ततः स भगवान्मन्त्रमहिम्ना नरकेसरी
जैमिनिरुवाच
ततः स भगवान्मन्त्रमहिम्ना नरकेसरी ॥
इन्द्रद्युम्नादिभिः सर्वैददृशेऽद्भुतदर्शनः
॥१॥लेलिहानो जगत्सर्वं समंताज्ज्वलजिह्वया ॥
कालाग्निरुद्रं सकलं ग्रसंतमिव चोत्थितम्
॥२॥रोदसीकंदरं व्याप्य तेजसा तपता भृशम् ॥
अनेकाक्षिमुखग्रीवाकरपादश्रुतिर्विभुः
॥३॥सर्वाश्चर्यमयो देवः केवलं तेजसो निधिः ॥
भयत्रस्ताः समुद्विग्ना नेशाः स्तोतुमपि प्रभुम्
॥४॥तं तथाविधमालोक्य नारदः पितरं तदा ॥
पप्रच्छ भगवन्नित्थं कथमेष प्रकाशते
॥५॥नारद उवाच
अनुग्रहायावतरत्प्रत्युतैष भयप्रदः ॥
सर्वे भयात्स्थिरतराः प्रलयाशंकिनोऽधुना
॥६॥त्वमेव भगवल्लीलां जानासि जगतां पते
॥७॥तच्छ्रुत्वा नारदवचः पद्मयोनिः स्मिताननः ॥
उवाच कौतुकं वाक्यं सर्वेषामुपकारकम्
॥८॥ब्रह्मोवाच
अवतीर्णं जगन्नाथं दृष्ट्वा दारुवपुर्धरम्
॥९॥अवज्ञास्यंति वै लोकाः साक्षाद्ब्रह्मस्वरूपिणम् ॥
अतत्त्ववेदिनो मूढा महिमानं विदंत्विति
॥१०॥मंत्रितो मन्त्रराजेन येनासौ परमेष्ठिना ॥
पुराभिमंत्रितो येन विददार महासुरम्
॥११॥तादृग्रूपं सुदुर्दर्शं प्राप्यमेति भयप्रदम् ॥
मूर्तिरेषा परा काष्ठा विष्णोरमिततेजसः
॥१२॥यामभ्यर्च्य गतिं यांति पुनरावृत्तिदुर्लभाम् ॥
नृसिंहाभिमुखः स्तोत्रमिदमाह मुदान्वितः
॥१३॥नमोऽस्तु ते देववरैकसिंह नमोऽस्तु पापौघगजैकसिंह ॥
नमोऽस्तु दुःखार्णवपारसिंह नमोऽस्तु तेजोमय दिव्यसिंह
॥१४॥नमोऽस्तु सर्वाकृतिचित्रसिंह नमोऽस्तु ते क्लेशविमुक्तिसिंह ॥
नमोऽस्तु ते दिव्यवपुर्नृसिंह नमोऽस्तु ते वीरवरैकसिंह
॥१५॥नमोऽस्तु ते दैत्यविदारसिंह नमोऽस्तु देवेष्वधि देवसिंह ॥
नमोऽस्तु वेदांतवनैकसिंह नमोऽस्तु ते योगिगुहैकसिंह
॥१६॥नमोऽस्तु ते सिंह वृषैकसिंह नमोऽस्तु नीलाचलशृंगसिंह
॥१७॥जैमिनिरुवाच
स्तुत्वेत्थं दिव्यसिंहं तमिंद्रद्युम्नं प्रजापतिः ॥
सिंहयंत्रं समालेख्य तस्योपरि निवेश्य च
॥१८॥दीक्षयित्वा मन्त्रराजं साक्षादाथर्वणोदितम् ॥
आहुर्वैष्णवनिर्वाणं यं वेदांतपरायणाः
॥१९॥यत्र वेदाश्च चत्वारः साक्षान्नित्यं प्रतिष्ठिताः ॥
यमधीत्य महामन्त्रं मनुः स्वायंभुवः पुरा
॥२०॥सृष्टिं चकार भगवान्प्राप्तमस्माच्चतुर्मुखात् ॥
अणिमादिगुणा यस्य फलं स्यादानुषंगिकम्
॥२१॥एक एव महामन्त्रः पुरुषार्थचतुष्टयम् ॥
प्राप्तुं कारणभूतो हि किं पुनः क्षुद्रकामनाम्
॥२२॥एक एव महामंत्रः सर्वक्रतुफलप्रदः ॥
सर्वतीर्थप्रदः सर्वदानव्रतफलप्रदः
॥२३॥यथायं सर्वपापौघतूलराशेर्दवानलः ॥
दिव्यसिंहाकृतिर्देवो मंत्रराज्ञस्तथा ह्ययम्
॥२४॥एनमभ्यस्य यतयो भवरोग त्यजंति हि ॥
यस्य ग्रहणमात्रेण ग्रहापस्मारराक्षसाः
॥२५॥डाकिन्यो भूतवेतालपिशाचा उरगा ग्रहाः ॥
दूरादेव पलायंते नेशते वीक्षितुं च तम्
॥२६॥मंत्रराजं ततो लब्ध्वा इन्द्रद्युम्नश्चतुर्मुखात् ॥
नृसिंहं शातवपुषं लक्ष्मीसंश्रितवक्षसम्
॥२७॥चक्रं पिनाकं दधतं चंद्रसूर्याग्निचक्षुषम् ॥
जानुप्रसारितकरसरोजद्वंद्वमुन्नसम्
॥२८॥योगपट्टासनारूढद्वात्रिंशद्दलपद्मके ॥
