अतः परं प्रवक्ष्यामि दक्षिणायनमुत्तमम्
जैमिनिरुवाच
अतः परं प्रवक्ष्यामि दक्षिणायनमुत्तमम् ॥
संक्रांतेः पूर्वकाले याः कला वै विंशतिर्मताः
॥१॥अयनं पुण्यकालोऽयं पुण्यकर्मसु कर्मिणाम् ॥
पंचामृतैस्तत्र देवं स्नापयेत्स्वापवद्द्विजाः
॥२॥सर्वांगं लेपयेदस्यागुरुकर्पूरचंदनैः ॥
सुगन्ध माल्यालंकारैश्चारुवस्त्रैश्च दीपकैः
॥३॥नानाभक्ष्योपहारैश्च पूजयेत्परमेश्वरम् ॥
कर्पूरालतिकामुच्चैर्मुखाभ्याशे हरेर्ददेत्
॥४॥दूर्वांकुराक्षतैर्नीराजनेनाथ प्रवन्दयेत् ॥
मांगल्यगीतनृत्ताद्यैर्नारी हुलुहुलां वदेत्
॥५॥पूजितं पूज्यमानं च यः पश्येत्पुरुषोत्तमम् ॥
पूजाशतगुणं पुण्यं तस्मै दद्याज्जनार्दनः
॥६॥अयने दक्षिणे तस्मिन्नर्च्यमानं श्रियः पतिम् ॥
विहाय सर्वपापानि विष्णुलोकं व्रजंति ते
॥७॥स्वल्पा वा महती यात्रा सर्वा मुक्तिप्रदा हरेः ॥
तस्मिंस्तस्मिन्दिने दृष्टो भगवान्मुक्तिदो ध्रुवम्
॥८॥विश्वासहेतोर्मूर्खाणां यात्रा ह्येताः कृपावता ॥
विष्णुना कथिता विप्राः पापिनां किल्बिषापहाः
॥९॥आयासजनितं पुण्यं मन्यन्ते ये नराधमाः ॥
लक्ष्मीपतेर्भोजनाय संस्कार्योऽत्र महानसः
॥१०॥वैष्णवाग्निं समाधाय निरुप्य चरुमुत्तमम् ॥
वैश्वदेवं प्रकुर्वीत भगवत्पाकसाधनम्
॥११॥ब्रह्मणे वास्तुपतये प्रजानां पतये तथा ॥
विष्णवे विश्वकर्त्रे च शुच्यग्नौ जुहुयाच्छुचिः
॥१२॥राज्ञा नियुक्त आचार्यः श्रौतस्मार्तक्रियापरः ॥
द्वारपालप्रचंडाभ्यामैशान्यां क्षेत्रपालिने
॥१३॥दक्षिणे च विरूपाय खगानां पतये तथा ॥
दुर्गासरस्वतीभ्यां च नैर्ऋत्यां विनिवेदयेत्
॥१४॥महालक्ष्मीमहेंद्राभ्यां प्राच्यां दिशि बलिः स्मृतः ॥
विष्णु पारिषदेभ्योऽथ पशूनां पतये तथा
॥१५॥उदीच्यां बलिदानं तु नारदायाथ पश्चिमे ॥
आग्नेय्यामग्नये दद्याद्वायव्यां विश्वसाक्षिणे
॥१६॥पञ्चश्वसनरूपेभ्यो विश्वकर्त्रेऽथ मध्यतः ॥
आद्यंतयोर्जलं दद्यात्प्रत्येकं बलिकर्मणि
॥३७॥दत्त्वा वलिं तदग्नौ तु कारयेत्पाकमुत्तमम् ॥
संध्यात्रये भगवतः पूजायै चरुकारणात्
॥१८॥चरुसंस्कारकांगानि भक्ष्यभोज्यादिकानि वै ॥
न दीप्तान्योजयेत्तत्र लोके त्रैवर्णिको नृपः
॥१९॥आर्यान्पवित्राञ्छूद्रान्वा वर्णांश्च परिसेवकान् ॥
लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम्
