मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 15

ततस्ते प्रस्थिता विप्रा नीलकण्ठांतिकं मुदा

जैमिनिरुवाच

ततस्ते प्रस्थिता विप्रा नीलकण्ठांतिकं मुदा ॥

प्रपूज्य तं महादेवं श्रीदुर्गां प्रणिपत्य च

॥१॥

विमुच्य स्यंदनवरं पादचाराः सहानुगाः ॥

आरोढुं नीलभूमिध्रं प्रयाताः संयतेद्रियाः

॥२॥

नानाद्रुमलताकीर्णं नानापक्षिगणाकुलम् ॥

शिलाविषमसंरोधमभितः परिवेषकम्

॥३॥

भ्रमद्भ्रमरसंभूतभ्रमकृद्गंडशैलकम् ॥

दक्षिणांभोधिकल्लोलजलावृतनितंबकम्

॥४॥

अप्रतर्क्यं सदा मर्त्यैर्दुष्प्रवेश्यं महोरगैः ॥

मत्तमातंगकघटाबृंहितैर्भीषणांतरम्

॥५॥

श्वापदैश्चिरसंवासैः शस्त्राघातमवेदिभिः ॥

निर्भयैः परितः कीर्णं मृगयूथैरनेकशः

॥६॥

प्रवेष्टुकामा न प्रापुर्यदा ते मार्गमंतरम् ॥

तदा नारदसंसर्गाद्विदित्वा तु गिरेः शिरः

॥७॥

आसेदुर्यत्र वसति कृष्णागुरुतरोरधः ॥

सर्वापद्भयसंहर्ता दिव्यसिंहवपुर्विभुः

॥८॥

यं दृष्ट्वा ब्रह्महत्याया लीयन्ते कोटयो नृणाम् ॥

व्यात्तास्यं भीमदशनमापिंगलसटाकुलम्

॥९॥

उग्रं त्रिनेत्रं दैत्यस्य स्वोरावुत्तानशायिनः ॥

वक्षःस्थलं दारयंतं नखरैर्वज्रदारुणैः

॥१०॥

अरुणाभं लसज्जिह्वं साट्टहासमुखं विभुम् ॥

शंखचक्रलसद्बाहुं किरीटमुकुटोज्ज्वलम्

॥११॥

नेत्रोच्छलद्वह्निकणसंत्रासितदिगन्तरम् ॥

प्रचंडाघातभूम्यंतप्रविष्टपदपंकजम्

॥१२॥

तमादिमृर्तिं ते दृष्ट्वा नारदाग्रे तदा हरिम् ॥

निर्भया ददृशुर्दूरात्प्रणेमुर्विगतज्वराः

॥१३॥

इन्द्रद्युम्नोऽपि तं दृष्ट्वा नारदोक्तौ विशस्वसे ॥

भाविकार्ये प्रत्ययवानिदमाह महामुनिम्

॥१४॥

महर्षे कृतकृत्योऽस्मि त्वं हि ज्ञाननिधिः परम् ॥

दुराराध्यो नृसिहोऽयं दर्शनेऽपि भयावहः

॥१५॥

भवादृशैः सुसेव्योयं मादृशैर्दूरतोऽपि सः ॥

दर्शनात्कृतकृत्योऽस्मि संलीनाशेषपातकः

॥१६॥

त्वत्सन्निधानादेवात्र तिष्ठामो निर्भया मुने ॥

अत्युग्र मूर्तिर्भगवान्स्वल्पवीर्यैर्नरैः कथम्

॥१७॥

आराध्यते दैत्यराजं त्रिलोकेशं विदारयन् ॥

यस्य नीलमयी मूर्तिः कृपासिंधोः स्थिता तु वै

॥१८॥

कस्मिन्स्थले मुनिश्रेष्ठ दर्शनाद्या विमुक्तिदा ॥

तन्मे दर्शय विप्रेंद्र यन्मे मुक्तिप्रदं मतम्

॥१९॥

इत्युक्तो नारदस्तस्मै दर्शयामास पावनम् ॥

स्थानं यत्र स्थितो देवः स्वर्णसैकत संवृतः

॥२०॥

पश्यैतं योजनायामं योजनद्वयमुच्छ्रितम् ॥

कल्पांतस्थायिनं भूप न्यग्रोधं मुक्तिदं नृणाम्

॥२१॥

छायायाः क्रमणाद्यस्य मुच्यते पापकंचुकात् ॥

अस्य मूले नरः प्राणांस्त्यजन्मुक्तिमवाप्नुयात्

॥२२॥

न्यग्रोधरूपं दृष्ट्वापि नारायणमकल्मषम् ॥

निष्पापो जायते मर्त्यः किमुत पूजयन्स्तुवन्

॥२३॥

अस्य मूलात्प्रतीच्यां हि नृसिंहस्योत्तरे नृप ॥

अतिष्ठन्माधवो यत्र चतुर्मूर्तिधरो विभुः

॥२४॥

अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ॥

श्वेतद्वीपे यथा विष्णुर्भोगभूमौ निजालयः

॥२५॥

जंबूद्वीपे कर्मभूमौ निजं स्थानमिदं स्मृतम् ॥

स्वस्यैवातिरहस्यत्वान्न प्रकाशोस्य संमतः

॥२६॥