मंत्रवर्णमये मध्ये कर्णिकाप्रणवोज्ज्वले
॥२९॥सुखासीनं साट्टहासं वीक्षंतं श्रीमुखांबुजम् ॥
सटामंडितवक्त्राब्जं दिव्यरत्नोज्ज्वलाकृति
॥३०॥फणासहस्रं विस्तार्य पश्चाच्छत्राकृतिं विभोः ॥
ददर्श बलभद्रं तं हललांगलधारिणम्
॥३१॥प्रजहर्ष नृपो दृष्ट्वा तादृशं पुरुषोत्तमम् ॥
विस्मयाविष्टचेताश्च पप्रच्छ कमलासनम्
॥३२॥भगवंश्चित्रमेतद्वै चरितं मधुघातिनः ॥
विज्ञातुं कथमस्माभिः शक्यः स्याल्लोकभावन
॥३३॥यज्ञांते तादृशं रूपं बभार दारुनिर्मितम् ॥
रथस्थं भगवानेव प्रासादांतर्न्यवेशयत्
॥३४॥मामाह पूर्वं वाणी सा गगनांतरिता तदा ॥
अपौरुषेयतरुणा चतुर्मूर्तिर्भविष्यति
॥३५॥इदानीमेक एवासौ दृश्यते सुप्रतिष्ठितः ॥
माया वा तत्त्वमथ वा तत्त्वतो मे वद प्रभो
॥३६॥श्रवणे यदि मां वेत्सि भाजनं भवभावन ॥
श्रुत्वैतत्प्रत्युवाचाथ संशयानं नृपोत्तमम्
॥३७॥ब्रह्मोवाच
आद्या मूर्तिर्भगवतो नारसिंहाकृतिर्नृप ॥
नारायणेन प्रथिता मदनुग्रहतस्त्वयि
॥३८॥दारवी मूर्तिरेषेति प्रतिमाबुद्धिरत्र वै ॥
मा भूत्ते नृपशार्दूल परं ब्रह्माकृतिस्त्वियम्
॥३९॥खंडनात्सर्वदुःखानामखंडानंददानतः ॥
स्वभावाद्दारुरेषो हि परं ब्रह्माभिधीयते
॥४०॥इत्थं दारुमयो देवश्चतुर्वेदानुसारतः ॥
स्रष्टा स जगतां तस्मादात्मानं चापि सृष्टवान्
॥४१॥शब्दब्रह्म परंब्रह्म नानयोर्भेद इष्यते ॥
लये तु एकमेवेदं सृष्टौ भेदः प्रवर्त्तते
॥४२॥अन्योन्यापेक्षिणौ भूप शब्दार्थौ हि परस्परम् ॥
अर्थाभावेन शब्दोऽस्ति शब्दाभावेन बुद्ध्यते
॥४३॥अर्थस्तस्माच्चतुर्वेदाः शब्दा ह्यर्थाश्च तादृशाः ॥
ऋग्वेदरूपी हलधृक्सामवेदो नृकेसरी
॥४४॥यजुर्मूर्त्तिस्त्वियं भद्रा चक्रमाथर्वणं स्मृतम् ॥
वेदश्चतुर्द्धा भेदोऽयमेकराशिरभेदतः
॥४५॥अतस्ते संशयो मा भूदेकस्तु बहुधा विभुः ॥
अवतारेषु चान्येषु न्यायेनैतेन वर्त्तते
॥४६॥भेदाभेदौ तथा ख्यातौ जगन्नाथस्य ते नृप ॥
येन ते मनसस्तुष्टिस्तेन भक्त्या समाचर
॥४७॥सर्वरूपमयो ह्येष सर्वमंत्रमयः प्रभुः ॥
आराध्यते यथा येन तथा तस्य फलप्रदः
॥४८॥यथा सुशुद्धं कनकं स्वेच्छया घटितं नृप ॥
तत्तत्संज्ञामवाप्येह तत्तत्संतोषकारकम्
॥४९॥एवं महिम्ना भगवानत्राविरभवन्नृप ॥
यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती
॥५०॥कर्मणा मनसा वाचा विशुद्धेनांतरात्मना ॥
समाराधय गोविंदमत्र दारुवपुर्द्धरम्
॥५१॥चतुर्वर्गफलावाप्त्यै यथाभिलषितं तव ॥
अनेन मंत्रराजेन विष्णुमेनं समर्चय
॥५२॥नातः परतरो मंत्रो न भूतो न भविष्यति ॥
अनेनाभ्यर्चितो विष्णुः प्रीतो भवति तत्क्षणात्
॥५३॥ददाति स्वपुरं चापि भगवान्भक्तवत्सलः ॥
यज्ञैस्तीर्थैर्व्रतैर्दानैस्तपोभिश्चापि तस्य किम्
॥५४॥नीलाचलस्थं यो विष्णुं दारुमूर्तिमुपास्ति वै ॥
तत्त्वं ब्रवीमि ते भूप श्रुत्वैतदवधारय
॥५५॥न्यग्रोधमूले कूलेऽस्य सिंधोर्नीलाचले स्थितम् ॥
दारुव्याजामृतं ब्रह्म दृष्ट्वा मुच्येन्न संशय
॥५६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टाविंशोऽध्यायः ॥ २८ ॥