मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय १६

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 16

नृपं सुमनसं दृष्ट्वा श्रद्दधानं महाक्रतौ

जैमिनिरुवाच

नृपं सुमनसं दृष्ट्वा श्रद्दधानं महाक्रतौ ॥

उवाच परमप्रीत्या नारदो लोकहर्षणः

॥१॥

व्यवसाये सुकृतिनां देवा यांति सहायताम् ॥

तत्रोदाहरणं त्वं हि यत्सहायश्चतुर्मुखः

॥२॥

तदेहि यामस्तत्रैव नीलकंठस्य सन्निधौ ॥

सर्वराक्षससंहारं सर्वविघ्ननिवारणम्

॥३॥

स्थापयाम्यग्रतो राजन्नृसिंहं वारुणीमुखम् ॥

अंतर्हितो हि भगवान्प्रत्यक्षोऽसौ नृकेसरी

॥४॥

सन्निधावस्य यागस्तु फलातिशयवान्भवेत् ॥

त्वमग्रतो गच्छ शीघ्रं प्रासादं तत्र कारय

॥५॥

स्मरणान्मम चागत्य सुतो वै विश्वकर्मणः ॥

प्रत्यङ्मुखं तु प्रासादं स तूर्णं घटयिष्यति

॥६॥

दक्षिणे नीलकंठस्य यो महांश्चंदनद्रुमः ॥

धनुःशतांतरे राजंश्चिररूढस्तु तिष्ठति

॥७॥

तस्य पश्चिमदेशस्थं क्षेत्रं राजन्भविष्यति ॥

वाजिमेधसहस्रेण तस्याग्रे यजतां भवान्

॥८॥

गच्छ त्वमहमत्रैव स्थास्यामि दिनपञ्चकम् ॥

आराध्यैनं दिव्यसिंहं ज्योतीरूपमनन्तकम्

॥९॥

प्रत्यर्चायां प्रतिष्ठाप्य प्राणेंद्रियमनोयुतम् ॥

दीपाद्दीपं यथा राजन्नयिष्ये शोभनाकृतिम्

॥१०॥

नारदस्येति वचनं प्रतिश्रुत्य नृपोत्तमः ॥

जगाम तत्र वेगेन चन्दनद्रुमसंनिधिम्

॥११॥

तत्रापश्यत्सुघटकं शिल्पशास्त्रविशारदम् ॥

नारदस्याज्ञया प्राप्तं पुत्रं वै देवशिल्पिनः

॥१२॥

मनुष्यरूपमास्थाय शस्त्रसूत्रधरं स्थितम् ॥

राजानं स तु दृष्ट्वा वै चिकीर्षंतं सुरालयम्

॥१३॥

कृतांजलिपुटः प्रोचे देवाहं शिल्पशास्त्रवित् ॥

नरसिंहालयं तेऽद्य घटयिष्यामि शोभनम् ॥

राजापि तमुवाचेदं प्रहसन्भो द्विजोत्तमाः

॥१४॥

इन्द्रद्युम्न उवाच

न शिल्पी त्वं हि सामान्यः शिल्पशास्त्रप्रणेतृकः ॥

कथितो नारदेनैव त्वष्टुः पुत्रो महायशाः

॥१५॥

निर्जनेऽस्मिन्महारण्ये नेतः पूर्वं जनाश्रयः ॥

वयमद्यागताः शिल्पिन्सम्बन्धः किंनिमित्तकः

॥१६॥

देवशिल्पी भवानेव विष्णोरमिततेजसः ॥

सदानुध्यायिनस्तस्य निदेशवशवर्तिनः

॥१७॥

येन स्मृतस्त्वं मुनिना स एवात्रागमिष्यति ॥

प्रत्यर्चां नरसिंहस्य गृहीत्वा तु दिनांतरे

॥१८॥

तदाशु घटयस्वाद्य सप्राकारं सतोरणम् ॥

प्रासादं नरसिंहस्य प्रतीचीवदनं शुभम्

॥१९॥

तं पूजयित्वा विधिवन्नियोज्य घटने नृपः ॥

शिलासंचयकान्भृत्यान्बहुवित्तैरयोजयत्

॥२०॥

चतुर्थे दिवसे विप्राः प्रासादोऽभूदनुत्तमः ॥

बहुकालप्रसाध्योऽपि महिम्ना देवशिल्पिनः

॥२१॥

ततः प्रभाते विमले नित्यकर्मावसानतः ॥

प्रतिष्ठाविधिसंभारं गृहीत्वा सपरिच्छदः

॥२२॥

नारदागमनं प्रेक्ष्य यावत्तिष्ठति भूपतिः ॥

तावच्छुश्रुविरे शङ्खा मृदङ्गा मुरजास्तथा

॥२३॥

गीतमङ्गलवाद्यानि घंटानां करिणां स्वनाः ॥