मोक्षाधिकारी जानाति स्थलमेतन्महीपते ॥

अविश्वासपदं नृणां दुष्कृतां हि विशेषतः

॥२७॥

अत्र याऽन्या प्रतिकृतिः पौरैर्विष्णोः प्रतिष्ठिता ॥

सापि मुक्तिप्रदा भूप किं पुनः सा स्वयंभुवा

॥२८॥

अंतर्द्धानतिरोधाने सुनिमित्ते जगत्प्रभोः ॥

अनुग्रहार्थं साधूनां जायते च युगेयुगे

॥२९॥

नानावतारैर्भगवान्मत्स्यकूर्मादिकैर्नृप ॥

निमित्तनाशे च तिरोदधाति परमेश्वरः

॥३०॥

निर्निमित्तं स्थितो नित्यमिह कारुण्यसागरः ॥

श्वेतद्वीपाद्यथा विष्णुरन्यत्रावतरेत्प्रभुः

॥३१॥

अत्र स्थितोऽपि स द्वारकाकांचीपुष्करादिषु ॥

प्रकाशं याति कृपया तरुमूलप्ररोहवत्

॥३२॥

नानातीर्थेषु देशेषु क्षेत्रेष्वायतनेषु च ॥

अंशावतारास्तस्यैव मा भूत्ते संशयो नृप

॥३३॥

क्षणं न त्यजतीशानः क्षेत्रं क्षेत्रमिव स्वकम् ॥

त्वदुपज्ञस्तु भूपाल प्रकाशोऽन्यो भविष्यति

॥३४॥

इति संदर्शितं स्थानं नारदेन महात्मना ॥

साष्टांगपातं भूमौ तदिंद्रद्युम्नो ननाम ह

॥३५॥

मन्वानस्तु स्थितं देवं प्रकाशमिव तुष्टुवे

॥३६॥

इंद्रद्युम्न उवाच

देवदेव जगन्नाथ प्रणतार्तिविनाशन ॥

त्राहि मां पुंडरीकाक्ष पतितं भवसागरे

॥३७॥

त्वमेक एव दुःखौघध्वंसकः परमेश्वर ॥

क्षुद्राः क्षुद्रान्हि सेवंते सुखलेशस्य लिप्सया

॥३८॥

अनादित्रिविधौघस्य राशेः स्वस्य महांहसः ॥

दुरुच्छेद्यस्य सततं पूर्यमाणस्य जन्मनः

॥३९॥

किं पुनर्भक्तिभावेन साक्षान्मुक्तिप्रदं नृणाम् ॥

कर्माधीनं तु ये मूढा वदंति त्वां क्रृपानिधिम्

॥४०॥

ते न जानंति भगवन्कर्मैवं प्रेरितं त्वया ॥

अजामिलेन विप्रेण त्यक्त्वा वर्णाश्रमोदितम्

॥४१॥

किं न पापं कृतं स्वामिन्सोऽपि त्वन्नामकीर्तनात् ॥

मुक्तोऽभूत्स्मरणादेव पाशहस्तैर्विमोचितः

॥४२॥

सर्वेऽप्युपाया देवेश कीर्तितास्तव दर्शने ॥

त्वयि दृष्टे हि भिद्यंते संशया हृदि संस्थिताः

॥४३॥

निःसंशयो भवेत्सद्यः पापपुण्यक्षयो धुवम् ॥

त्वमेव शरणं दीनमनुगृह्णीष्व मां विभो

॥४४॥

निश्चितानि त्वया देव गर्भस्थस्य च यानि मे ॥

तैरेव मे जनिर्जातु याचे त्वां केवलं त्विदम्

॥४५॥

तिरश्चो मुक्तिदा मूर्तिः स्थिता ते याऽत्र तां पुनः ॥

अनेन चक्षुषा पश्यामीश नान्यत्प्रयोजनम्

॥४६॥

कृतांजलिपुटो राजा स्तुत्वैवं मधुसूदनम् ॥

पुनर्ननाम धरणीपृष्ठे साश्रुविलोचनः

॥४७॥

ततोंऽतरिक्षगा वाणी सामसुस्वरभाषिणी ॥

उच्चचार नभोमध्ये इन्द्रद्युम्नस्य शृण्वतः

॥४८॥

मा चिंतां व्रज भूपाल व्रजिष्ये त्वदृशोः पथम् ॥

पैतामहं वचः प्राह नारदो यत्कुरुष्व तत्

॥४९॥

तच्छ्रुत्वा दिव्यवचनं नारदस्य च भाषितम् ॥

श्रद्दधे वाजिमेधाय भगवत्प्रीतिकारकः

॥५०॥

नारदं च पुनः प्राह हर्षगद्गदया गिरा ॥

मुने त्वया यदादिष्टं चतुर्मुखनिदेशतः

॥५१॥

अशरीरा त्वियं वाणी अनुजज्ञे तदेव हि ॥

पितामहो जगन्नाथो भेदो वै नाऽनयोः क्वचित्

॥५२॥

पद्मयोनेः सुतस्त्वं हि वचस्ते भगवद्वचः ॥

तत्कर्तव्यं प्रयत्नेन यच्छ्रेयउपपादकम्

॥५३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पंचदशोऽध्यायः ॥ १५ ॥