मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २३

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 23

दौवारिकाय राजर्षिरिंद्रद्युम्नो महायशाः

नारद उवाच

दौवारिकाय राजर्षिरिंद्रद्युम्नो महायशाः ॥

सार्वभौमो वैष्णवाग्र्यो धातारं द्रष्टुमागतः

॥१॥

यात्वयं पुरतस्तस्य यदि त्वमनुमन्यसे ॥

इत्युक्तस्तं पुनः प्राह नारदं मणिकोदरः

॥२॥

स्वामिंस्त्वयागतो योऽसौ न सामान्यो हि बुध्यते ॥

यत्र पश्यसि दिक्पालान्पितॄन्मन्वंतराधिपान्

॥३॥

तत्रायं मर्त्त्यनिलयस्तिष्ठेदपि हि पौरुषम् ॥

भवान्गत्वा पद्मयोनिं विज्ञाप्यैनं प्रवेशय

॥४॥

सभाद्वारगतो योऽसौ दिक्पालैः सह यास्यति ॥

एकाग्रचित्तो भगवान्गायने चतुराननः

॥५॥

अस्माकं द्वारि युक्तानां प्रतीक्ष्योऽवसरो ध्रुवम् ॥

न क्रोधो मयि कर्त्तव्यो दासे तव पितुश्च ते

॥६॥

इत्युक्तो नारदो गत्वा ब्रह्माणं जगतां पतिम् ॥

नत्वा साष्टांगपतनं विज्ञप्तो वसुधाधिपः

॥७॥

कटाक्षेणादिशत्सोऽथ इन्द्रद्युम्नप्रवेशनम् ॥

नोवाच किंचिद्भगवान्गाने दत्तावधानतः

॥८॥

दिव्यगायनसंगीते कौतुकाविष्टमानसः ॥

ज्ञात्वेंगितं नारदोऽथ इंद्रद्युम्नं नृपोत्तमम् ॥

प्रवेशयामास ततः शक्राद्यैः सुनिरीक्षितः

॥९॥

दृष्ट्वा पितामहं दूरात्स्रष्टारं जगतां नृपः ॥

अमन्यत द्विजश्रेष्ठाः साक्षाद्दारुमयं हरिम्

॥१०॥

शनैः शनैर्ययौ भूपः प्रणमंश्च कृतांजलिः ॥

स्तुवन्नमन्प्रणिपतन्साध्वसस्खलितं व्रजन् ॥

किंचिद्दूरे स्थितो भूपो नारदस्य निदेशतः

॥११॥

ततः पुण्यं गीयमानं चरितं सिंधुजापतेः ॥

शृण्वंश्चतुर्मुखस्तस्थौ मुहू्र्त्तं द्विजपुंगवाः

॥१२॥

सावित्रीशारदाभ्यां च वीज्यमानस्तु पार्श्वयोः ॥

शुद्धदेहधरैर्वेदैः स्तूयमानः स्वयंभुवः

॥१३॥

कलाकाष्ठानिमेषादि कल्पयन्युगपर्ययम् ॥

न जराजन्ममरणं रूपादिपरिणामनम्

॥१४॥

यस्य लोकगतानां वै नाधयो व्याधयस्तथा ॥

मन्वतरादयो यत्र युगावर्त्तादयस्तथा

॥१५॥

कल्पांताद्या न विद्यंते स साक्षात्परमेश्वरः ॥

गीतावसाने तं भूपमुवाच प्रहसन्निव

॥१६॥

इंद्रद्युम्न महासत्त्व साक्षात्त्वं भगवत्प्रियः ॥

अन्यस्य दुर्लभो लोकः सत्याख्यो विदितस्तव

॥१७॥

अत्रागतिं हि वांछंतो मुनयः क्षीणकल्मषाः ॥

तपोनिष्ठाश्च तिष्ठंति यावदाभूतसंप्लवम्

