ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका
जैमिनिरुवाच
ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका ॥
तस्यां त्रैलोक्यमभवदेकसद्मनिभं द्विजाः
॥१॥शास्त्रैः स्तोत्रैर्दिवस्पृग्भिर्वर्णक्रमसमुज्ज्वलैः ॥
यथापदस्वरन्यासैरन्ये शब्दास्तिरोहिताः
॥२॥दीनेभ्योऽवारितं तत्र दीयन्ते वाञ्छितानि वै ॥
नटनर्त्तकसूतानां साभूत्कल्पद्रुमोपमा
॥३॥तन्मध्येऽवभृथे स्नातुं कृता यत्रोपकारिका ॥
दक्षिणे तटभूदेशे बिल्वेश्वरसमीपतः
॥४॥नियुक्ताः सेवका राज्ञा ससंभ्रममुपस्थिताः ॥
न्यवेदयन्त नृपतिं कृतांजलिपुटा द्विजाः
॥५॥देव दृष्टो महान्वृक्षस्तटभूमौ महोदधेः ॥
प्रविष्टाग्रसमुद्रांतः कल्लोलप्लवमूलकः
॥६॥मंजिष्ठवर्णः सर्वत्र शंखचक्रांकितः प्लवन् ॥
स्नानवेश्मसमीपेऽसौ दृष्टोऽस्माभिः परोऽद्भुतः
॥७॥न दृष्टपूर्वो वृक्षोऽयमुद्यत्सूर्यनिभोंऽशुना ॥
गंधेन वासयन्सर्वा तटभूमिं सुगंधिना
॥८॥द्रुमः साधारणो नायं लक्ष्यते देवभूरुहः ॥
कश्चिद्देवस्तरुव्याजादागतो लक्ष्यते धुवम्
॥९॥नियुक्तानां वचः श्रुत्वा राजा नारदमब्रवीत् ॥
तत्किं निमित्तं यद्दृष्टं तरुश्रेष्ठं वदंति ते
॥१०॥नारदः प्रहसन्वाक्यमुवाच नृपसत्तमम् ॥
पूर्णाहुतिः समाप्नोतु यथा स्यात्सफलः क्रतुः
॥११॥उपस्थितं ते तद्भाग्यं स्वप्ने यद्दृष्टवान्पुरा ॥
श्वेतद्वीपे विश्वमूर्तिर्दृष्टो यो विष्णुरव्ययः
॥१२॥तदंगस्खलितं रोम तरुत्वमुपपद्यते ॥
अंशावतारः स्थास्नुर्यः पृथिव्यां परमेष्ठिनः
॥१३॥तद्रूपावतरं याति भगवान्भक्तवत्सलः ॥
द्रुमो ह्यपौरुषो योसौ भाजनं नास्य दर्शने
॥१४॥त्वामृते पुरुषव्याघ्र पृथिव्यां नृपसत्तम ॥
त्वद्भाग्यवशतः सर्वलोकानां नयनातिथिः
॥१५॥भविष्यति महाराज सर्वकल्मषनाशनः ॥
समाप्यावभृथस्नानं तटांते सरितां पतेः
॥१६॥उत्सवं सुमहत्कृत्वा कृतकौतुकमंगलम् ॥
महावेद्यां स्थापयात्र यज्ञेशं तरुरूपिणम्
॥१७॥विचार्येत्थं मुदा युक्तौ तावुभौ नृपनारदौ ॥
सुसमृद्धौ तत्र यातौ यत्रासौ भगवद्द्रुमः
॥१८॥तं दृष्ट्वा हर्षिताः सर्वे ब्रह्म साक्षादुपस्थितम् ॥
मेनिरे जन्मसाफल्यं जीवन्मुक्ता महोदयाः
॥१९॥इन्द्रद्युम्नोऽपि नृपतिर्ममज्जामृतसागरे ॥
स्वप्ने दृष्ट्वा जगन्नाथं यथासौ भगवत्प्रियः
॥२०॥तथा ददर्श तं वृक्षं चक्षुःशाखं चतुर्भुजम् ॥
स्वकं श्रमं मन्यमानः सफलं नृपसत्तमः
॥२१॥जहौ शोकं नीलमणिमाधवांतर्धिजं द्विजाः ॥
पुनः पुनः प्रणम्यैनं हर्षाश्रुनयनो नृपः
॥२२॥द्विजैराहारयामास तरुं कल्लोललोलितम् ॥
शंखकाहालमुरजढक्कापटहनिःस्वनैः