॥२०॥भुंक्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्ध्नि धारणात्
॥२१॥भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥
आघ्राणान्मानसं पापं दर्शनाद्दृष्टिजं तथा
॥२२॥आस्वादात्तु कृतं पापं श्रावणं च व्यपोहति ॥
स्पर्शनात्त्वक्कृतं पापं मिथ्याभाषणजं तथा
॥२३॥गात्रलेपाद्दहेत्पापं शारीरं वै न संशयः
॥२४॥महापवित्रं हि हरेर्निवेदितं नियोजयेद्यः पितृदेवकर्मसु ॥
तृप्यंति तस्मै पितरः सुरास्तथा प्रयांति लोकं मधुसूदनस्य ते
॥२५॥नात्ः पवित्रं वस्त्वस्ति हव्यकव्येषु भो द्विजाः ॥
नराणां रूपमास्थाय तदश्नंति दिवौकसः
॥२६॥अभिमानो महांस्तत्र देवदेवस्य चक्रिणः ॥
श्वेतो नाम महाराजः पुरा त्रेतायुगेऽभवत्
॥२७॥व्रतस्थोऽपि महाभक्तिं चकार पुरुषोत्तमे ॥
इन्द्रद्युम्नेन रचितभोगमात्रानुसारतः
॥२८॥भोगान्प्रकल्पयामास प्रत्यहं श्रीपतेर्मुदा ॥
भक्ष्यभोज्यान्यनेकानि षड्रसांश्च सुसंस्कृतान्
॥२९॥माल्यानि च विचित्राणि सुगंधमनुलेपनम् ॥
गीतवादित्रनृत्यानि दिव्यानि सुबहूनि च
॥३०॥राजोपचारा बहुशोऽवसरेऽवसरे हरेः ॥
बहुवित्तव्ययायास भक्तिभावनिरूपकाः
॥३१॥तत्तद्वैष्णवशास्त्रोक्तचित्रभोगाः पृथग्विधाः ॥
कल्पितास्तेन भूपेन विद्वत्पंकजभानुना
॥३२॥प्रातः पूजनवेलायां हरिं द्रष्टुं जगाम सः ॥
कस्मिंश्चिद्दिवसे राजा पूज्यमानं ददर्श तम्
॥३३॥प्रणम्य देवदेवं तु बद्धांजलिपुटो मुदा ॥
प्रासादद्वारनिकटे तस्थिवानृपसत्तमः
॥३४॥दृष्ट्वा स्वयं विरचितानुपचाराननुत्तमान् ॥
उपायनसहस्रं च हरेरग्रे प्रकल्पितम्
॥३५॥चिंतयामास मनसा किंचिद्ध्यानावलंबितः ॥
मनुष्यकल्पितंभोगं ग्रहीष्यति हरिः किमु
॥३६॥देवैर्दिव्योपचारैर्यो शक्यते नार्चनाविधौ ॥
मानसैरुपहारैर्यं पूजयंति यतव्रताः
॥३७॥भावदुष्टो बहिर्यागो न मुदे तस्य निश्चितम् ॥
इत्थं संचितयन्राजा दिव्यासनगतं विभुम्
॥३८॥भुंजानमन्नपानाढ्यं श्रिया सुपरिवेषितम् ॥
दिव्यस्रजालंकृतया दिव्यगंधदुकूलया
॥३९॥अनर्घ्यरत्नमंजीरसिंजितेन सुरालयम् ॥
पूरयंत्या स्वर्णदर्व्या ददत्या सादरं रसान्
॥४०॥भगवत्प्रतिरूपैश्च भुंजानैः परिवेष्टितम् ॥
दृष्ट्वा कृतार्थमात्मानं मन्यमानस्तदद्भुतम्
॥४१॥प्रोन्मीलिताक्षः स पुनः प्राग्दृष्टं समवैक्षत ॥