तथा जय जयेत्युच्चैः शब्दा आकाशमण्डले

॥२४॥

ताञ्छ्रुत्वा विस्मयापन्ना इंद्रद्युम्नपुरोगमाः ॥

राजानः श्रोत्रिया विप्रा वैष्णवाश्च सहस्रशः

॥२५॥

निराधारास्त्विमे शब्दा अद्भुतानि न संशयः ॥

विचारयंतस्ते यावत्तावद्दक्षिणतो मरुत्

॥२६॥

गन्धान्वितद्विरेफौघशब्दिताः पुष्पवृष्टयः ॥

आविर्भूतास्त्रिपथगा वारिणार्द्रीकृता द्विजाः

॥२७॥

तदनंतरमेवासौ नारदो ब्रह्मणः सुतः ॥

तपःप्रभावनिर्व्यूढ विमानवरशायिनीम्

॥२८॥

रत्नचामरहस्ताभिर्दिव्यस्त्रीभिः सुशोभिताम् ॥

अलंकृतां वहुविधैर्मणिरत्नप्रसाधनैः

॥२९॥

दिव्यमाल्यांबरधरां दिव्यगन्धानुलेपनाम् ॥

रम्यां प्रतिष्ठितप्राणां घटितां विश्वकर्मणा

॥३०॥

तेजोमण्डलसंवीतां परितो हर्षदामपि ॥

आदाय नरसिंहस्य प्रत्यर्चां प्रत्युपस्थितः

॥३१॥

तां दृष्ट्वा हर्षिताः सर्वे राजा राजानुयायिनः ॥

अन्तर्द्धानं गतो देवो नारदेनोद्धृतः किमु

॥३२॥

मेनिरे हर्षितात्मानः प्रशशंसुश्च तं मुनिम् ॥

निरूप्य संनिधिस्थां तु नरसिंहाकृतिं द्विजाः ॥

आद्यमूर्तेर्नृसिंहस्य प्रतिमामथ मेनिरे

॥३३॥

प्रत्युत्थाय ततो राजा प्रहृष्टेनांतरात्मना ॥

प्रदक्षिणीकृत्य हरिं जगाम शिरसा महीम्

॥३४॥

श्रद्धासंपत्तियोग्येन संभारेण नृपाज्ञया ॥

प्रस्थापयामास मुनिः प्रासादं शुभलक्षणम्

॥३५॥

प्रतिमां देवदेवस्य सुमुहूर्ते द्विजोत्तमाः ॥

धरारमाभ्यां सहितां रत्नवेद्यां प्रतिष्ठिताम् ॥

योगारूढतनुं राजा इन्द्रद्युम्नोऽथ तुष्टुवे

॥३६॥

वैष्णवैर्ब्राह्मणैर्भूपैर्नारदेन च धीमता ॥

गुह्योपनिषदैः स्मार्तैः स्तोत्रैः शास्त्रैर्मुदान्वितैः

॥३७॥

इन्द्रद्युम्न उवाच

एकानेकस्थूलसूक्ष्माणुमूर्ते व्योमातीत व्योमरूपैकरूप ॥

व्योमाकार व्यापक व्योमसंस्थ व्योमारूढ व्योमकेशाब्जयोने

॥३८॥

दुःखांभोधेस्त्राहि मां दिव्यसिंह प्रादुर्भूतानेककोट्यर्कधामन् ॥

नित्यासन्नो दूरसंस्थो न दूरो नासन्नो वा बोध्यबोधात्मभाव

॥३९॥

ज्ञेयज्ञेयो ज्ञानगम्योऽप्यगम्यो मायातीतो मानमेयोऽनुमानात् ॥

कृत्स्नस्यादिः कृत्स्नकर्त्तानुमंता पाता हर्त्ता विश्वसाक्षिन्नमस्ते

॥४०॥

दुःखध्वंसस्यैकहेतुं न हेतुं भेत्तुं छेत्तुं संशयानग्रजातम् ॥

ज्योतीरूप ज्ञानरूप प्रकाश स्तोमव्यूहाकार निर्माणहेतो

॥४१॥

त्वत्पादब्जे भक्तिमग्र्यां सदा मे देहि स्वामिन्मूलभूतां चतुर्णाम् ॥

श्रौतैः स्मार्तैर्नित्ययुक्ता जनास्ते दीनास्तिष्ठन्त्यत्र बद्धा भवाब्धौ

॥४२॥

अनन्तपादं बहुहस्तनेत्रमनंतकर्णं ककुभौघवस्त्रम् ॥

दिवानिशानाथसुकुण्डलाढ्यं नक्षत्रमाला कृतचारुहारम्

॥४३॥

त्वामद्भुतं दिव्यनृसिंहमूर्तिं भक्तेष्टपूर्तिं शरणं प्रपद्ये ॥

यत्पादपद्म हि पितामहस्य किरीटरत्नैर्विकचत्वमेति

॥४४॥

यदीयपादाब्जयुगांतभूमौ लुठेच्छिरो यस्य हि पांचभौतम् ॥