॥१८॥

चतुर्दशसु लोकेषु सृष्टानां प्राणिनां हि यत् ॥

चैतन्यादिविचित्राणि सर्वेषामाश्रयो ह्यसौ

॥१९॥

जानन्नपि हि तत्कार्यं मानयन्नृपसत्तमम् ॥

उवाच परमप्रीत इंद्रद्युम्नं पितामहः

॥२०॥

किमर्थमागतोस्यत्र तद्ब्रूहि हृदयस्थितम् ॥

मयि दृष्टे न दुष्प्रापममृतं किन्नु वांछितम्

॥२१॥

इन्द्रद्युम्न उवाच

अंतर्यामिन्हि भगवंस्त्वदज्ञातं कुतो भवेत् ॥

तथापि प्रश्नो यो नाथ मय्यनुक्रोश एव सः

॥२२॥

मूर्ध्न्याधाय तवानुज्ञां कथितं तव सूनुना ॥

इष्टाः सहस्रं क्रतवस्तदंते दारुदेहभृत्

॥२३॥

आविर्बभूव भगवान्भूतभव्यभवत्प्रभुः ॥

त्वदनुग्रहसंपत्तिवशादेवावलोकयन्

॥२४॥

तादृशं पुंडरीकाक्षं येन त्वल्लोकमागतः ॥

यस्यारब्धो मया देव प्रासादस्तत्र चेत्स्वयम्

॥२५॥

गत्वा देवं जगन्नाथं स्थापयिष्यसि चेत्प्रभो ॥

त्वदनुग्रहस्तु सफलो भवेन्मे लोकभावन

॥२६॥

एतदर्थं जगत्स्वामिन्नारदेन सहाधुना ॥

त्वत्पादपद्मयुगलं द्रष्टुं त्वल्लोकमागतः

॥२७॥

प्रसीद मां कुरुष्वेदं जगन्नाथस्त्वमेव हि ॥

त्वमेव स जगन्नाथो न भेदो युवयोर्विभो

॥२८॥

स्थाप्यः स्थापयिता चासि वेद्यो वेदयिता भवान्

॥२९॥

जैमिनिरुवाच

एवं विज्ञापनांते तु दुर्वासा स महामुनिः ॥

प्रणम्य साष्टांगपातं कृतांजलिरुपस्थितः ॥

प्रोवाच विनयान्नीचो धातारं जगतां गुरुम्

॥३०॥

विभो द्वारप्रवेशेऽत्र दौवारिकनिवारिताः ॥

लोकपालाः सपितरस्तथा मन्वंतराधिपाः

॥३१॥

तिष्ठंति दीनजनवत्सुचिराल्लोकभावन ॥

तदाज्ञापय पश्यंतु तव पादसरोरुहम्

॥३२॥

तच्छ्रुत्वा देवदेवस्तु तदा दुर्वाससो वचः ॥

प्रहस्य वचनं प्राह नैषां प्रस्ताव एव हि

॥३३॥

इंद्रद्युम्नेन स्पर्द्धंते किं तु मोहवशानुगाः ॥

जीवन्मुक्तोऽयं नृपतिः क्षीणकर्माघसंहतिः

॥३४॥

मत्संततेः पंचमोऽयं वैष्णवो विष्णुतत्परः ॥

एते हि सुखभोगाय कर्मणा प्राप्तपौरुषाः

॥३५॥

अत्रागतिं प्रार्थयंतस्तपस्तप्त्वा हि देवताः ॥

ममानुग्रहत एते आयाता मदुपासने

॥३६॥

तथापि त्वदनुज्ञाता आयांतु मम दर्शने ॥

ततः प्रविष्टास्ते देवा दुर्वासोवचनेन वै

॥३७॥

दूरात्प्रणेमुर्ब्रह्माणं गायनानां समीपतः ॥

इंद्रद्युम्नं नरपतिं संलपंतं कृतांजलिम्

॥३८॥

ताँल्लोकपालान्प्रणतान्कटाक्षेण जगत्प्रभुः ॥

अनुजग्राह कथयन्निंद्रद्युम्नं ससादरम्