अतः प्रभृति राजासौ परां निर्वृतिमाप्तवान्
॥४२॥निवेदिताशीर्व्रतवांश्चचार सुमहत्तपः ॥
अकालमृत्युनाशाय स्वराज्ये मृतमुक्तये
॥४३॥मंत्रराजं जपन्नित्यं श्रितानां कल्पपादपम् ॥
ददर्श शतवर्षांते नृहरिं दुरितापहम्
॥४४॥योगासनाब्जनिलयं वामांगावस्थितश्रियम् ॥
दिव्यालंकृतसर्वांगं स्फटिकामलविग्रहम्
॥४५॥त्रिदशैः सिद्धमुक्तैश्च स्तूयमानं स्मिताननम् ॥
भ्रांतो विस्मयभीतिभ्यां हर्षगद्गदया गिरा ॥
प्रसीद नाथेति लपन्पपात धरणीतले
॥४६॥तपःकृशं तं प्रणतं दृष्ट्वा मनुजकेसरी ॥
अकल्मषं क्षितिपतिं विवक्षुर्भक्तवत्सलः
॥४७॥श्रीभगवानुवाच
उत्तिष्ठ वत्स भक्त्या ते प्रसन्नं विद्धि मां प्रभुम् ॥
मयि प्रसन्ने नालभ्यं वरं तत्प्रार्थ्यतां भवान्
॥४८॥श्रुत्वेत्थं भगवद्वाक्यं समुत्तस्थौ ततो नृपः ॥
बद्धांजलिपुटो नम्रो भक्त्योवाच जनार्दनम्
॥४९॥श्वेत उवाच
स्वामिन्यदि प्रसादस्ते मयि जातः सुदुर्लभः ॥
सारूप्यमथ संप्राप्य स्थास्यामि तव सन्निधौ
॥५०॥स्थास्ये यावन्नृपत्वेऽहं मद्राज्ये नो जनः क्वचित् ॥
अकाले म्रियतां जंतुः काले चेन्मुक्तिमाप्नुयात्
॥५१॥तच्छ्रुत्वा भगवान्प्राह श्वेतराजानमुत्तमम्
॥५२॥श्वेत ते वांछितं भूयात्तिष्ठ त्वं मम दक्षिणे ॥
भुक्त्वा वर्षसहस्रं तु स्वराज्यं सुसमृद्धिमत्
॥५३॥मम निर्माल्यभोगेन क्षीणशेषाघसंचयः ॥
सुनिर्मलांतःकरणो मत्सायुज्यमवाप्स्यसि
॥५४॥वटसागरयोर्मध्ये मुक्तिस्थाने सुदुर्लभे ॥
मदीयाऽऽद्यावतारस्य विष्णोर्मत्स्यस्वरूपिणः
॥५५॥संमुखीनो वस त्वं हि स्फटिकामलविग्रहः ॥
ख्यातिं यास्यसि भूर्लोके श्वेतमाधवसंज्ञया
॥५६॥युवयोरंतराले ये प्राणांस्त्यक्ष्यंति मानवाः ॥
तिर्यंचोऽपि च कीटा वा ध्रुवं ते मुक्तिमाप्नुयुः
॥५७॥अमरा यत्र मरणमिच्छंति किमु मानवाः ॥
तवोत्तरस्यां दिशि यत्सरः पापनिबर्हणम्
॥५८॥तत्र स्नात्वा उपस्पृश्य तदीये दक्षिणे तटे ॥
उभयोर्दृष्टिपूतःसंत्यक्त्वा प्राणान्विमुच्यते
॥५९॥आसमंतादिदं क्षेत्रं यत्रतत्रापि मुक्तिदम् ॥
मूढात्मनां विश्वसितुं प्रधानं स्थानमीरितम्
॥६०॥तव राज्ये तु ये लोका मम निर्माल्यभोजिनः ॥
मृतिराकालिकी तेषां न कदाचिद्भविष्यति
॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तत्रिंशोऽध्यायः ॥ ३७ ॥