तद्दिव्यपादं शिरसा वहंति सुरेन्द्रनार्यः खलु तं नमामि

॥४५॥

तद्दिव्यसिंहं हतपापसंघं पादाश्रितानां करुणाब्धिसिंहम् ॥

पादाऽब्जसंघट्टविघट्टमानब्रह्मांडभांडं प्रणमामि चण्डम्

॥४६॥

सटाच्छटाकंपनशीर्यमाणघनौघविद्रावितपापसंघम् ॥

चंडाट्टहासांतरिताब्दशब्दं त्रिलोकगर्भं नृहरिं नमामि

॥४७॥

नमस्ते नमस्ते नमस्तेऽद्य विष्णो परित्राहि दीनानुकंपिन्ननाथम् ॥

भवंतं समासाद्य मे देहबन्धो मुरारे न संसारकारागृहेऽस्तु

॥४८॥

हयमेधसहस्रांते यथा त्वां चर्मचक्षुषा ॥

दिव्यरूपं प्रपश्यामि तथानुक्रोशय प्रभो

॥४९॥

यथा चेज्यासहस्रं मे निर्विघ्नं तत्समाप्यते ॥

यज्ञेश त्वत्प्रसादान्मे तथा सान्निध्यमस्तु ते

॥५०॥

कोटयः पापराशीनां क्षयं यांति यथा प्रभो ॥

धर्मार्थकामा हस्तस्था नैषां चित्रं स्तुवंति ये ॥

मोक्षस्य भाजनं विष्णो ते नरा ये तवाश्रयाः

॥५१॥

स्तुत्वेत्थं दिव्य सिंहं तं भूपतिर्हष्टमानसः ॥

दण्डपातप्रणामेन जगाम धरणीं मुहुः

॥५२॥

जैमिनिरुवाच

क्षेत्रं तन्नरसिंहस्य ब्रह्मणा निर्मितं पुरा ॥

इन्द्रद्युम्नानुग्रहाय सर्वलोकहिताय च

॥५३॥

पश्यंति ये नृसिंहं तं शंभुना सह संस्थितम् ॥

न देहबन्धं ते विप्राः प्राप्नुवंति न संशयः

॥५४॥

मनसा वांछितं यद्यत्प्राप्नुवंति ततोऽधिकम् ॥

स्तोत्रेणानेन ये दिव्यसिंहरूपं स्तुवंति वै

॥५५॥

सर्वकामप्रदो देवस्तस्य मुक्तिं प्रयच्छति ॥

ज्येष्ठशुक्लद्वादशी या स्वातीनक्षत्रसंयुता

॥५६॥

तस्यां प्रतिष्ठितः क्षेत्रे दिव्यसिंहो महर्षिणा ॥

सुतेन ब्रह्मणः साक्षात्तत्र पश्यंति तं च ये

॥५७॥

वाजिमेधसहस्रस्य फलं साग्रं लभंति ते ॥

पञ्चामृतैर्वा क्षीरेण नारिकेलरसेन वा

॥५८॥

स्नापयंति नरा ये वै अथवा गन्धवारिणा ॥

पूजयित्वा महासिंहमुपचारैः सपायसैः

॥५९॥

जपाकुसुममाल्यैश्च गन्धमाल्यैः सुशोभनैः ॥

धूपदीपैः सकर्पूरैस्तांबूलैरतिशोभनैः

॥६०॥

सुगीर्भिः स्तुतिपाठैश्च जयशब्दैस्तथोच्चकै ॥

प्रदक्षिणप्रणामैश्च दानैर्ब्राह्मणतर्पणैः ॥

सन्तोष्य नरसिंहं तं ब्रह्मलोकमवाप्नुयात्

॥६१॥

वैशाखस्य चतुर्दश्यां सौरिवारेऽनिलर्क्षके ॥

आद्यावतारः सिंहस्य प्रदोषसमये द्विजाः

॥६२॥

तस्यां संपूज्य विधिवन्नरसिंहं समाहितः ॥

जन्मकोटिसहस्रैस्तु पापराशिः सुसंचितः ॥

दह्यते तत्क्षणादेव तूलराशिरिवाग्निना

॥६३॥

दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा प्रणिपत्य च भक्तितः ॥

स्तुत्वा विमुच्यते पापैर्निर्मोकेन भुजंगवत्

॥६४॥

न तस्य व्याधयः संति न शोका नाधयस्तथा ॥

सर्वान्कामानवाप्नोति हयमेधफलं तथा

॥६५॥

समीपे तस्य भो विप्रा यजनं दानमेव च ॥

अन्यानि पुण्यकर्माणि कृतानि च सकृन्नरैः ॥

कोटिकोटिगुणानि स्युर्नरसिंहप्रसादतः

॥६६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षोडशोऽध्यायः ॥ १६ ॥