्वैवं दशकोट्यघनाशनम् ॥

प्रार्थयेत्प्रांजलिर्भूत्वा मन्त्रमेतं समुच्चरन्

॥३८॥

मधुसूदन देवेश नमस्ते माधवीप्रिय ॥

कृपावारांनिधे पाहि पतितं मां भवार्णवे

॥३९॥

एकादश्यां चतुर्बाहुं शंखचक्रगदाधरम् ॥

नारायणं पद्मसंस्थं पंचनिष्कविनिर्मितम् ॥

तदर्द्धं निर्मितं वापि पूजयेत्पद्ममालया

॥४०॥

नैवेद्यं पायसं दद्यात्सितां रंभाफलानि च ॥

नानाविधं च नैवेद्यं दत्त्वा संप्रार्थयेन्मुदा

॥४१॥

नारायण नमस्तेऽस्तु भवसागरतारण ॥

त्राहि मां पुंडरीकाक्ष शरणागतवत्सल

॥४२॥

एकादशेंद्रियकृतं पापराशिमनुत्तमम् ॥

अनादिभवनिर्व्यूढं नाशयेत्पूजितः प्रभुः

॥४३॥

द्वादश्यां यज्ञवाराहं पूजयेत्स्वर्णनिर्मितम् ॥

चंदनागुरुकर्पूरलेपनैश्चंपकस्रजा

॥४४॥

नानाविधापूपसारा भक्ष्यभोज्यफलान्विताः ॥

निवेद्य प्रार्थयेद्देवं स्तुतिमेतां समुच्चरन्

॥४५॥

प्रलयार्णवसंमग्नां धरणीं धृतवानसि ॥

किन्न शक्तो ममोद्धारे पतितस्यांघ्रिपंकजे ॥

तन्मामुद्धर गोविंद निमग्नं शोकसागरे

॥४६॥

अब्दो द्वादशमासो वै यावदब्दकृतानि तु ॥

पापानि महदल्पानि इतः पूर्वेषु जन्मसु ॥

तद्विनाशयते देवो द्वादश्यामर्चितो नृणाम्

॥४७॥

त्रयोदश्यां तु प्रद्युम्नं शंखचक्रवराभयान् ॥

धारयन्तं पद्मगतं चतुर्निष्कविनिर्मितम्

॥४८॥

उपचारैर्यथाप्रोक्तैः पूजयेद्भक्तितो नरः ॥

अशोकपाटलीमालां चंद्रपूर्णां समुज्ज्वलाम्

॥४९॥

नैवेद्यं चैव पक्वान्नं फलं पक्वं मनोहरम् ॥

दत्त्वा नमस्कृतिं कुर्वन्प्रार्थयेत्प्रांजलिः शुचिः

॥५०॥

देव प्रद्युम्न कामानां पूरक कामरूपधृक् ॥

कामाश्च सफलाः संतु कामपाल नमोऽस्तु ते

॥५१॥

चतुर्दश्यां नरहरिं पूजयेत्कनकाकृतिम् ॥

वक्षःस्थलस्थया लक्ष्म्या प्रीयमाणं सटोज्ज्वलम्

॥५२॥

व्यात्ताननं साट्टहासं योगपट्टाब्जसंस्थितम् ॥

सुतीक्ष्णनखरं देवं सर्वापद्विनिवारणम्

॥५३॥

चतुर्भिर्हेमनिष्कैश्च घटितं शुभलक्षणम् ॥

पूजयेत्पूर्ववद्देवं सोपहारं सुभक्तितः

॥५४॥

जपाकुसुममालां च जातीपुष्पस्रजं तथा ॥

दत्त्वा पुष्पांजलीन्पादे प्रणम्य सप्रदक्षिणम्

॥५५॥

यथा हिरण्यकशिपुं लोकानां हितकाम्यया ॥

व्यदारयस्तथा पापसंघं नाशय पूजितः

॥५६॥

एवं संप्रार्थ्य नृहरिं प्रणम्य दण्डवत्क्षितौ ॥

निर्वर्त्य व्रतमेवं तद्व्रती पंचदिनात्मकम् ॥

पंच पंच प्रदीपांस्तु दिवारात्रौ प्रदापयेत्

॥५७॥

वस्त्रयुग्मान्पंच पञ्च च्छत्रोपानद्युगं तथा ॥

सयज्ञसूत्रान्कलशान्पञ्च पञ्च फलान्वितान्

॥५८॥

भोजनांते द्विजेभ्यश्च प्रदद्याच्छ्रद्धयान्वितः

॥५९॥

रात्रौ जागरगीताद्यैस्तथा नानोपहारकैः ॥

तोषयेद्वासुदेवं तु पुराणपठनेन तु

॥६०॥

पौर्णमास्युषसि स्नात्वा श्रीकृष्णस्यांतिकं व्रजेत्

॥६१॥

रामं कृष्णं सुभद्रां च पूजयित्वा यथाविधि ॥

स्नपनं कारयित्वाथ दृष्ट्वा वा शास्त्रचोदितम्

॥६२॥

स्नानं कृत्वा पुनः सिंधौ गृहमागत्य तत्र वै ॥

यत्र विष्णोर्मूर्त्तयस्ताः कुम्भस्था मन्त्रपूजिताः

॥६३॥

तासां पश्चिमतो वह्निं समाधाय यथाविधि ॥

अग्निकार्यं प्रकुर्वीत स्वैः स्वैर्मंत्रैः पुरोहितः

॥६४॥

प्रणवादिचतुर्थ्यंतं नमोंतं नाम ईरयेत् ॥

देवानां मूलमंत्रस्तु स्वाहांतो होमकर्मणि

॥६५॥

चरोराज्यस्य समिधां पलाशानां पृथक्पृथक् ॥

एकैकं देवमुद्दिश्य जुहुयाच्च शतं शतम्

॥६६॥

तस्य पुष्पशतं चैव जुहुयात्तदनंतरम् ॥

पूर्णाहुतिं ततो हुत्वा ब्रह्मणे दक्षिणां ददेत्

॥६७॥

आचार्ये दक्षिणां दद्यात्सुवर्णं धेनुमेव च ॥

स्वर्णशृंगीं रौप्यखुरां नानोपकरणैर्युताम्

॥६८॥

महार्घ्यवस्त्रदानानि येन तुष्यति वा गुरुः ॥

सर्वोपकरणैर्युक्ताः प्रतिमाश्च निवेदयेत्

॥६९॥

ब्राह्मणान्भोजयेत्सर्पिः खण्डयुक्तैश्च पायसैः ॥

एतद्व्रतं समाख्यातं ज्येष्ठपंचकमुत्तमम्

॥७०॥

अनुष्ठाय नरो भक्त्या स्नानदर्शनजं फलम् ॥

समग्रं लभते विप्रास्तदा नैवात्र संशयः

॥७१॥

एकादशी या तु मध्ये निर्जला सा प्रकीर्तिता ॥

एकां तां भक्तियुक्ता ये यथाविधि उपासते

॥७२॥

यावज्जीवकृताः सर्वा एकादश्यो न संशयः ॥

व्रतराजमिमं कृत्वा सर्वव्रतफलं लभेत्

॥७३॥

यान्यान्समीहते कामांस्तांस्तानाप्नोत्यसंशयः

॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपंचकव्रतवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