॥२३॥गीतवादित्रनिनदैर्जयशब्दैः सहस्रशः ॥
सुगंधिपुष्पांजलिभिराकाशात्पतितैर्मुहुः
॥२४॥परितो धूपपात्रैश्च कृष्णागुरुसुधूपितैः ॥
वेश्याभिर्यौवनोन्मत्तसुरूपाभिः प्रचालितैः
॥२५॥रत्नदण्डप्रकीर्णैश्च वीज्यमानं समंततः ॥
पताकाभिर्दिव्यपट्टदुकूलाभिः सुशोभितम्
॥२६॥राजर्षिराजवृन्दैश्च तुरगैः पत्तिभिर्वृतम् ॥
मागधैर्वंद्यमानं तु स्तूयमानं महर्षिभिः
॥२७॥ऋत्विग्भिर्ब्राह्मणैश्चैव विद्वद्भिः श्रोत्रियैस्तथा ॥
राजन्यैर्वैश्यकुलजैः सच्छूद्रैः परिचारितम्
॥२८॥स्तोत्रैर्बहुविधैः श्रौतैः स्मार्तैः पौराणिकैस्तथा ॥
स्तूयमानं तरुं विष्णोर्भूर्लोके परिवेष्टितम्
॥२९॥स्रग्गन्धालंकृतं दिव्यं महावेदीं विनिन्यतुः ॥
वितानवरचित्रायां वेष्टितायां निरंतरम्
॥३०॥वेद्यां तं स्थापयामासुरिंद्रद्युम्नस्य शासनात् ॥
वचसा नारदस्यैनं पूजयामास पार्थिवः
॥३१॥सहस्रैरुपचाराणां दिव्यरूपैर्नृपोत्तमः ॥
पूजावसाने पप्रच्छ नारदं मुनिसत्तमम्
॥३२॥कीदृश्यः प्रतिमा विष्णोर्घटयिष्यति कः पुनः ॥
तच्छ्रुत्वा तं मुनिः प्राह अचिंत्यमहिमा गुरुः
॥३३॥को वेद तस्य चेष्टां वै सर्वलोकोत्तरां नृप ॥
स्रष्टा यो जगतां तस्याप्येषा संशयगोचरा
॥३४॥विचारयंतौ तावित्थं यावन्नारदपार्थिवौ ॥
अशरीरा ततो वाणी शुश्रुवे चांतरिक्षतः
॥३५॥तत्र विस्मयमानानां सर्वेषामेव शृण्वताम् ॥
अपौरुषेयो भगवानविचारपथे स्थितः
॥३६॥सुगुप्तायां महावेद्यां स्वयं सोऽवतरिष्यति ॥
प्रच्छाद्यतां दिनान्येषा यावत्पंचदशानि वै
॥३७॥उपस्थितोऽयं यो वृद्धः शस्त्रपाणिस्तु वर्द्धकिः ॥
एनमंतः प्रवेश्यैव द्वारं बध्नंतु यत्नतः
॥३८॥बहिर्वाद्यानि कुर्वंतु यावत्तु घटना भवेत् ॥
श्रुतो हि घटनाशब्दो बाधिर्यांधत्वदायकः
॥३९॥नरके वसतिं चैव कुर्यात्संताननाशनम् ॥
नांतःप्रवेशनं कुर्यान्न पश्येच्च कदाचन
॥४०॥नियुक्तादन्यः पश्येच्चेद्राज्ञो राष्ट्रस्य चैव ह ॥
द्रष्टुश्चापि महाभीतिरंधता चक्षुषोर्युगे
॥४१॥तस्मान्नावेक्षणं कार्यं यावत्प्रतिमनिर्मितिः ॥
निर्व्यूढस्तु स्वयं दैवः कृत्यांते तु वदिष्यति
॥४२॥यत्कार्यं प्रयत्नेन सर्वलोकसुखावहम् ॥
तच्छ्रुत्वा नारदाद्यास्ते यथोक्तं विष्णुना स्वयम्
॥४३॥चिकीर्षंति तथा कर्त्तुं तत्रायातश्च वर्द्धकिः ॥
प्रोवाच नृपतिं सोऽथ स्वप्ने दृष्टास्तु यास्त्वया
॥४४॥ता एवाहं घटिष्यामि दारुणा दिव्यरूपिणा ॥
इत्युक्त्वांतर्दधे वेद्यां वृद्धवर्द्धकिरूपधृक्
॥४५॥वंचनार्थं मनुष्याणां साक्षान्नारायणो विभुः
॥४६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टादशोऽध्यायः ॥ १८ ॥