॥३९॥

राजन्कृतस्त्वया सत्यं प्रासादो भगवत्स्थितौ ॥

नायं कालस्तथा राज्यं न वा त्वत्संततिर्नृप

॥४०॥

गीतगानावसरतो भूयान्कालो गतस्तव ॥

मन्वंतरो हि दिव्यानां युगानामेकसप्ततिः

॥४१॥

तव वंशोऽपि विच्छिन्नः कोटिशः क्षितिपा गताः ॥

देवोंऽतिमश्च प्रासादो द्वयमत्रावशिष्यते

॥४२॥

द्वितीयस्य मनोरादियुगं स्वारोचिषस्य तु ॥

ममांतिकेऽत्र वसतोमृत्युर्वा न जरा तथा

॥४३॥

विपर्ययमृतूनां वा न कालपरिणामता ॥

तद्गच्छ भूमौ राजेंद्र देवं प्रासादमेव च

॥४४॥

आत्मसंबंधिनं कृत्वा पुनरायाहि वेगवान् ॥

अथवाहं प्रयास्यामि तवानुपदमेव हि

॥४५॥

त्वमग्रतो धरां गत्वा यावत्संभारमृद्धिमत् ॥

करिष्यसि महाभाग तावदेव व्रजाम्यहम्

॥४६॥

इत्याज्ञाप्येंद्रद्युम्नं तं भगवान्स पितामहः ॥

देवान्पुरःस्थितानाह विनयानतकंधरान्

॥४७॥

बद्धांजलीन्साध्वसांस्तांस्तत्पादन्यस्तवीक्षणान् ॥

उवाच भगवान्स्निग्धगंभीरवचसा द्विजाः

॥४८॥

किमर्थमागताः सर्वे युगपत्तु दिवौकसः ॥

यत्कार्यं वो मया कार्यं विज्ञापयत मा चिरम्

॥४९॥

जैमिनिरुवाच

इति श्रुत्वा वचो धातुस्त्रिदशा विगतज्वराः ॥

प्रत्यूचुर्हर्षिताः सर्वे भगवंतं पितामहम्

॥५०॥

देवा ऊचुः

उपासितः पुरास्माभिर्यो नीलाद्रौ मणीमयः ॥

अन्तर्हितः कथं देव इदानीं दारुदेहधृक्

॥५१॥

आविर्भूतः क्रतोरंत इन्द्रद्युम्नस्य भूपतेः ॥

एतस्य कारणं ज्ञातुं भवतः पादपंकजम्

॥५२॥

आराधितुमिहायाताः प्रसीद कथयस्व तत् ॥

इत्युक्ते त्रिदशैर्देवो भगवान्पंकजासनः

॥५३॥

रहस्यमेतद्भो देवाः कस्यचिन्नोदितं पुरा ॥

सर्वे समुदिता यस्मादपृच्छत चिरागताः

॥५४॥

ततो वः कथयिष्यामि सुराणां गुह्यमुत्तमम् ॥

पूर्वे परार्द्धे भो देवाः क्षेत्रं श्रीपुरुषोत्तमम्

॥५५॥

नीलाश्मवपुरास्थाय न तत्याज जनार्दनः ॥

सांप्रतं मे द्वितीयं तु परार्द्धं समुपस्थितम्

॥५६॥

मनुः स्वायम्भुवो नाम श्वेतवाराहकल्पके ॥

प्रवर्त्ततेऽयं कालो वै प्रातराद्यदिनस्य च

॥५७॥

दारुमूर्तिरयं देवो भुवनानां हि मध्यमे ॥

ममायुषः प्रमाणं तु स्थास्यते मानयन्प्रभुः

॥५८॥

ममात्मा एष भगवानहमेतन्मयः सुराः ॥

नावयोर्विद्यते किंचिदस्मिन्स्थावरजंगमे

॥५९॥

क्षीरोदार्णवमध्ये हि श्वेतद्वीपे हि तल्पके ॥

यः शेते योगनिद्रां तां मानयन्पुरुषोत्तमः

॥६०॥

स मूलं जगतामादिस्तस्य रोमाणि यानि वै ॥

तानि कल्पद्रुमाख्यानि शंखचक्रांकितानि वै

॥६१॥

तन्मध्यस्थो ह्ययं वृक्षश्चैतन्याधिष्ठितः सुराः ॥

स्वयमुत्पतितः सिंधोः सलिले सत्यपूरुषः

॥६२॥

भोगान्भोक्तुं त्रिलोकस्थान्दारुवर्ष्मा जनार्दनः ॥

अनेकजन्मसाहस्रैर्भक्तियोगेन भावितः

॥६३॥

घोरसंसारनाशाय मया पूर्वं प्रयाचितः ॥

पुनः पुनः सृष्टिलीनपालनोद्विग्नचेतसा

॥६४॥

अशेषकर्मनाशाय जगतां सर्वमुक्तये ॥

धारणाध्यानयोगानां दुष्कराणां विनापि सः

॥६५॥

मोक्षाय भगवानाविर्बभूव पुरुषोत्तमः ॥

प्रच्छन्नं वपुरेतस्य क्षेत्रं नास्य विचारयेत्

॥६६॥

धर्मिग्राहप्रमाणेन यादृग्दृष्टः स एव सः ॥

चतुर्वर्गप्रदो देवो यो यथा तं विभावयेत्

॥६७॥

तद्दर्शनपरिक्षीणपापसंघाः क्रमाद्भुवि ॥

भवन्ति निर्मलात्मानः पुरुषा मुक्तिभाजनम्

॥६८॥

जैमिनिरुवाच

एतच्छ्रुत्वा तु ते देवाः पद्मयोनेर्वचोमृतम् ॥

हृष्टाः संचिंतयामासुः प्रहृष्टेनांतरात्मना

॥६९॥

अचिरस्थायि देवत्वं विहायैतद्भुवं गताः ॥

अस्मिन्क्षेत्रवरे देवमाराध्यामः सुसंयताः

॥७०॥

हर्षप्रफुल्लवदनान्सुरान्दृष्ट्वा पितामह ॥

इन्द्रद्युम्नानुग्रहाय यः प्रकाशं गतः प्रभुः

॥७१॥

याताऽत्र प्रतिमा त्वस्य स्वयमेव वदिष्यति ॥

वरान्प्रदास्यति बहून्भगवान्भक्तवत्सलः

॥७२॥

प्रासादमिन्द्रद्युम्नस्य प्रतिष्ठापयितुं विभुम् ॥

अहं चापि गमिष्यामि यूयं तत्र प्रयात वै

॥७३॥

इन्द्रद्युम्नोऽग्रतो यातु प्रतिष्ठावस्तुसंभृतौ ॥

सहायास्तत्र भवत यूयं क्षीणाधिकारिणः

॥७४॥

मन्वन्तरं व्यतीतं वै प्रथमं सांप्रतं सुराः ॥

इन्द्रद्युम्नेन सहितास्तत्र गत्वा सुरोत्तमाः

॥७५॥

प्रासादप्रतिमानां च विधर्ता स्वाम्यमस्य वै ॥

तस्मात्संभृतसंभारः ससहायोऽधुना ह्यसौ

॥७६॥

अस्य संततिसंबन्धस्मरणादपि भूतले ॥

मदाज्ञया पद्मनिधिः सह यास्यति भूतलम्

॥७७॥

प्रतिष्ठायै भगवतः संयतौ सर्ववस्तुनः ॥

इन्द्रद्युम्नोऽपि हृष्टात्मा दृष्ट्वा ब्राह्मीं श्रियं द्विजाः

॥७८॥

महदाश्चर्यसंपन्नः प्रणिपत्य जगद्गुरुम् ॥

तदाज्ञां शिरसा धृत्वा देवैः क्षीणाधिकारिभिः

॥७९॥

आजगाम भुवं विप्रा विधिना चानुमोदिताः

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोविंशोऽध्यायः ॥ २३ ॥